पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १८९ सीतायाश्चानृशंस्येन तेजसा राघवस्य च ॥ पितुश्च मम सख्येन न मां दहति पावकः ॥ ५३ ॥ भूयः सं चिन्तयामास मुहूर्त कपिकुञ्जरः || [कथंमसद्विधस्येह बन्धनं राक्षसाधमैः ॥ प्रतिक्रियाऽस्य युक्ता स्यात्सति मह्यं पराक्रमे ॥ ५४ ॥ ततरिछत्त्वा च तान्पाशान्वेगवान्वै महाकपिः ॥] उत्पपाताथ वेगेन ननाद च महाकपिः ॥ ५५ ॥ पुरद्वारं ततः श्रीमाञ्शैल शृङ्गमिवोन्नतम् ॥ विभक्तरक्षःसंबाधमाससादानिलात्मजः ॥ ५६ ॥ स भूत्वा शैलसंकाशः क्षणेन पुनरात्मवान् || इस्वतां परमां प्राप्तो वन्धनान्यवशातयत् ॥ ५७ ॥ विमुक्तचाभवच्छ्रीमान्पुनः पर्वतसन्निभः ॥ वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् ॥ ५८ ॥ स तं गृह्य महाबाहुः कालायसपरिष्कृतम् || रक्षिणस्तान्पुनः सर्वान्दयामास मारुतिः ॥ ५९ ॥ स तान्त्रिहत्वा रणचण्डविक्रम: समीक्षमाणः पुनरेव लङ्काम् || प्रदीप्तलाङ्गूलकूतार्चिमाली प्रकाशतादित्य इवार्चिमाली ।। ६० ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३ ॥ चतुष्पञ्चाशः सर्गः ॥ ५४ ॥ हनुमता लङ्कादहनस्य कार्यशेषत्वनिर्धारणेन स्ववालानलेन विभीषणभवनर्ज समग्रलङ्कादहनम् ॥ १ ॥ देवगन्धर्वादिभि लङ्कादहकदर्शनेन सविस्मयंहर्षाधिगमः ॥ २ ॥ वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः ॥ वर्धमानसमुत्साहः कार्यशेषमचिन्तयत् ॥ १ ॥ किं नु खल्ववशिष्टं मे कर्तव्यमिह सांप्रतम् || यदेषां रक्षसां भूयः संतापजननं भवेत् ॥ २ ॥ वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताः ॥ बलैकदेशः क्षपितः शेषं दुर्गविनाशनम् ॥ ३ ॥ दुर्गे विनाशिते कर्म भवेत्सुखपरिश्रमम् || अल्पयत्नेन कार्येस्सिन्मम स्यात्सफल : श्रमः ॥ ४ ॥ त्वरा । किमभिर्न करिष्यति संभ्रममिति शेषः । | अनित्यत्वादडभावः । अर्चीतीकारान्तत्वमाषे ॥ ६० ॥ रामार्थ मैनाकस्य संभ्रमो यदि स्याद्ग्नेस्ता दृशस्संभ्रमः इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे कुतो न भविष्यतीत्यर्थः ॥ ५२ || आनृशंस्येन दयया | शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रिप- || ५३ || स चिन्तयामास अनन्तरकर्तव्यमितिशेष: श्चाशः सर्गः ॥ ५३ ॥ ॥ ५४ ॥ चिन्तितमेवाह - उत्पपातेति ॥ ५५ ॥ विभक्तरक्षरसंबाधं निवृत्तरक्षरसंचारं ॥५६॥ अव- कृतमनोरथः पर्याप्तमनोरथः ॥ १ – २ || बलैकदेश: शातयत् अवाशातयत अच्यावयदित्यर्थः ॥ ५७ -- | सेनैकदेश: । क्षपितः नाशितः । दुर्गविनाशनं पुरवि- ५९ || निहत्वा निहत्य | ल्यबभावआर्ष: । लाङ्गूल- नाशनं | शेषं अवशिष्टं ॥ ३ ॥ कर्मपूर्वोक्तं वनभ- कृतार्चिमाली लागूले कृतज्वालामालः | अर्चिमाली ङ्गादिकं । समुद्रलङ्घनं दूत्यं वा । सुखपरिश्रमं सफला- तेज:पुञ्जवानादित्य इव । प्रकाशत प्राकाशत । यासं । शक्यमेतदित्याह – अल्पयत्नेनेति । अस्मिन्कार्ये । यदीति ॥ तावदितिवाक्यालङ्कारे | रामार्थं रामोपकारार्थे । तादृक्संभ्रमोयदि आदरपूर्वकं त्वरायदि । तदा समेणनित्यमुपासि- तोऽग्निः रामोपकारार्थी कथमपिशैत्य किंनकरिष्यतीत्यर्थः ॥ ५२ ॥ ति० प्रतिक्रिया लङ्कादहनरूपा | मह्यं मम ॥ ५४ ॥ शि० उत्पपात ननादच । क्रियाभेदात्कपिरितिनपौनरुत्तयं ॥ ५५ ॥ स० विभक्तरक्षरसंबाधं नामाधिकार नियुक्तराक्षस निबिडं ॥५६॥ स० रक्षिणः तोरणरक्षिणः ॥ ५९ ॥ इतित्रिपञ्चाशः सर्गः ॥ ५३ ॥ स० कर्म समुद्रतरणादिरूपं । सुखपरिश्रमं सुखयतीतिसतथा श्रमोयस्यतत् । अल्पयत्नेन पावकसंपादनाद्यायासरहितयत्नेन । मम स्वामिनइतिशेषः । श्रमः मत्प्रेषणरूपः । सफलः कीर्तिरूपफलसहितइत्यर्थः ॥ ति० अस्मिन् सीतान्वेषणप्रवृत्तिरूपे । कार्ये- [ पा० ] १ क. ख. ग. ङ, छ, ज. ज. ट. संचिन्तयामास २ इदमर्धत्रयं ङ. -ट. पाठेषुदृश्यते.