श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः || ऋश्यमूकमनुप्राप्त : सुग्रीवेण समागतः ॥ ८ ॥ तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् || सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् ॥ ९ ॥ ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् || सुग्रीवः स्थापितो राज्ये हरृक्षाणां गणेश्वरः ॥ १० ॥ त्वया विज्ञातपूर्वश्व वाली वानरपुङ्गवः || रामेण निहतः सङ्ख्ये शरेणैकेन वानरः ॥ ११ ॥ स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः || हरीन्संप्रेषयामास दिशः सर्वा हरीश्वरः ॥ १२ ॥ तां हरीणां सहस्राणि शतानि नियुतानि च ॥ दिक्षु सर्वासु मार्गन्ते ह्यधयोपरि चाम्बरे ॥ १३ ॥ वैनतेयसमाः केचित्केचित्तत्रानिलोपमाः ॥ असङ्गगतयः शीघ्रा हरिवीरा महाबलाः ॥ १४ ॥ अहं तु हनुमान्नाम मारुतस्यौरसः सुतः || सीतायास्तु कृते तूर्ण शतयोजनमायतम् ॥ १५ ॥ समुद्रं लङ्घयित्वैव तां दिक्षुरिहागतः ॥ भ्रमता च मया दृष्टा गृहे ते जनकात्मजा ॥ १६ ॥ तद्भवान्दृष्टधर्मार्थस्तपःकृतपरिग्रहः || परदारान्महाप्राज्ञ नोपरोद्धुं त्वमर्हसि ॥ १७ ॥ न हि धर्मविरुद्धेषु बद्दपायेषु कर्मसु || मूलघातिषु सज्जन्ते बुद्धिमतो भवद्विधाः ॥ १८ ॥ कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् || शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि ॥ १९ ॥ न चापि त्रिषु लोकेषु राजन्विद्येत कश्चन राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् ॥२०॥ तत्रिकालहितं वाक्यं धर्म्यमैर्थानुबन्धि च ॥ मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ॥ २१ ॥ दृष्ट्वा हीयं मया देवी लब्धं यदिह दुर्लभम् ॥ उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः ॥ २२ ॥ इति यत्प्रत्ययः ॥ ६–७ ॥ सुप्रीवेण मयेतिशेषः । यद्वा लोके वक्तारः स्वामानमन्यमिव निर्दिशन्त्यौद्ध यातिशयात् । यद्वा अत्रानुवादात् पूर्वसुग्रीवेणैवं वक्तव्यमिति पठितं तथैव हनुमान्पठतीति समादेश- प्राधान्यादन्यवाक्यमपि तथोच्यत इति केचित्प्राहु: । यद्वा सुग्रीवसंदेशस्य रामप्रयोजनपरत्वात्संदेशोपयो- गितया रामसुश्रीवयोस्सख्यादिकं दर्शयति - राजा दशरथ इत्यादिना ।। ८–११ ॥ सत्यसङ्गरः सत्यप्र- तिज्ञः । “ कर्बुरे च प्रतिज्ञाजिसंविदापत्सु सङ्गरः ” इत्यमरः ।। १२ । अधश्चोपरि चाम्बरे पाताले भूमौ आकाशे चेत्यर्थः॥१३॥असङ्गगतय इति शीघ्रत्वे हेतुः ॥ १४ ॥ औरसस्सुतः क्षेत्रजत्वव्यावृत्तये औरसपदं । सीतायास्तु कृते सीतालाभाय । तां दिदृक्षुरिति योज्यं ।। १५–१६ ।। एवं सुग्रीवसंबन्धं प्रतिपाद्य सुग्रीव - संदेश वदति – तद्भवानित्यादिना ॥ दृष्टधर्मार्थ : शाण विदितधर्मार्थ स्वरूप इत्यर्थः । तपःकृतपरिग्रह: तपसि विषये कृतस्वीकारः । यद्वा तपसा स्वयं कृत- परिग्रहः । स्वारसिकतपस्कइति यावत् । हेतुगर्भे विशेषणे ॥ १७ ॥ धर्मविरुद्वेषु धर्मशास्त्रविरुद्धेषु । धर्मविरुद्धत्वेपि यत्सौख्यावहं तत्कार्यमित्यत्राह – बह्र- पायेष्विति । बहुहानिकरेष्वित्यर्थः । अपायाः कथं- चित्परिडियन्त इत्याशङ्कयाह - मूलघातिष्विति । स्वविनाश करेष्वित्यर्थः । कर्मसु परदारापहारेषु । न सज्जन्ते नोयुक्ता भवन्ति ॥ १८ ॥ रामकोपानुव- र्तिनां रामकोपानुसारेण निर्गतानामित्यर्थः ॥ १९ ॥ व्यलीकं अप्रियं । " व्यलीकं त्वप्रियेऽनृते " मरः ॥ २० ॥ तत् तस्मात् अधर्मावहत्वाद्रामापरा- धस्य परिहर्तव्यत्वाच्च । त्रिकालहितं भूतभविष्यद्वर्त- मानकालहितं । दारुणाधर्मस्य स्वपूर्वपुरुषविनाशक त्वेन तत्परिहारस्य भूतकालहितत्वं मन्यस्व । मत्वा प्रतिदीयतामिति योज्यं ॥ २१ ॥ जानकीहरणे किं मानं तत्राह — दृष्टा हीति ॥ यत्सीतादर्शनं दुर्लभं इतरवानरालभ्यं । तल्लब्धं | तर्हि सा नीयतामित्यत्राह - उत्तरमिति | सीतादर्शनोत्तरं यच्छेषं कर्म जेत्यन्तेनप्रतिपादयन्तद्भवानित्यादिनाकृत्वासुखमवामुयादित्यन्तेनसुग्रीवसंदेशंवदति ॥ ३ ॥ ति० तांमार्गमाणःसरामः ऋश्यमूकं प्राप्तः सुप्रीवेणसंगतश्च । अनेनैवज्ञायते नेदंसुग्रीव संदेशवाक्यं । तदाहिमयाचैव सुसंगतइतिवदेत् ॥ ८ ॥ ती० लयाविज्ञात- पूर्वश्चवालीतिमर्मोक्तिः सतेन निहतइतिरामोत्कर्षश्चप्रतिपादितइतिज्ञेयं ॥ ११ ॥ असङ्गगतयः आलंबरहितगतिविशिष्टाः । [ पा० ] १ क. ङ. —ट, सतेन. २ ङ. झ ट मर्थानुयायिच. क. – घ. मर्थानुपातिच. M.
पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१८२
दिखावट