पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ सुन्दरकाण्डम् ५ हनुमज्जनकश्चापि पुच्छानलयुतोऽनिलः ॥ ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः ॥ ३३ ॥ [ तां तदा परमोद्विग्नां सीतां शोकाभिकर्शिताम् ॥ हनूमति गृहीते तु रक्षोभिर्भीमविक्रमैः ॥ उवाच सरमा वाक्यं तामाश्वासयितुं तदा ॥ ३४ ॥ मा शुचो देवि वैदेहि हनूमन्तं महाकपिम् ॥ ३५ ॥ हत्वा तु रक्षिणः सर्वात्राक्षसांस्तत एव सः ॥ पुरीं लङ्कां दहति स साक्षादिव हुताशनः || भवनाद्भवनं गच्छन्नसावत्यन्तवीर्यवान् ॥ ३६ ॥ प्रासादवरसंस्थाच गवाक्षस्थाच योषितः ॥ वह्निप्रदीप्तनयनास्तथा क्रन्दन्ति दुःखिताः ॥ ३७ ॥ एता वरविशालाक्ष्यो वह्निज्वालासमावृताः | अपश्यन्त्यः कचित्स्थातुं सर्वतोऽग्निसमावृताः ॥ बह्नावभ्युत्पतन्त्याशु कर्तव्यं नैव जज्ञिरे ॥ ३८ ॥ १८८ अभिधावन्ति सहसा क्रोशन्त्यः सह बालकैः ॥ अवकुण्ठानि कृत्वा स वासोभिर्विष्ठितास्तदा ॥३९॥ स्तंभै राजतसौवर्णै: प्रवालमणिचारुभिः || दृश्यन्तेऽग्निसमासक्ता वह्नौ वह्निरिवोद्यताः ॥ प्रासादमाला बहुधा अग्निदग्धाः पतन्ति हि ॥ ४० ॥ अर्चिषेव हिरण्यानां प्रभाभिः कृष्णवर्त्मनः ॥ दीप्यमाना इवाभाति लङ्केयं कालपर्यये ॥ ४१ ॥ क्वचिद्दग्धाः प्रदेशास्तु कचिद्दग्धा विनाशिताः ॥ बहुभौमा विभान्ति स्म गृहाणां भूमयः शुभाः ॥ ४२ ॥ कान्ताभिः सह वित्रस्ता दृश्यन्ते राक्षसास्तदा || हाहेत्युचैर्वदन्ति स्म त्रातारं नाभिजज्ञिरे ॥ ४३ ॥ संप्रदीप्तां पुरीं लङ्कां हनुमद्वीर्यधर्षिताम् || अन्तःपुराणि सर्वाणि दृष्ट्वा दुद्रुविरे तदा ॥ ४४ ॥ कचित्कुङ्कुमवर्णाभाः कचिकिशुक संनिभाः || कचिन्म लिनसंकाशाः शिखा बह्वेश्रकाशिरे ॥ ४५ ॥ धूमेन संवृताः केचिगृहोद्देशाः सुशोभनाः || वर्षाकाले तु संप्राप्ते घनैरिव नभस्स्थलम् ॥ ४६ ॥ देवि व्यपैतु ते त्रासो हनूमन्तं प्रति प्रिये ॥ दग्ध्वैव लङ्कां सुमहान्थ्योनि वीरः प्रकाशते । दीर्घेर्घनांबुसंरोधैर्मुक्त चन्द्रइवामलः ॥ ४७ ॥ एतच्छ्रुत्वाऽभवत्प्रीता सीता शशिनिभानना || निर्वृतिं परमां प्राप्ता बाला स्वस्थाऽभवत्तदा ॥४८॥] मानेच लाकूले चिन्तयामास वानरः || प्रदीप्तोऽग्निरयं कमान्न मां दहति सर्वतः ।। ४९ ॥ दृश्यते च महाज्वालः करोति न च मे रुजम् || शिशिरस्येव संपातो लाङ्कलाग्रे प्रतिष्ठितः ॥५०॥ अथवा तदिदं व्यक्तं यद्दृष्टं प्लवता मया || रामप्रभावादाश्चर्य पर्वतः सरितां पतौ ॥ ५१ ॥ यदि तावत्समुद्रस्य मैनाकस्य च धीमतः ॥ रामार्थं संभ्रमस्ता हक्किमग्निर्न करिष्यति ॥ ५२ ॥ अनिलश्च पुच्छानलयुतोपि प्रालेयानिलशीतलः हिम- | नोशीरादे: संपात: संघट्ट इव स्थितः । अत्यन्तशीतल .मारुतवच्छीतलस्सन् | देव्याः सीतायाः । स्वास्थ्य- इत्यर्थ: । एतेन हेतुविशेषं न पश्यामीत्युक्तं ॥ ५० ॥ करः सुखकरः । ववौ । अस्मात्परं दह्यमाने च हेतुविशेषान्निचिनोति – अथवेत्यादिना ॥ लवता लाङ्गूल इति श्लोकः । अनयोः श्लोकयोर्मध्ये केचन मया सरितां पतौ । आर्ष घिसंज्ञाकार्य | समुद्रमध्ये | श्लोकाः कतिपयकोशेषु दृश्यन्ते । बहुकोशेष्वदर्शना- पर्वतः पर्वतरूपं यदाश्चर्य अद्भुतरूपं वस्तु दृष्टं । दर्थाधिक्याभावाच ते अनादरणीयाः ॥ ३३ – ४९ ॥ तद्वदिमः शैत्यं रामप्रभावात्संजातं व्यक्तं निश्चितं रुजं पीडां । शिशिरस्येव संपात: शिशिरस्य चन्द- ॥ ५१ ॥ एतदेवोपपादयति — यदीति ॥ संभ्रमः `शनेतिशेषः । अस्याःसीताछाया त्वेपिस्वस्मिंस्तदभेदबुद्धिसत्त्वान्नैतदुक्तयसंगतिः ॥ २८ ॥ रामानु० हनुमज्जनक 'त्परतोदय मानेचलाङ्गूलेइतिश्लोकः । अनयोः श्लोकयोर्मध्येसरमावाक्यभूताःकेचनश्लोकाः कतिपयकोशेषुदृश्यन्ते । बहुकोशेष्वदर्श- 'नादर्थौचित्याभावाञ्चतेअनादरणीयाः ॥ ३३ ॥ ति० ननुसमुद्रप्रेरणेन मैनाकोत्थानंयुज्यते अमेस्तुस्वभाववैप रीयंकुतस्तत्राह• [ पा०] १ तांतदापर मोद्विमामित्यारभ्य बालास्वस्थाऽभवत्तदेत्यन्ताः श्लोकाः घ, पाठेश्यन्ते. ।