पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४८.] श्रीमद्भोविन्दराजीयव्याख्यसिमलंकृतम् । ग्रहणे चापि रक्षोभिर्महान्मे गुणदर्शनः ॥ राक्षसेन्द्रेण संवादस्तस्माद्गृह्णन्तु मां परें ।। ४५ ।। स निश्चितार्थः परवीरहन्ता समीक्ष्यकारी विनिवृत्तचेष्टः ॥ परैः प्रसह्याभिगतैर्निगृह्य नैनाद तैस्तैः परिभर्त्स्यमानः ।। ४६ ।। ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिन्दमम् || बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः ॥ ४७ ॥ स रोचयामास परैश्च बन्धं प्रसह्य वीरैरभिनिग्रहं च ॥ कौतूहलान्मां यदि राक्षसेन्द्रो द्रष्टुं व्यवस्थेदिति निश्चितार्थः ॥ ४८ ॥ स बद्धस्तेन वल्केन विमुक्तोत्रेण वीर्यवान् || अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते ॥ ४९ ॥ अथेन्द्रजित्तु द्रुमचीरबद्धं विचार्य वीरः कपिसत्तमं तम् || विमुक्तमत्रेण जगाम चिन्तां नान्येन बद्धो ह्यनुवर्ततेऽस्त्रम् ।। ५० ।। अहो महत्कर्म कृतं निरर्थकं न राक्षसैर्मत्रगतिर्विसृष्टा ॥ पुनश्च नास्त्रे विहतेऽस्त्रमन्यत्प्रवर्तते संशयिताः स सर्वे ।। ५१ ॥ अस्त्रेण हनुमान्मुक्तो नात्मानमवबुध्यत || कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धैर्निपीडितः ॥ ५२ ॥ हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः ॥ समीपं राक्षसेंन्द्रस्य प्राकृष्यत स वानरः ॥ ५३ ॥ अथेन्द्रजित्तं प्रसमीक्ष्य मुक्तमत्रेण बद्धं मचीरसूत्रैः ।। व्यदर्शयत्तत्र महाबलं तं हरिप्रवीरं सगणाय राज्ञे ॥ ५४ ॥ तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम् ॥ राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥ ५५ ॥ कोऽयं कस्य कुतो वोऽत्र किं कार्य को व्यपाश्रयः ॥ इति राक्षसवीराणां तंत्र संजज्ञिरे कथाः ॥५६॥ मे भयमित्यर्थः ॥ ४४॥ गुणदर्शन: गुणपर्यवसायी | | नपर्यालोचितेत्यर्थः । बन्धान्तरेण सहानवस्थानरूप संवादः ॥ ४५-४६ ॥ शणवल्कैः शणत्वग्भिः । ब्रह्मास्त्रस्वभावमनालोच्य शणबन्धादिकं राक्षसः संहतैः सज्जीकृतैः । द्रुमचीरैः वल्कलैः ॥ ४७ ॥ कृतमिति भावः । अस्त्रेविहते ब्रह्मास्त्रे प्रतिहते । राक्षसेन्द्र: कौतूहलात् मां द्रष्टुं व्यवस्येदिति अन्यदत्रं नप्रवर्तते न प्रभवतीत्यर्थः । तदेव ब्रह्मास्त्रं निश्चितार्थस्सन् बन्धनादिकं रोचयामासेति संबन्धः प्रयुज्यतामित्याशङ्ख्याह – पुनश्चेति । पुनर्नप्रवर्तते ॥ ४८ – ४९ ॥ अन्येनशणवल्कलादिनां । बद्धः प्रयुक्तं ब्रह्मास्त्रं पुनर्न प्रभवतीत्यर्थः । सर्व इत्यनन्तरमि- अस्त्रं नानुवर्तते । नास्त्रेण बद्ध इव वर्ततइत्यर्थः तिकरणं बोध्यं । इति चिन्तां । जगामेति पूर्वेण ॥ ५० ॥ मन्त्रगतिः ब्रह्मास्त्रमत्रपद्धतिः । न विसृष्टा | संबन्धः ॥५१॥ नावबुध्यत नावधृतवान् ।। ५२- इन्द्रजितोभयं इन्द्ररक्षितस्यापिंभवेत् । तथापि “ इन्द्रोवृत्रंहत्वामहानास " इत्युक्त्यावृत्रहननलब्धमहत्त्वगुण विशिष्टेनेन्द्रेणर क्षि- तस्य वरदानेन लोकदृष्ट्या संरक्षितस्यभयंनेत्युक्तिर्युक्तेतिबोध्यं | आभ्यांसमुश्चिताभ्यामित्यर्थंकरणे नचाशङ्कानचोत्तरं ॥ ४४ ॥ ति० इममर्थमिन्द्रजिदपिज्ञातवा नित्याह – अथेति । अत्रेणविमुक्तं विचार्य ज्ञात्वा । अन्येनबद्धोपिहनुमानस्त्रमनुवर्तते अस्त्रेणब्रद्धव वर्ततइत्यपिविचार्य चिन्तामाजगामेतिसंबन्धः । नान्येनबन्धोह्यनुवर्ततेऽस्त्रमितिपाठे चिन्तास्वरूपमिदं । राक्षसैः स्वकृतबन्धनव- शाखेदंजगामेत्यर्थः ॥५०॥ ति० चिन्तामाह - अहोइति । पाठान्तरेचिन्तान्तरमिदं । मयाकृतं महत्कर्म निरर्थकृतंराक्षसः | यतस्तै मन्त्रगतिर्नविमृष्टा नविचारिता | अन्यबन्धेमन्त्रबन्धोनश्यतीतिन ज्ञातमित्यर्थः । पुनरस्त्रंतदेवप्रयोज्यंतत्राहं । अनेब्राह्मवि हते दस्त्रं तदस्त्रप्रयोगान्तरं । नप्रवर्तते । अतःसर्वेवयंसंशयिताः संशयितजयाएव । मुक्तोऽयंसर्वानपिन्यादितिभावः ॥ ५१ ॥ ति० अवबुध्यतेरन्तर्भावितण्यर्थतयानावबोधयतिस्म अस्त्रमोक्षंनप्रकाशयतिस्मेत्यर्थः ॥ ५२ ॥ ती० अत्रं रावणपुरे | [ पा० ] १ ग. ङ. च. शं. मैं ट महन्मेगुणदर्शनं २ ग. निशाचरैस्तैः ३ ङ. च. झ ञ ट ततस्ते. ४ क. –घ. च. ज. अं. बन्धनं. ५ ङ. झ ञ ट रभिगर्हणंच. ६ ङ. च. छ. झ. ट. अथेन्द्रजित्तं. ७ ख. घ. ङ. झ. ट. चिन्तामन्येन. ८ ङ. झ. ट. निरर्थ. ९ घ ङ. झ. ट. मवबुध्यते १० ङ. झ ट . कालमुष्टिभिः ११ ग. च. छ. ज. ञ. द्रुमचीरवल्कैः . ट. वापि १३ ङ. ट. कोभ्युपाश्रयः १४ ङ. झ ट दृष्ट्रासंजज्ञिरे. t १२ क. V