पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । तमेवमर्थ प्रसमीक्ष्य सम्यक्स्वकर्मसम्याद्धि समाहितात्मा ॥ स्मरंच दिव्यं धनुषोत्रवीर्ये व्रजाक्षतं कर्म समारभस्व ॥ १३ ॥ न खल्वियं मँतिः श्रेष्ठा यत्त्वां संप्रेषयाम्यहम् || इयं च राजधर्माणां क्षत्रस्य च मतिर्मता ॥ १४ ॥ नौनाशस्थ संग्रामे वैशारद्यमरिन्दम || अवश्यमेव बोद्धेव्यं काम्यश्च विजयो रणे ॥ १५ ॥ ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः ॥ चकार भर्तारमँदीनसवो रणाय वीरः प्रतिपन्नबुद्धिः ॥ १६ ॥ [ सुन्दरकाण्डम् ५ दिना । हन्तुं न शक्यः । अमितुल्ये मुष्टयादिप्रहारा- | श्रेष्ठा खलु | नोचितेत्यर्थः । इयं मतिः त्वत्प्रेषणवि- प्रवृत्तेरितिभावः ॥ १२ ॥ तार्हे कथं कर्तव्यं तत्राह - तमिति ॥ तं पूर्वोक्तमर्थं एवं | सम्यक् | प्रसमीक्ष्य विचार्य । स्वकर्मसाम्यात् स्वकार्यसिद्ध्यर्थे । फलस्यापि हेतुत्वात्पञ्चमी । साम्यं समत्वं । अन्यूनातिरिक्तत्वं । समाहितामा एकाग्रचित्तः । दिव्यं धनुस्संबन्धि अनवीर्य अस्त्रबलं । स्मरन् व्रज | अस्रबलं विना स निगृहीतुमशक्यः । तेन तन्मत्रं स्मरन्नेव गच्छेतिभावः ॥ १३ ॥ अहं त्वां संप्रेषयामीति यत् इयं मतिः न । षया मतिः । राजधर्माणां राजनीतिस्वरूपधर्माणां क्षत्रस्य तदनुष्ठातुः क्षत्रियस्य च मता उचिता । यद्यपि बालस्य प्रेषणमनुचितं तथापि स्वीयेषु सत्सु प्रधानगमनं नीतिशास्त्रविरुद्धमिति त्वां प्रेषयामीति भावः ॥ १४ ॥ नानाशस्त्रैः वैशारद्यं प्रहरणसामर्थ्य । अवश्यं बोद्धव्यं स्मर्तव्यमित्यर्थः । रणे विजयश्च काम्य: प्रार्थनीयः । जयार्थ सर्वाण्यस्त्राणि स्मर्त व्यानीत्यर्थः ॥ १५ ॥ दक्षसुतप्रभाव : दक्षसुता नादायायातो वासवापेक्षयायमतिशयितबलइत्यवलेपोन कार्य इतिभावः । यथोक्तंसंग्रहे - " नन्वेकवज्रोरिपुमेतिवज्रीदशास्यघो- रानखनामषज्राः ” इति । योमारुतः अग्निकल्पः अमिसदृशः । आवम्येनन । “अग्निदेवानामषमः” इतिश्रुतेः । अतः करणेन कस्य आत्मनः । रणेन युद्धेन अस्मजातियुद्धेन । मायामयेनेतियावत् । यद्वा कशब्दःकुत्सितवाची । कपटेत्यत्रका- पढ्यंकृत्सितपढवत्त्वंचविवक्ष्यतइतिश्लेषकविसंप्रदायात् । केनकुत्सितेनरणेनहन्तुंन नहन्तुंयोग्यइत्यर्थः । केनापिकरणेनहन्तुंनश- क्यइति । अलसारं पर्याप्तबलं । वज्रमिव वज्र॑हनुमन्तं । आदायविश लङ्कामितिशेषः । हेअलस न्यायमार्गेणयुद्धंकर्तुमस मर्थ । अरं अलं अत्यन्तं । रलयोरभेदात् । वर्जनात् वैरिवर्जनाद्वज्रोहरिः तद्वान् । अर्शआद्यच् । तंहनुमन्तमादायेतिपूर्ववत् । यत्तुनागोजिभट्टेनतत्रावतेस्त्रायतिसमानार्थत्वेन पञ्चमी