सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ई १६२ श्रीमद्वाल्मीकि रामायणम् । षट्चत्वारिंशः सर्गः ॥ ४६ ॥ हनुमता रावणप्रतिसेनापतिपञ्चकस्य पञ्चताप्रापणम् ॥ १ ॥ [ सुन्दरकाण्डम् ५ हतान्मन्त्रिसुतान्बुद्ध्वा वानरेण महात्मना ॥ रावणः संवृताकारश्चकार मतिमुत्तमाम् ॥ १ ॥ स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम् ॥ प्रघसं भासकर्ण च पञ्च सेनाग्रनायकान् ॥ २ ॥ संदिदेश दशग्रीवो वीरान्नयविशारदान् || हनुमद्रहणव्यग्रान्वायुवेगसमान्युधि ॥ ३ ॥ यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः || सवाजिरथमातङ्गाः स कपिः शास्यतामिति ॥ ४ ॥ यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम् || कर्म चापि समाधेयं देशकालविरोधिनम् ॥ ५ ॥ [ वानरोयमिति ज्ञात्वा न हि शुध्यति मे मनः ॥ नैवाहं तं कपि मन्ये यथेयं प्रस्तुता कथा ॥६॥ ] न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् ॥ सर्वथा तन्महद्भूतं महाबलपरिग्रहम् ॥ भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात् ॥ ७ ॥ सनागयक्षगन्धर्वा देवासुरमहर्षयः ॥ युष्माभिः सहितैः सर्वैर्मया सह विनिर्जिताः ॥ ८ ॥ तैरवश्यं विधातव्यं व्यलीकं किंचिदेव नः ॥ तदेव नात्र संदेह : प्रसह्य परिगृह्यताम् ॥ ९ ॥ नावमान्यो भवद्भिश्व हरिधरपराक्रमः ॥ दृष्टा हि हरयः पूर्व मया विपुलविक्रमाः ॥ १० ॥ वाली च सहसुग्रीवो जाम्बवांश्च महाबलः ॥ नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः ॥ ११ ॥ नैवं तेषां गतिर्भीमा न तेजो न पराक्रमः ॥ न मतिर्न बलोत्साहौ न रूपपरिकल्पनम् ॥ १२ ॥ महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम् ॥ प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः ॥ १३ ॥ कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः ॥ भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे ॥ १४ ॥ तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे ॥ आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला ॥ १५ ॥ ते खामिवचनं सर्वे प्रतिगृह्य महौजसः ॥ समुत्पेतुर्महावेगा हुताशसमतेजसः ॥ १६ ॥ " संवृताकारः अन्तर्मनाः । मतिं चिन्तां ॥ १-३ ॥ | व्यलीकं अप्रियं ॥ ९ ॥ नावमान्यो भवद्भिश्च हरि- इति वक्ष्यमाणप्रकारेण ॥ ४ ॥ तमेवाह – यतैरित्या- धीरपराक्रम इति ॥ अत्र त्रयोदशसहस्रश्लोका गताः । दिना ॥ यत्तैः यतमानैः । अप्रमत्तैरिति यावत् । अयं चतुर्दशसहस्रस्यादिः । धीत गायत्र्य यतेः कर्तरि क्त: । समाधेयं परिहर्तव्यं । देशकालवि- क्षरं ॥ १०–११ ॥ गतिः वेगः । रूपपरिकल्पनं रोधिनं देशकालविरोधीत्यर्थः ॥ ५–६ ॥ महद्भूतं मन्य इत्यनुषज्यते । इन्द्रेण वा अन्यैर्वेति शेषः । यथेष्टरूपमहणं ॥ १२ ॥ महदिति ॥ इत्थं महत्सत्त्वं वाशब्दस्य विकल्पार्थस्य प्रयोगात् ॥ ७–८ ॥ किमपि कपिरूपं सत् व्यवस्थितमिति ज्ञेयमित्यर्थः ती० संवृताकारः गूढाकारः | अन्तस्संजातशङ्कइत्यर्थः । उत्तमांमतिं धैर्यं ॥ १ ॥ ती० किंचात्रदेशकालाविरुद्धकर्मकार्य मि- याह – कर्मचेति । देशकाल विरोधिन देशकालविरोधीत्यर्थः । आर्षोलिङ्गविभक्तिव्यत्ययः । कर्म समाधेयं परिहर्तव्यं । देशका - लाविरोधितमितिपाठे समाधेयं कर्तव्यं । अहेतुमाह — नहीति ॥ ५ ॥ ती० अस्मदर्थं अस्मन्निग्रहार्थ ॥ स० अस्मदर्थं अस्माकमर्थंनिवृत्तिमुद्दिश्य ॥ ७ ॥ स० वालीति | जांबवानपिकपिमध्येबहुस्थलेगणितइतिनानुपपत्तिः ॥ ११ ॥ ती० नैवते- षामित्यादौ सर्वत्र ईदृक्छब्दोऽध्याहर्तव्यः । तथाचेत्थंयोजना तेषां वाल्यादिनां | हनुमतोभीमागतिस्तेजआदिकंचयथा तथा ईदृड्डा- स्तीतिसंबन्धः । रूपपरिकल्पनँयथेप्सितरूपपरिग्रहणं ॥ १२ ॥ ति० प्रयत्नमित्यार्षक्लिबलं ॥ १३ ॥ ति० कामं यद्यपीत्यर्थः [ पा० ] १ ङ. झ. ट. दुर्धर्ष, २ क. – ट. हनुमद्रहणे. ३ क. – ट. कालाविरोधितं. ४ अयं श्लोकः ङ. झ. पाठेषुदृश्यते. ५ ख. ग. ङ. "च. छ. श. ट. गन्धर्वदेवासुर ६ क. युधि. ७ ख. नावमान्यश्चयुष्माभिः