सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ श्रीमद्वारमीकिरामायणम् । [ सुन्दरकाण्डम् ५ हन्यतां दह्यतां वाऽपि भक्ष्यतामिति चापरे | राक्षसास्तत्र संक्रुद्धाः परस्परमथाब्रुवन् ॥ ५७ ॥ अतीत्य मार्ग सहसा महात्मा स तत्र रक्षोधिपपादमूले ॥ ददर्श राज्ञः परिचारवृद्धान्गृहं महारत्नविभूषितं च ॥ ५८ ।। स ददर्श महातेजा रावणः कपिसत्तमम् ॥ रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः ॥ ५९ ॥ राक्षसाधिपतिं चापि ददर्श कपिसत्तमः ॥ तेजोबलसमायुक्तं तैपन्तमिव भास्करम् ॥ ६० ॥ स रोषसंवर्तितता प्रदृष्टिर्दशाननस्तं कपिमन्ववेक्ष्य || अथोपविष्टान्कुलशीलवृद्वान्समादिशत्तं प्रति मैन्त्रिमुख्यान् ॥ ६१ ॥ यथाक्रमं तैः स कैपिर्विपृष्टः कार्यार्थमर्थस्य च मूलमादौ ॥ निवेदयामास हरीश्वरस्य दूतः सकाशादहमागतोसि ॥ ६२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टचत्वारिंशः सर्गः ॥ ४८ ॥ एकोनपञ्चाशः सर्गः ॥ ४९ ॥ हनुमता रावणसमृद्धिनिरीक्षणेनाश्चर्यपरवशतया तस्यबलवदधर्माभावे सशकसुरलोकशासनोस्प्रेक्षणम् ॥ १ ॥ ततः स कर्मणा तस्य विस्मितो भीमविक्रमः ॥ हनुमात्रोषताम्राक्षो रक्षोधिपमवैक्षत ॥ १ ॥ आजमानं महार्हेण काञ्चनेन विराजता || मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम् ॥ २ ॥ वज्रसंयोगसंयुक्तैर्महार्हमणिविग्र हैः || हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः ॥ ३ ॥ महार्हथौम संवीतं रक्तचन्दनरूषितम् || स्वनुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः ॥ ४ ॥ विवृतैर्दर्शनीयैश्च रक्ताक्षैर्भीमदर्शनैः ॥ दीप्ततीक्ष्णमहादं: प्रलंबदशनच्छदैः ॥ ५॥ शिरोभिर्दशभिवरं भ्राजमानं महौजसम् ॥ नानाव्यालसमाकीर्णै: शिखरैरिव मन्दरम् ॥ ६ ॥ ॥ कर्मणा तस्य विस्मितः युद्धार्थ रावणेनागन्तव्य - । अर्थस्य कर्तव्यार्थस्य । मूलं | मिति मया यत्नः कृतः स तु नीतिज्ञ आसनस्थ एव इन्द्रजिन्मुखेन मां निबध्यानीतवानित्यानयनकर्मणा जातविस्मय इत्यर्थः ॥ १-२ ॥ वज्रसंयोगसंयुक्तैः वकीलनेन संबद्धैः । अत्र भ्राजमानमित्यनुषज्यते ॥ ३ ॥ भक्तिभिः पङ्क्तिभिः । इत्थंभूतलक्षणे तृतीया । यथा पङ्कयो भवन्ति तथानुलिप्त इत्यर्थः ॥ ४-६ ॥ ५७ । परिचारवृद्धान् अमात्यवृद्धान् ॥ ५८- ६१ ॥ निमित्तं प्रेषयितारमित्यर्थः । अनयोर्विपृष्ट इत्यनेन संबन्धः । श्लोकान्त इतिकरणंबोध्यं । वक्ष्यमाणसं- ग्रहोयं ॥ ६२ ॥ इति श्रीगोविन्दराजविरचिते श्री- मद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्ड - व्याख्याने अष्टचत्वारिंशः सर्गः ॥ ४८ ॥ कोव्यपाश्रयः कोवाश्रयः ॥ ५६ ॥ ति० मन्त्रीन् मन्त्रिणइत्यर्थः ॥ स० मन्त्रएषामस्तीतिमत्वर्थे तद्धिताइतिबहुवचनज्ञापितेका प्रत्ययेसति मुख्यमन्त्रीन् ॥ ६१ ॥ ति० कार्ये कर्तव्यं । अर्थः तत्प्रयोजनंच । समाहारद्वन्द्वः । अर्थस्यमूलं उक्तप्रयोजनप्रव- र्तकं । उत्तराशयस्तु दूयंकृत्यं प्रेरकः सुग्रीवइति ॥ ६२ ॥ इत्यष्टचत्वारिंशः सर्गः ॥ ४८ ॥ कतक० तस्य इन्द्रजितः । यत्तुरावणस्येति तन्न | तेन हनूमतिकस्यापिकर्मणोकृतत्वात् ॥ स० तस्य रावणस्य | कर्मणा स्वयंमहाराजइतिसाक्षादसंभाष्य मन्त्रिमुखेनवाचयामासेत्येवरूपकर्मणेत्यर्थः ॥ १ ॥ ति० भक्तिभिः शैवत्रिपुण्ड्रवद्रचना विशेषैः ॥ ४ ॥ ति० विचित्रं आश्चर्यभूतैः । दशनच्छदैः प्रलंबे लंबदशनच्छदं तं ॥ ५ ॥ स० शिरोभिर्दशभिरित्यनेन हनुमद्भीषणा- [ पा० ] १ च. छ. ज. ञ० ज्वलन्तमित्र. २ ङ० –ट मुख्यमन्त्रीन्. ३ ङ. झ. ट. कपिश्चपृष्टः ४ ख. ङ. भूषितं. ५ ड. स. ट. विचित्रं दर्शनीयैश्च ० ६ ङ. श. ट. महादंष्ट्रप्रलं,