पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४७ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । विराजमानं अंतिपूर्णवस्तुना सहेमदाना शशि सूर्यवर्चसा || दिवाकराभं रथमास्थितस्ततः स निर्जगामामरतुल्यविक्रमः ॥ ६ ॥ स पूरयन्खं च महीं च साचलां तुरङ्गमातङ्गमहारथस्वनैः ॥ बलैः समेतैः स हि तोरणस्थितं समर्थमासीनमुपागमत्कषिम् ॥ ७ ॥ स तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये ॥ अवस्थितं विमितजातसंभ्रमः समक्षताक्षो बहुमानचक्षुषा ॥ ८ ॥ स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु पार्थिवात्मजः ॥ विधारयन्स्वं च बलं महाबलो हिमक्षये सूर्य इवाभिवर्धते ॥ ९ ॥ स जातमन्युः प्रसमीक्ष्य विक्रमं स्थिरं स्थितः संयति दुर्निवारणम् || समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शरैस्त्रिभिः शितैः ॥ १० ॥ ततः कपिं तं प्रसमीक्ष्य गर्वितं जितश्रमं शत्रुपराजयोर्जितम् ॥ अवैक्षताक्षः समुदीर्णमानसः स बाणपाणि: प्रगृहीतकार्मुकः ॥ ११ ॥ स हेमनिष्काङ्गद चारुकुण्डलः समाससार्दाशुपराक्रमः कपिम् ॥ तयोर्बभूवाप्रतिमः समागमः सुरासुराणामपि संभ्रमप्रदः ॥ १२ ॥ ररास भूमिर्न तताप भानुमान्ववौ न वायुः प्रचचाल चाचलः ॥ कपेः कुमारस्य च वीक्ष्य संयुगं ननाद च द्यौरुदधिच चुक्षुभे ॥ १३ ॥ ततः स वीरः सुमुखान्पतत्रिणः सुवर्णपुङ्खान्सविषानिवोरगान् ॥ समाधिसंयोगविमोक्षतत्त्वविच्छरानथ त्रीन्कपिमूर्ध्यपातयत् ॥ १४ ॥ स तैः शरैर्मूर्ध्नि समं निपातितैः क्षरन्नसृग्दिग्धविवृत्तलोचनः । नवोदितादित्य निभः शरांशुमान्व्यराजतादित्य इवांशुमालिकः ॥ १५ ॥ १६५ ॥ ५ ॥ प्रतिपूर्णवस्तुना समग्रोपकरणेन । शरधनु:- | तच्छब्दद्वयं च पूर्वानुस्मरणार्थ ॥ ६ ॥ सः अक्षः । कवचादीन्युपकरणानि । प्रतिपूर्णमस्तिनेति पाठे हिः प्रसिद्धौ ॥ ७ ॥ हरीक्षणः सिंहप्रेक्षणः । प्रजा- अस्तिना धनेनेत्यर्थः । हेमदाम्ना हेममयाश्वादिबन्धन- क्षये अवस्थितं प्राणिनाशे प्रवृत्तं । विस्मितश्चासौ रज्जुना | शशिसूर्यवर्चसा | दामसु किञ्चित्सितवर्ण जातसंभ्रमञ्च विस्मितजातसंभ्रमः ॥ ८॥ विधारयन्ं किञ्चित्सूर्यवत्पीतवर्णमित्यर्थः । प्रतिपूर्णवस्तुना निर्धारयन् | विचारयन्निति च पाठः ॥ ९–१२ ।। शशिसूर्यवर्चसा हेमदाम्ना च विराजमानमित्यन्वयः । न तताप भानुमान् । सूर्योदय : पूर्व सूचितः सः न यद्वा क्वचिच्छशिवर्चसा क्वचित्सूर्यवर्चसा च विराज- ततापेत्युच्यते ॥ १३ ॥ समाधिसंयोगविमोक्षतत्त्व- मानमित्यन्वयः । वितानादिषु शशिवर्चसा हेममयर - वित् समाधिः लक्ष्यवेदनं संयोगः शरसंधान थाङ्गेषु सूर्यवर्चसा । दिवाकराभमित्याकाशचारित्वे विमोक्षः तद्विसर्गः तेषां तत्त्ववित् यथार्थवित् ॥१४॥ दृष्टान्तः । अतो न रविप्रभमित्यनेन पुनरुक्ति: । रक्तसिक्तत्वे दृष्टान्तो नवोदितेति । शराचितत्वे गमनशीलं । अतएव व्योमचरं । समाहितं सम्यक्संस्थापितं ॥ ५ ॥ ति० विस्मितंचतंजातसंभ्रमंच | बालोऽयंमांयोद्धुमिच्छती- तिविस्मयः । रावणपुत्रत्वाच्च तत्रजातादरलं ॥ ८ ॥ ति० निष्कं उरोभूषणं । आशुपराक्रमः तीक्ष्णपौरुषइतियावत् । समागमः युद्धं । संभ्रमप्रदः भयप्रदः ॥ १२ ॥ ती० अक्षयुद्धसमयेसूर्योदयाभावाद्देशान्तरस्थोपिसूर्यः एतज्ज्ञात्वानततापेतिभावः ॥ ति० भूमिः भूमिस्थप्राणिजातं । ररास | वीर्यप्रवृत्तंसंयुगंवीक्ष्येतिशेषः ॥ १३ ॥ ति० अताडयत् अपातयत् ॥१४॥ ति० असृदिग्धश्चा- [पा० ] १ क ख परिपूर्णवस्तुना. २ क. ङ. - ट. जातसंभ्रमं. ३ ङ. च. झ ञ ट रावणात्मजः ४ क. ख. ङ.- ट. विचारयन्. ५ ग. बलोत्कटो. ६ ख. ङ. — ट. युगक्षये. ७ ग. – ट. पराजयोचितं. क. पराजयोद्यतं. ८ दाशुनिशाचरः. ९ ङ. झ. ञ. ट. मूर्ध्न्यताडयत् १० झ. निपातैः ११ झ विवृत्तनेत्रः