पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५१ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । १७९ लक्षितेयं मया सीता तथा शोकपरायणा || गृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम् ॥ २३ ॥ नेयं जरयितुं शक्या सासुरैरमरैरपि | विषसंसृष्टमत्यर्थ भुक्तमन्नमिवौजसा ॥ २४ ॥ तपस्संतापलब्धस्ते योऽयं धर्मपरिग्रहः || न स नाशयितुं न्याय्यमात्मप्राणपरिग्रहः ॥ २५ ॥ अवध्यतां तैपोभिर्या भवान्समनुपश्यति || आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान् ॥ २६ ॥ सुग्रीवो न हि देवोऽयं नॉसुरो न च रॉक्षसः ॥ नै दानवो न गन्धर्वो न यक्षो न च पन्नगः ||२७|| [ माँनुषो राघवो राजन्सुग्रीवश्च हरीश्वरः ॥ ] तस्मात्प्राणपरित्राणं कथं राजन्करिष्यसि ॥ २८ ॥ न तु धर्मोपसंहारमधर्मफलसंहितम् ॥ तदेव फलमन्वेति धर्मश्चाधर्मनाशनः ॥ २९ ॥ । सीतानयनं तत्र राघवो निमित्तं | आज्ञप्तस्यैव मया | विनाशयेत्यर्थः । चकाराभावादित्यमेव योजना कर्तव्यत्वादितिभावः ॥ २२ ॥ दृष्टयापिमद्वशंवदया ॥ २५ ॥ सर्वावध्यस्थेह मे कोयमायुर्विनाशक इत्या- सीतया राम: किंकरिष्यतीत्याशङ्कयाह – लक्षितेय - मिति ॥ तथेति वाचामगोचरत्वोक्तिः । नेयं तव वश्या प्रत्युत पन्नगीव तव प्राणहारिणीतिभावः ।। २३ || ओजसा अमरपक्षे प्रतापेन । अन्नपक्षे जाठराग्निना ॥ २४ ॥ तपःकृच्छ्रलब्धमिष्टं महज्जीवनं वृथामानाशयेत्याह- इ - तप इति ॥ तपस्संताप : तप श्चर्या । ओदनपाकं पचतीतिवन्निर्देशः । तेन लब्धः । परिगृह्यत इति परिग्रहः फलं धर्मपरिग्रहः धर्मफलं । शय परिहरति — अवध्यतामिति ॥ तपोभिराजितां सासुरैर्देवैर्या आत्मनोऽवध्यतां भवान् समनुपश्यति । तत्रापि अवध्यतायां सत्यामपि । अयं वक्ष्यमाणः । हेतुः भवद्वधहेतुरस्ति । महान् अपरिहार्यः ॥ २६ ॥ तमेव हेतुमाह - सुग्रीव इति ॥ न च राक्षस इति पाठस्सम्यक् । न च मानुष इति पाठे प्रतिषेधप्रसक्ति- रपि नास्तीत्युच्यते । “ तृणभूता हि मे सर्वे प्राणिनो मानुषादयः " इत्युत्तरश्रीरामायणे मनुष्यादिभिरव- ध्यत्वस्याप्रार्थितत्वात् । नच तिर्यञ्च इति न प्रसज्य च प्रतिषिध्यतइतिभावः ॥ २७ ॥ तस्मात् सुश्रीवात् ॥ २८ ॥ ननु किमनेनोपदेशेन कृतानि मया पापानि तैश्चावश्यं फलप्रदैर्भवितव्यमित्याशङ्ख्याह—न त्विति।। योपरिग्रहः आसनः प्राणानां च परिग्रहः स्वीकारः । जीवनमिति यावत् । स नाश- यितुं न न्याय्यं न युक्तं । अव्ययमेतत् । तपःक्लेशलब्धं तद्व्यतिरिक्तधर्मफलभूतं च यज्जीवनमायुः तन्न आकाशगामिनइत्यर्थः ॥ १४ ॥ स० पञ्चास्यामित्यनेन आस्यस्थानीयानि रामोलक्ष्मणोराजाऽहंचेति चत्वा रिवयंसी तेत्येकं चेति पञ्चआस्या नियस्यास्सा तां । विस्तृतमुखींवा ॥ २३ ॥ शि० जरयितुं गोपयितुमित्यर्थः ॥ २४ ॥ स० तपस्संतापेनलब्धोयो- धर्मपरिग्रहः धर्मसंचयः । यद्वा धर्मेचार्थेचेतिधर्मसाधनीभूतः परिग्रहोमन्दोदरी | सुभार्यायाः पुण्यलभ्यत्वात् । नाशयितुं पूर्वत्रः बिफली कर्तु परंत्र विधवीकर्ते| आत्मप्राणपरिग्रहः बहुकालवर्तिप्राणपरिग्रहणवान् । अन्यथा त्वत्प्राणपरिग्रहः प्राणवियोजकइत्यर्थ- ॥ २५ ॥ शि० अयंसुग्रीवोराघवश्वदेवादिन । किंतु सुग्रीवोहरीश्वरः राघवश्चमानुषः । एतेनाभ्यांतवाभयदानंनास्तीतिसूचितं ॥ २७ ॥ ती० ननुमहतापूर्वसंचितेनैव धर्मेण ममत्राणंभविष्यतीत्याशंक्यरोगराज्यादिवद्धर्माधर्मफलयोःसंभूयानुभवसिद्धेरात्मत्राण- सिद्धिः । उताधर्मबाधेनधर्मफलानुभवश्चेतिद्वेधाविकल्प्याद्यस्यासंभवमाह - नत्विति । धर्मोपसंहारं धर्मस्यफल विनाश्यत्वात् धर्म उपसंहियतइतिधर्मोपसंहारं धर्मफलंसुखतत् अधर्मफलसंहितंनभवति । अधर्मेणसहभोग्यंनभवतीत्यर्थः । तीव्रतपःपरदाराप- हरणभवदीय धर्माधर्मफलयोर्वध्यत्वावध्यत्वयोःजीवनतदभावयोः सहावस्थान विरोधात् । रोगराज्यादिवत्संभूयानुभवोनसंभवती- तिभावः। द्वितीयंदूषयति— तदेवेति । तत् धर्मफलमेवान्वेति धर्मफलंधर्मफलेन सह तिष्ठतीतियावत् । धर्मोनाधर्मनाशनः अधर्म- बाधेन धर्मफलानुभवोन घटतइतिभावः । यद्वा ननुयेभ्योऽवध्यत्वंनप्रार्थितं तेभ्योपिपूर्वोपार्जितोमहासुकृतसंचय एवरक्षिष्यतीत्याश- द्व्यएवंचेत्तुल्यन्यायतयात्वत्कृतःअधर्मनिचयोपित्वांनाशयिष्यतीत्याह – नविति । धर्मोपसंहारंधर्मस्यफल विनाश्यत्वात् धर्मउपसं- ह्रियतेअनेनेति धर्मोपसंहारंधर्मफलंसुखं । तत् अधर्मसंहितं विरुद्ध कारणकत्वाद्दुःखसंहितंनभवतीत्यर्थः । किंतु तदेवफलमन्वेति सुखमेवफलत्वेनानुवर्तते । तुश्चार्थे | तेनाघर्मफलमपि धर्मफलसहितंनभवति अधर्मफलवेनानुवर्ततइतिलभ्यते । नाशयिष्यतीत्याशङ्ख्याह – धर्मश्चेति । अननुवर्तते । धर्मः अधर्मनाशनोनभवति । पूर्वकृतोधर्मः इदानींकृताधर्मनाशनोनभव- तीत्यर्थः । चकारादेवमधर्मोपि धर्मनाशनोनभवतीतिलभ्यते । धर्माधर्मावनुभवैकविनाश्यावितिभावः ॥ ति० ननुतपोबलान्मे- [पा० ] १ ङ. झ. ट. गृहे. १ क. ग. घ. ङ. झ. ट. सोयं. ३ च. छ. ज. ज. तपोवीर्याद्भवान् ४ ङ. झ. ट. नयक्षो. ५ क॰—घ॰मानुषः॰ ६ क॰—घ॰ नराक्षसो. ङ. झ. ट. पाठेष्विदमर्षेनदृश्यते. ७ ङ. – ट. पाठेष्विदमर्धेदृश्यते. ८ घ.च. संयुतं.