सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ [ सं तामत्यर्थतो बहिर्लङ्कां राक्षससंकुलाम् || ज्वालामालापरिक्षेपैरदहन्मारुतात्मजः ॥ ३४ ॥ तेन शब्देन वित्रस्ता धर्षिता स्तेन चाग्निना || अभिपेतुस्तदा घोरा हनुमन्तं निशाचराः ॥ ३५ ॥ तं प्रदीतैश्च शूलाग्रैः प्रासैः खः परश्वथैः ॥ हनूमन्तं महावेगैरक्षिपन्नैऋतर्षभाः ॥ ३६ ॥ ते राक्षसा भीमबला नानामहरणान्विताः ॥ निहत्य च स तांस्तत्र दिवमेवोत्पपात ह || ३७ ॥ स च विक्रम्य सहसा संक्रामंच गृहाद्गृहम् || लङ्कामादीपयामास वायुपुत्रः प्रतापवान् ॥ ३८ ॥ सलालोपसक्ताग्निर्मुक्तो मृत्युगृहादिव ॥ लङ्कां पर्यदहत्कृत्स्त्रां खे ग्रहः संपतन्निव ॥ ३९ ॥ तोरणेषु गवाक्षेषु रम्येषु शिखरेषु च ॥ तिष्ठन्ति स्म प्रपश्यन्ति राक्षसाः प्लवगोत्तमम् ॥ ४० ॥ हुताशनज्वालसमावृता सा हतप्रवीरा हतसर्वशोभना ॥ हनुमतः क्रोधवलाभिभूता बभूव कालोपहतेव लङ्का ॥ ४१ ॥ ससंभ्रमन्त्रस्तविशस्तराक्षसां समुज्वलज्वालहुताशनाङ्किताम् || ददर्श लङ्कां हनुमान्महामनाः स्वयंभुवः कोपहतामिवावनिम् ॥ ४२ ॥ गृहाय्यशृङ्गाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः ॥ प्रदीप्तलाङ्गूलकृतार्चिमाली व्यराजतादित्य इवार्चिमाली ॥ ४३ ॥ ] आदित्यकोटीसदृशः सुतेजा लङ्कां समाप्तां परिवार्य तिष्ठन् || शब्दैरनेकैरशनिप्ररूढैभिन्दन्निवाण्डं प्रबभौ महानिः ॥ ४४ ॥ तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः ॥ निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरेऽभ्राः ॥ ४५ ॥ वज्री महेन्द्रस्त्रिदशेश्वरो वा साक्षाद्यमो वा वरुणानिलो वा ॥ रुद्रोग्निरको धनदश्च सोमो न वानरोयं स्वयमेव कालः ॥ ४६ ॥ किं ब्रह्मणः सर्वपितामहस्य सर्वस्य धातुश्चतुराननस्य || _________ इहागतो वानररूपधारी रक्षोपसंहारकरः प्रकोपः ।। ४७ ।। रक्षश्शरीराण्येवाज्यानि तैस्समर्पितार्चि: उत्थापित - | नं – वज्रीत्यादि ॥ महेन्द्रः | वज्रीत्यादिविशेषणं सा- ज्वालः ॥ ३३—४३ ॥ समाप्तां निःशेषां | अशनि- मर्थ्य विशेषद्योतनाथ । उत्तरत्राप्येवमेवगतिः । यमका- प्ररूढैः अशनिवम्निष्ठुरैः । अण्डं ब्रह्माण्डं ॥ ४४ ॥ लयोर्मूर्तिभेदान्नपुनरुक्ति: । रक्षोपसंहारकरइत्यत्र आ- अम्बरातू अम्बरपर्यन्तं । किंशुकपुष्पचूड: तत्तुल्य- र्षस्सलोपः । प्रकोपः प्रकोपकृतमूर्तिविशेषः ॥४६॥ किं शिखः । निर्वाणधूमाकुलराजय: पूर्वपूर्वदग्धभवन पवना- वैष्णवमिति । अत्राद्यो वाशब्दोवधारणे । “वा स्याद्विक ग्निनिर्वाणसमयोत्थितधूमैर्व्याप्तपतयः । अतएव नी- ल्पोपमयोरेवार्थे चसमुच्चये ” इतिविश्वः । द्वितीयो लोत्पलाभा: निर्वाणघूमानां नीलवर्णत्वादितिभावः । वितर्के । अनन्तं त्रिविधपरिच्छेदरहितं । अव्यक्तं अभ्राः मेघाः । पुँल्लिङ्गत्वमार्षे ||४५|| अथ रक्षोवच- | चक्षुराद्यगोचरं । अचिन्त्यं केवलमनसोप्यविषयं । तस्यास्सूचितं ॥ २९ ॥ ती० सतामिति । वह्निः ज्वालामालापरिक्षिप्तैः ज्वालासमूहानांप्रसारणैः । लङ्कामत्यर्थमदहदितिसंब न्धः ॥ ३४॥ ती० सः हनुमान् ॥ ३७॥ ती० सचेति । संक्रामन् गच्छन् ॥ ३८ ॥ ती० सइति । लाङ्गूलोपसक्ताग्निः लाङ्गूलो- त्थितोग्निः । मृत्युगृहान्मुक्तइवतथाऽतिभीकरइत्यर्थः ॥ ३९ ॥ ती० हुताशनेति । कालोपहतेव प्रलयकालोपहतेव ॥ ४१ ॥ शि० गृहाम्य शृङ्गाग्रतले गृहाय्याणां गृहश्रेष्ठानां शृङ्गायतले परप्रासादभूमौ । प्रतिष्ठितः अर्चिमाली आदित्यइव प्रदीप्तलाङ्गूल कृतार्चिमालीवानरराजसिंहः व्यराजत । अतएव निर्देशादर्चिशब्दोप्यस्तीतिप्रतीयते ॥ ४३ ॥ [ पा०] १ सतामत्यर्थतो वहिरित्यादयः व्यराजतादित्यइवार्चिमाली त्यन्ताः श्लोकाः च छ ज पाठेदृश्यन्ते. २ क. घ. ङ. झ. ज. ट. समस्तां. ३ ख. घ. रशनिप्रकाशैः ४ इट. लोकस्यधातुः,