पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९०. श्रीमद्वाल्मीकि रामायणम् । [ सुन्दरकाण्डम् ५ यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः ॥ अस्य संतर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः ॥ ५ ॥ ततः प्रदीप्तलाङ्गूलः सविधुदिव तोयदः ॥ भवनाग्रेषु लङ्काया विचचार महाकपिः ॥ ६ ॥ गृहाद्गृहं राक्षसानामुद्यानानि च वानरः || वीक्षमाणो ह्यसंत्रस्तः प्रासादांच चचार सः ॥ ७ ॥ अवय महावेगः प्रहस्तस्य निवेशनम् || अग्निं तंत्र स निक्षिप्य श्वसनेन समो बली ॥ ८ ॥ ततोऽन्यत्प्लवे वेश्म महापार्श्वस्य वीर्यवान् || मुमोच हनुमानसिं कालानलशिखोपमम् ॥ ९ ॥ वज्रदंष्ट्रस्य च तथा पुलवे स महाकपिः ॥ शुकस्य च महातेजाः सारणस्य च धीमतः ॥ तथा चेन्द्रजितो वेश्म ददाह हरियूथपः ॥ १० ॥ जम्बुमालेः सुमालेश्च ददाह भवनं ततः ॥ ११ ॥ रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च || इस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥ १२ ॥ युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः || विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च ॥ १३ ॥ करालस्य पिशाचस्य शोणिताक्षस्य चैव हि ॥ कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि ॥ १४ ॥ यज्ञशत्रोच भवनं ब्रह्मशत्रोस्तथैव च ॥ नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः ॥ १५ ॥ वर्जयित्वा महातेजा विभीषणगृहं प्रति ॥ क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः ॥ १६ ॥ तेषुतेषु महार्हेषु भवनेषु महायशाः || गृहेष्वृद्धिमतामृद्धिं ददाह स महाकपिः ॥ १७ ॥ सर्वेषां समतिक्रम्य राँक्षसेन्द्रस्य वीर्यवान् || आससादाथ लक्ष्मीवात्रावणस्य निवेशनम् ॥ १८ ॥ ततस्तस्मिन्गृहे मुख्ये नानारत्नविभूषिते || मेरुमन्दरसंकाशे सर्वमङ्गलशोभिते ।। १९ ।। प्रदीप्तमग्निमुत्सृज्य लाङ्गूलाग्रे प्रतिष्ठितम् || ननाद हनुमान्वीरो युगान्तजलदो यथा ॥ २० ॥ श्वसनेन च संयोगादतिवेगो महाबलः || कालाग्निरिव जज्वाल प्रावर्धत हुताशनः ॥ २१ ॥ प्रदीप्तमग्निं पवनस्तेषु वेश्मवचारपत् ॥ अभूच्छ्रसनसंयोगादतिवेगो हुताशनः ॥ २२ ॥ तानि काञ्चनजालानि मुक्तामणिमयानि च ॥ भवनान्यवशीर्यन्त रत्नवन्ति महान्ति च ॥ २३ ॥ तानि भग्गविमानानि निपेतुर्वसुधातले ॥ भवनानीव सिद्धानामंचरात्पुण्यसंक्षये ॥ २४ ॥ - कृते सतीति शेषः ।। ४ ।। केनोपायेनेदं सुकरमित्या- | य ॥ ११ ॥ रश्मिकेतोरित्यादिप चश्लोकी || १२ शय तमाह – योहीति ॥ यः अग्निः । अतिशीतलतया मम महोपकारं कृतवान् अस्य संतर्पणं न्याय्यमित्यर्थः ॥ ५ ॥ अत्र बन्धविस्रंसनाय पूर्व तनुसंकोचे कृतेपि कार्यार्थमग्निवर्तिः स्थापितेति बोध्यं । सविद्युदिव तोयद इति सर्वतआवृत्यसञ्चारे दृष्टान्तः ॥ ६-९ ॥ वज्रदंष्ट्रस्येत्यादि सार्धश्लोकः ॥ १० ॥ जम्बुमालेरि- - १५ ॥ प्रतिवर्जयित्वेति संबन्धः ॥ १६ ॥ भव- नेष्विति गृहविशेषणं समृद्धिमत्परं । ऋद्धिं मणि- मुक्ताप्रवालादिकां ॥ १७–१८ ॥ सर्वमङ्गलशोभिते सर्वमङ्गलद्रव्ययुक्ते ॥ १९ – २० ॥ श्वसनेनेति । पूर्व रावणादिभीतावम्यनिला इदानीं राक्षसक्षयं देवबलोदयं च प्रत्यासन्नं विदित्वा निश्शङ्कावभूतामिति योमयाकृतःश्रमः सत्वल्पेनयत्नेन स्वल्पयत्नेनसाध्येनकरिष्यमाणलङ्कादाहेन सफलोभविष्यति ॥ ४ ॥ ति० तोयदः सन्ध्यातो- यदः।हनुमतोरक्तवर्णत्वात् ॥ ६ ॥ ति० प्रहस्तस्यप्रधानमन्त्रित्वादादौतद्गृहेग्निप्रक्षेपः । प्रथमंतत्संभावनस्यौचित्यात् ॥ ८ ॥ स० कालानलशिखोपमं हनुमलाङ्गूलसंसर्गमाहात्म्येनजलाद्यशाम्यज्वालत्वेनैतदुपमता ॥ ९ ॥ स० प्रतिगृहंक्रमेणक्रममाणइत्यन्वयः । विभीषणगृहंवर्जयित्वा । अनेनविभीषणसाधुत्वमिवअन्योन्यसंलग्नतायामपिसद्मनांदाहतदभावयोर्हनुमदिच्छानुसारिप्रवृत्तिरग्नेश्चद्यो- [ पा० ] १ क. गं. घ. सर्वशः. २ ङ. झ. ट. तत्रविनिक्षिप्य. क. – घ. च. छ. तत्रैव. ३ ग. ङ. —ट. विशालस्य • ४ क. ग. ङ. – ट. महात्मतः ५ ग. महाबाहुः ६ घ. राक्षसानांच, ७ ङ–झ. ट. नानामङ्गल, ८ क. संदीप्तःप्रावर्धत,