पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः || अनन्तमव्यक्तमचिन्त्यमेकं स्वमायया सांप्रतमागतं वा ॥ ४८ ॥ इत्येवमृचुर्बहवो विशिष्टा रक्षोगणास्तत्र समेत्य सर्वे || १९३ सप्राणिसङ्घां सगृहां सवृक्षां दग्धां पुरीं तां सहसा समीक्ष्य ॥ ४९ ॥ ततस्तु लङ्का सहसा प्रदग्धा सराक्षसा साश्वरथा सनागा || सपक्षिसङ्घा समृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम् ॥ ५० ॥ हा तात हा पुत्रक कान्त मित्र हा जीवितं भोगयुतं सुपुष्पम् || रक्षोभिरेवं बहुधा ब्रुवद्भिः शब्दः कृतो घोरतरः सुभीमः ॥ ५१ ॥ हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा || हनूमतः क्रोधवलाभिभूता बभूव शापोपहतेव लङ्का ॥ ५२ ॥ स संभ्रमत्रस्त विषण्णराक्षसां समुज्ज्वलज्वालहुताशनाङ्किताम् || ददर्श लङ्कां हनुमान्महामनाः स्वयंभुकोपोपहतामिवावनिम् ॥ ५३ ॥ भक्त्वा वनं पादपरत्नसंकुलं हत्वा तु रक्षांसि महान्ति संयुगे || दग्ध्वा पुरीं तां गृहरत्नमालिनीं तस्थौ हनूमान्पवनात्मजः कपिः ॥ ५४ ॥ त्रिकूटशृङ्गाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः ॥ प्रदीप्तलाङ्गूलकृतार्चिमाली व्यराजतादित्य इवांशुमाली ॥ ५५ ॥ स राक्षसांस्तान्सुबहूंश्च हत्वा वनं च भक्त्वा बहुपादपं तत् || विसृज्य रक्षोभवनेषु चाह्निं जगाम रामं मनसा महात्मा ॥ ५६ ॥ तँतो महात्मा हनुमान्मनखी निशाचराणां क्षतकृत्कृतार्थः ॥ रामस्य नाथस्य जगत्रयाणां श्रीपादमूलं मनसा जगाम ।। ५७ ।। ततस्तु तं वानरवीरमुख्यं महाबलं मारुततुल्यवेगम् || महामतिं वायुसुतं वरिष्ठं प्रतुष्टुवुर्देवगणाश्च सर्वे ॥ ५८ ॥ भङ्क्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे । दुग्ध्वा लङ्कापुरीं रम्यां रराज स महाकपिः ॥ ५९ ॥ । एकं अद्वितीयं । यद्वैष्णवं सुतेजः पूज्यं धाम तदेव | सुकृतैकफलं चेत्यर्थः । घोरतरः तीव्रतरः । अतएव स्वमायया स्वासाधारणयाश्चर्यशक्त्या | कपिरूपमेय सुभीमः भयङ्करः ॥ ५१ ॥ परिवृत्तयोधा परिवृत्त- सांप्रतमागतं वा इतियोजना | वैष्णवमिति स्वार्थे भटा ॥ ५२ || हनुमान्महामना इतिपाठ: । हनुमा- अण् । विष्णुशरीरान्तर्वर्तीतिवार्थः ॥४७॥ विशिष्टा: न्महालेति पाठे विषमवृत्तं वा । स्वयंभुकोपोपहतां ज्ञानाधिकाः ॥४८–५०।| युगपदेव शोके दूराह्वाने प्रलये भगवता दुग्धामित्यर्थः ॥ ५३ || रत्नशब्दः च हाशब्दो वर्तते । हा जीवितमित्यत्र संबुद्ध्यलोप श्रेष्ठवाची | तस्थौ संकल्पितकार्यस्य परिसमाप्तत्वादु - आर्षः। हतमितिशेषइत्यन्ये । “अभितः परितस्समया- परतोद्योगो भूदित्यर्थः ॥ ५४–५५ ॥ जगाम राम निकषाहाप्रतियोगे " इति द्वितीया वा । दरिद्रैरशो- मनसेति । कृतकृत्यत्वाद्रामं गन्तुमियेषेत्यर्थः ॥ ५६ च्यत्वाद्विशिनष्टि – भोगयुतं सुपुण्यमिति । सुखाढ्यं ५७ ॥ वरिष्ठमिति । बलवतामिति शेषः रामानु० रराजसमहाकपिरित्यतःपरमुत्तरसर्गादिभूतो " लङ्कांसमस्तांसंदीप्य " इत्ययं श्लोकः केषुचित्कोशेषुप्रमादाल्लिखितः ॥ ५९ ॥ इतिचतुःपञ्चाशः सर्गः ॥ ५४ ॥ [ पा० ] १ ख. सुभृशंसुशब्दं. २ ङ. झ. जीवितेशाङ्गहतं, ३ ख. द्रवद्भिः ४ ङ. झ. रोषोपहतां. ५ ग. महाद्रि. ६ अयंश्लोकः क. घ. पाठयोर्डश्यते. वा. रा. १७३