पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४६ ] श्रीमंद्रोविन्दराजीयव्याख्यासमलंकृतम् । १६३ रैथैर्मत्तैश्च मातङ्गैर्वाजिभिश्च महाजवैः || शस्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्योपचिता बलैः ॥ १७ ॥ ततस्तं दहशुवरा दीप्यमानं महाकपिम् ॥ रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम् ॥ १८ ॥ तोरणस्थं महोत्साहं महासत्वं महाबलम् ॥ महामतिं महावेगं महाकायं महाबलम् ।। १९ । तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः ॥ तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ॥ २० ॥ तस्य॒ पञ्चायसास्तीक्ष्णाः शिताः पीतमुखाः शराः || शिरस्युत्पलपत्राभा दुर्धरेण निपातिताः ॥ २१॥ स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः ॥ उत्पपात नदन्व्योम्नि दिशो दश विनादयन् ॥ २२ ॥ ततस्तु दुर्धरो वीरः सरथः सज्यकार्मुकः || किरञ्शरशतैस्तीक्ष्णैरभिपेदे महाबलः ॥ २३ ॥ स कपिर्वारयामास तं व्योनि शरवर्षिणम् || वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः ॥ २४ ॥ अर्धमानस्ततस्तेन दुर्धरेणानिलात्मजः || चकार कँदनं भूयो व्यवर्धत च वेगवान् ॥ २५ ॥ स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः ॥ निपपात महावेगो विद्युद्राशि गिराविव ॥ २६ ॥ ततः स मथिताष्टाश्वं रथं भग्नाक्षकूबरम् || विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः ॥ २७ ॥ तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि | 'संजातरोषौ दुर्धर्षावुत्पेततुररिन्दमौ ॥ २८ ॥ स ताभ्यां सहसोत्पत्य विष्ठितो विमलेऽम्बरे || मुद्राभ्यां महाबाहुर्वक्षस्यभिहतः कपिः ॥ २९ ॥ तयोर्वेगवतोर्वेगं विनिंहत्य महाबलः ॥ निपपात पुनर्भूमौ पर्णसमविक्रमः ॥ ३० ॥ स सालवृक्षमासाद्य तमुत्पाट्य च वानरः ॥ तावुभौ राक्षसौ वीरौ जघान पवनात्मजः ॥ ३१ ॥ ततस्तांस्त्रीन्हताञ्ज्ञात्वा वानरेण तरखिना || अभिपेदे महावेगः प्रसह्य प्रघसो 'हैरिम् ॥ ३२ ॥ भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान् ॥ एकतः कपिशार्दूलं यशस्विनमवस्थितम् ॥ ३३ ॥ पट्टिशेन शिताग्रेण प्रघसः प्रत्ययोधयत् ॥ भासकर्णश्च शूलेन राक्षसः कपिसत्तमम् ॥ ३४ ॥ स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः ॥ अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः ॥ ३५ ॥ समुत्पाढ्य गिरेः शृङ्गं समृगव्यालपादपम् ॥ जघान हनुमान्वीरो राक्षसौ कपिकुञ्जरः ॥ [ गिरिशृंङ्ग विनिष्पिष्टौ तिलशस्तौ बभूवतुः ] ॥ ३६॥ ॥ १३–१७ ॥ स्वतेजोरश्मिमालिनं स्वतेजसा | क्रूराः । शिताः निशिताः । पीतमुखाः समीचीनाय - सूर्ये । रश्मिमन्तमिवेत्यत्र उपमा । अत्र रूपकमिति सनिर्मितत्वेन पीतरखाग्राः । उत्पलपत्राभाः उत्पलप- भिदा ॥ १८ ॥ उत्साहः लोकोत्तरकार्येषु स्थेयान्प्र- त्राणि यथा निपात्यन्ते तथा निपातिता इत्यर्थः || २१- यत्नः । महासत्त्वं महाध्यवसायं । 66 द्रव्यासुव्यव- सायेषु सत्त्वमस्त्री तु जन्तुषु” इत्यमरः । द्वितीयबल- २३|| वारयामास स्ववेगेन प्रापयामासेत्यर्थः ||२४|| शब्दश्शक्तिवचनः । " बलं रूपेस्थनि स्थौल्ये शक्ति- कदनं युद्धं ॥ २५ ॥ विद्राशि: अशनिः ॥ २६ ॥ रेतश्चमूषु च” इति वैजयन्ती ||१९ – २०॥ तीक्ष्णाः कूबरः युगन्धरः || २७-२९॥ वेगं विनिहत्य परिहृत्य ॥ १४ ॥स० रश्मिमन्तं रश्मिवंतं | यवादिरयं ॥ स्वतजोरश्मिमालिनं सु अत्यन्तंअतेजसोरश्मि मालिनोयेन भवन्तिसतथा ॥१८॥ ति० दिक्षुसर्वास्ववस्थिताःद्राक्तत्समीपमागन्तुंचकिताइतिभावः ॥ २० ॥ ती० पीतमुखाः शत्रुशोणितरजिताइत्यर्थः । उत्पलप- त्राभाः तद्वर्णाः ॥ ती० पीतमुखाः फलभागेस्वर्णरूषिताः । उत्पलपत्राभाएव नतुतत्पीडा इत्यर्थः ॥ स० पीतमुखाः पायितपानी- यमुखाः ॥ २१ ॥ ति० ताभ्यां कर्तृभ्यां | मुद्गराभ्यां करणाभ्यांहतः ॥ २९ ॥ इतिषट्चत्वारिंशः सर्गः ॥ ४६ ॥ [ पा० ] १ छ. ज. रथैश्चमत्तनागैश्च ङ. च. झ. न. ट. रथैर्मत्तैश्चनागैश्च. २ क. ङ. – ज. निशितैः पेतुस्सहस्रशः. ४ क. ग. ड. झ. ट. शतैनैकैः ५ घ. हन्यमानस्ततः ६ क. घ. ङ. च. झ ञ ट. निनदं. ७ क. ख. ततस्तं. ८ ङ. - ट. तौजातरोषौ. ९ क. ङ. - ट. निहत्यसमहाबलः १० ङ. -ट. सुपर्णइववेगितः ११ ङ च छ. झ. ट. अभिगम्य, १२ ङ. नं. बली. १३ ग. ङ. –ट मवस्थितौं १४ इदमर्धे ङ. -ट. पाठेपुदृश्यते. ३ क.