पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • १६६

श्रीमद्वाल्मीकिरामायणम् । ततः स पिङ्गाधिपमन्त्रिसत्तमः समीक्ष्य तं राजवरात्मजं रणे ॥ उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः ॥ १६ ॥ स मन्दराग्रस्थ इवांशुमालिको विवृद्धकोपो बलवीर्यसंयुतः ॥ कुमारमक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा ॥ १७ ॥ ततः स बाणासनचित्र कार्मुकः शरप्रवर्षो युधि राक्षसांबुदः ॥ शरान्मुमोचाशु हरीश्वराचले बलाहको वृष्टिमिवाचलोत्तमे ॥ १८ ॥ ततः कपिस्तं रणचण्डविक्रमं विवृद्धतेजोबलवीर्यसंयुतम् ॥ कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद्वनतुल्यविक्रमः ॥ १९ ॥ स बालभावाधुधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः ॥ समाससादाप्रतिमं कपिं रणे गजो महाकूपमि॒िवावृतं तृणैः ॥ २० ॥ स तेन बाणै: प्रसभं निपातितैश्चकार नादं घननाद निस्वनः || समुत्पपाताशु नभः स मारुतिर्भुजोरुविक्षेपणघोरदर्शनः ॥ २१ ॥ समुत्पतन्तं समभिद्रवली स राक्षसानां प्रवरः प्रतापवान् || रथी रथिश्रेष्ठतमः किरञ्शरैः पयोधरः शैलमिवाश्मवृष्टिभिः ॥ २२ ॥ स ताशरांस्तस्य हरिर्विमोक्षयंञ्चचार वीरः पथि वायुसेविते ॥ शरान्तरे मारुतवद्विनिष्पतन्मनोजवः संयति चण्डविक्रमः ॥ २३ ॥ तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं "विशिखैः शरोत्तमैः ॥ अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां च स मारुतात्मजः ॥ २४ ॥ ततः शरैर्भिन्नभुजान्तरः कपिः कुमारवीरेण महात्मना नदन् || महाभुजः कर्मविशेषतत्त्वविद्विचिन्तयामास रणे पराक्रमम् ॥ २५ ॥ अबालवद्वालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः ॥ न चास्य सर्वाहवकर्मशोभिनः प्रमापणे मे मतिरत्र जायते ॥ २६ ॥ [ सुन्दरकाण्डम् ५ दृष्टान्त: 'आदित्यइवांशुमालिक इति ॥ १५ ॥ | चित्रकार्मुक इत्यर्थः ॥ १८ – २२ || विमोक्षयन् आपूर्यंत व्यवर्धत ॥ १६ ॥ मन्दुराग्रस्थः मन्द्रो शरीरे असंयोजयन् । लाघवातिशयेनेति भावः नाम॑ भूमंध्यपर्वतः । तद्प्रे मध्याह्ने वर्तत इत्यौ- ॥ २३ || आस्तृणन्तं आच्छादयन्तं । विशिखैः ग्र्योक्तिः ॥ १७ ॥ बाणासनचित्रकार्मुकः बाणा: |विविधशिखैः । चिन्तां जगाम कथमेतादृशमेनं अस्यन्ते क्षिप्यन्तेनेनेति बाणासन: बाणविमोक्षक- | वधिष्यामीत्येवं ॥ २४ ॥ इदमेवोपपादयति ततश्शरै- सौविवृत्तनेत्रश्च । विवृत्तलोचन इतिपाठे अवसरोचितचक्षुरित्यर्थः । नवोदितादित्यसंनिभः रक्तवर्णइत्यर्थः । शरांशुमान् स्वमस्तक- स्थशररूपांशुमान् । अंशुमालाभृतसूर्यइव व्यराजत ॥ १५ ॥ रामानु० मन्दराग्रस्थः मन्दरोनामसालग्रामपर्वतोत्तरभागेभारः तखण्डमध्ये वर्तमानः कञ्चनपर्वतः । तदप्रस्थः । अनेनोत्तरायणेमध्याहगतत्वमुक्तंभवति ॥ १७ ॥ रामानु० बाणासनचित्रका. मुर्के: बाणानामसनं बाणान्क्षिपत् चित्रंचकार्मुकंयस्यसतथोक्तः | बाणासनचक्रकार्मुकइतिपाठे बाणान्क्षिपत् चक्राकारकार्मुकं यस्यसः || ति० बाणासनमेवशक्र कार्मुकंयस्यसः ॥ १८ ॥ ति० चिन्ताप्रकारः अबालवदिति० | सर्वाहवकर्मशालिन- [ पा० ] १ ङ. — ट. संवृतः २ क मरीचिभिःकपिः ३ ख. – ट. शक्रकार्मुकः. ४ ख. ज. – ट. प्रवृद्ध. ५ क. – ट सायं. ६ क. – ट. तुल्यनिस्स्वनः ७ ङ. छ. झ ट समुत्सहेनाशुनभस्समारुजन. ९ ख ङ.ट. भीमविक्रमः क. घ. चेन्द्र विक्रमः. १० ङ. ट. विविधैः ११ क. ख. घ. शरोत्करैः १२ क. ख. ग. ङ. -ट. कुमारवर्येण. ३ ङ. ट. कर्मशालिनः, ८ ख. घ. स्तस्यविमोचयन्कपिश्चचार. $1