सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1¹ श्रीमद्वाल्मीकिरामायणम् । निहत्य तं वज्रिसुतोपमप्रभं कुमारमक्षं क्षतजोपमेक्षणम् ॥ तैमेव वीरोऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये ॥ ३८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ १६८ [ सुन्दरकाण्डम् ५ अष्टचत्वारिंशः सर्गः ॥ ४८ ॥ इन्द्रजिता हितोपदेशपूर्व करावणप्रेरणया रणायहनुमन्तंप्रत्यभियानम् ॥ १ ॥ हनुमता लाघवातिशयेनेन्द्र जिद्वाणा- दीनांमोघीकरणे इन्द्रजिताब्रह्मास्त्रेण तद्वन्धनम् ॥ २ ॥ अस्त्रमोचनशक्तस्यापि रावणदर्शनादिप्रयोजना यास्त्रमनुवर्तमान- स्पहनुमतोराक्षसैरावणसमीपप्रापणम् ॥ ३ ॥ ततः स रक्षोधिपतिर्महात्मा हनूमताऽक्षे निहते कुमारे ॥ मनः समाधाय तैदेन्द्रकल्पं समादिदेशेन्द्रजितं सरोषम् ॥ १ ॥ त्वमस्त्रविच्छेत्रविदां वरिष्ठः सुरासुराणामपि शोकदाता || सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनसंचितास्त्रः ॥ २ ॥ तवाखबलमासाद्य नाँसुरा न मरुद्गणाः ॥ न शेकुः समरे स्थातुं सुरेश्वरसमाश्रिताः ॥ ३ ॥ न कचित्रिषु लोकेषु संयुगे नगतश्रमः ॥ भुजवीर्याभिगुप्तव तपसा चाभिरक्षितः ॥ देशकालविभागज्ञस्त्वमेव मतिसत्तमः ॥ ४ ॥ न तेऽस्त्यशक्यं समरेषु कर्मणा न तेऽस्त्यकार्य मतिपूर्वमन्त्रणे ॥ न सोस्ति कश्चित्रिषु संग्रहेषु वै न वेद यस्तेऽस्त्रबलं बलं च ते ॥ ५ ॥ ममानुरूपं तपसो बलं च ते पराक्रमञ्चास्त्रवलं च संयुगे || न त्वां समासाद्य रणावमर्दे मनः श्रमं गच्छति निश्चितार्थम् ॥ ६ ॥

चरैर्वा ॥ ३७–३८ ॥ इति श्रीगोविन्दराजविरचिते | मतिसत्तमः मतिश्रेष्ठइत्यर्थः ॥ ४ ॥ समरेषु कर्मणा श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरका पुरुषकारेण । ते अशक्यं नास्तीत्यर्थः । तथा मतिपू- ण्डव्याख्याने सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ । |र्वमन्त्रणे विवेकपूर्वविचारे । अकार्य अज्ञातकार्य | भोग्यतया स्वीक्रियन्ते भोक्तृभिरिति संग्रहाः लोकाः । | ज्ञातुमशक्यं कार्य नास्तीत्यर्थः । संग्रहेषु संगृह्यन्ते तेषु त्रिष्वपि यस्तवात्रबलं शारीरं बलं च न वेद स नास्ति । सर्वलोकप्रख्यातशस्त्रास्त्रबलसंपन्नस्त्वमित्यर्थः मनः समाधाय धैर्ये कृत्वेत्यर्थः ॥ १ ॥ अस्त्रवित् ब्रह्मास्त्रवित् । संचितास्त्रः संचितास्त्रविशेषः ॥ २ ॥ तव अबलमासाद्य असुराः न नश्यन्तीत्यर्थः || ३ || त्रिषु लोकेषु तव संयुगे नगतश्रमः अप्राप्तश्रमः कश्चिन्न । " सुप्सुपा ” इति समासः । सर्वेप्राप्त- ॥ ५ ॥ रणावमर्दे रणसंकटे । निश्चितार्थ निश्चितज माइत्यर्थ: । हरियादयोपि श्रमंप्राप्नुवन्तीत्यर्थ: । यरूपार्थे । त्वां आसाद्य विचिन्त्य । मे मनः श्रमं न स० समाधाय पुत्रशोकोपहतं मनःपुनः कार्यगौरवा द्धैर्येणैकाग्रंविधाय । इन्द्रकल्पं इन्द्रोपमंकपिंप्रति इन्द्रजितंसमादिदेश । अनेनानायासेनहनुमज्जये समर्थइतिभ्रमेणसमादिदेशेतिभावः सूचितोभवति । इन्द्रकल्पं इन्द्रसमसमरेकल्पो दक्षइतीन्द्रजितोविशेष- वा । एतत्पक्षेकल्पशब्दः । प्राक्पक्षेप्रत्ययइतिविवेकः ॥ ति० मनःसमाधाय पुत्रनाशखिन्नमपिचेतोधीरतयाऽप्रकाशितभयंत्र- तिष्ठाप्य ॥ १ ॥ स० सुरेश्वरंसमाश्रिताः केप्यन्ये नशेकुरित्यन्वयः ॥ ३ ॥ [ पा० ] १ ङ. झ ञ ट सुतोपमंरणे. २ क. ख. ग. ङ. ट. तदेव. ३ ख. झ ञ ट सदेवकल्पं. ४ क. ड. ट. सरोषः. ५ क. ख. घ. ङ. ज. ट. च्छत्रभृतां. ६ ङ. च. छ. झ ञ ट त्वदस्त्र. ७ ङ. झ. ट, ससुरास्समरुद्गणाः ८ ङ. र. देशकालप्रधानश्च.