प्राप्तौसप्तमीत्वार्षी। अलतेर्धातोःपर्याप्त्यर्थत्वेन पर्याप्तसारमितिव्याख्यातुंयोग्यं । कुण्ठेत्यर्थस्यततोऽलाभादितितीर्थोपरिसाहसंकृतं तत्तु प्रथमपक्षेतदुक्त्यैव द्वितीयपक्षे कुण्ठधारमित्युक्त्यैवनयुक्तं । तथाहि । शब्दे- न्दुशेखरे " ततश्वसंबन्धसामान्येषष्ठ्यैवसमासः । भीत्रार्थानामिति हेतुलप्रकारकबोधेतृतीयाबाधनार्थेषिभक्तिप्रकरणे नकृतं । कारकत्वप्रयुक्तकार्यानापत्तेरितिभावः । किंचहेतुत्वाविवक्षायांसंबन्धित्वेन विवक्षयाषष्ठीसूत्रारंभेपिषोध्या | अभ्युच्चयेनाहेत्यादि” । क्वितिचेत्यादाविवगणशोचीतिनिमित्तसप्तम्युपपत्तेः । मारुतस्येति । किंचिद्भूतमित्युक्तिस्तु तद्वलासहिष्णुतयेतिज्ञेयं ॥ १२ ॥ ति० स्वकर्मसाम्यात् स्वेनैवकर्मणः प्रकृतकार्यस्यसाम्यात् सिद्धेः संपादनीयत्वात्वं समाहितात्मा समाहितचित्तोभूत्वा अस्यविषये दिव्यं धनुषोवीर्य दिव्यास्त्र मोक्षसामर्थ्यस्मरन् निश्चिन्वन्त्रज गच्छ ॥ स० एवं एवंविधं तंहनुमन्तं अर्थ त्वत्प्रयोजनंचप्रसमीक्ष्य स्वकर्म- साम्यात् स्वव्यापारानुगुण्यात् । समाहितात्मा अस्यहनुमतः अस्यधनुषोवीर्यचस्मरन् व्रज | तेकर्म व्यापारः अक्षतं फलपर्यवसा- यियथास्यात्तथासमारभस्व ॥ १३ ॥ स० मतिश्रेष्ठ बुद्ध्यावरिष्ठ | यदित्यव्ययंतृतीयार्थे । ययामत्या त्वांप्रेषयिष्यामिइयंमतिर्ने- त्यर्थः । अथवासंप्रेषयिष्यामीतियत् इयंप्रेरणा न नोचितेत्यर्थः । इयंप्रेरणविषयामतिः राज्ञांधर्माः राजधर्माः एषांसन्तीतिराज- धर्माः तेषामस्माकं । क्षत्रियस्यचमता उचिता नान्येषामितिभावः । अतोनानिप्रसक्तिः । एतेन स्वस्यक्षत्रियत्वाभावेपिक्षत्रध- र्मानुष्ठानात्पुत्रप्रेषणंयुक्तमितिसूचयति ॥ १४ ॥ अथराज्ञःक्षत्रियस्यचकृत्यमाह—नानेति । नानाशास्त्रेषु धर्मार्थनीत्यादिशास्त्रेषु संग्रामेच वैशारं संपाद्यमितिशेषः । यस्यरणेविजयःकाम्योभवति तेनोक्तं नानाशास्त्रंअवश्यंबोद्धव्यमेवेत्यर्थः । यद्वा परस्यनाना- शास्त्रेषुयद्वैशारद्यमस्ति तद्योद्रावश्यमेवबोद्धव्यं । बुवापिरणेस्वस्यविजयःप्रार्थ्यएव । अहंजेष्याम्येवेतिबुद्ध्यायुद्धमारभ्यमेव । नतुता- दृशशत्रोरपिनिवर्तितव्यमित्यर्थः । केचित्तु नानाशस्त्रैरितियोद्धव्यमितिचपठित्वा नानाशस्त्रकरणकसंग्रामे वैशारधंसामर्थ्यतवास्ति अ- तस्त्वयाऽवश्यंयोद्धव्यमेव रणेजयश्चप्रार्थनीय एवेतिव्याचक्षते ॥ १५ ॥ स० दक्षःसुतोयेषांप्रचेतसांब्रह्मणइतिवा तत्प्रभावः तत्स- [ पा० ] १ ख. सामर्थ्यसमीहितात्मा. २ ख. घ. ङ. च. ज. – ट. धनुषोस्यवीयें. ३ झ–ठ. मतिश्रेष्ठ, ४ ङ. झ. ब. ट. नानाशास्त्रेषु, ५ ख. च. छ. योद्धव्यं. ६ ङ. झ. ट. मतिलरेण.