पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संर्गः ४४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १५९ नेयमस्ति पुरी लङ्का न यूयं न च रावणः || यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना ।। २५ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ हनुमता रावणचोदनयासमागतवतःप्रहस्तात्मजस्य जंबुमालिनोवधः ॥ १ ॥ संदिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली ॥ जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ॥ १ ॥ रक्तमाल्याम्बरधरः स्रग्वी रुचिरकुण्डलः || महान्विंवृत्तनयनचण्ड: समरदुर्जयः ॥ २ ॥ [ दग्धैत्रिकूटप्रतिमो महाजलदसंनिभः || महाभुजशिरस्स्कन्धो महादंष्ट्रो महाननः ॥ ३ ॥ महाजवो महोत्साहो महासत्वोरुविक्रमः || आजगामातिवेगेने वज्राशनिसमवनः ॥ ४ ॥ ] धनुः शक्रधनुःप्रख्यं महद्रुचिरसायकम् || विस्फारयानो वेगेन वज्राशनसमखनम् ॥ ५ ॥ तस्य विस्फारघोषेण धनुषो महता दिशः ॥ प्रदिशश्च नभश्चैव सहसा समपूर्यत ॥ ६ ॥ [ उद्गच्छन्निव चादित्यः प्रभाभिरिव लोहितः || लोहिताङ्गेन महता कवचेनाभिसंवृतः ॥ तिष्ठतिष्ठेति सहसा हनूमन्तमथाब्रवीत् ॥ ७ ॥ ] रथेन खरयुक्तेन तमागतमुदीक्ष्य सः || हनुमान्वेगसंपन्नो जहर्ष च ननाद च ॥ ८ ॥ तं तोरणवटङ्कस् हनुमन्तं महाकपिम् ॥ जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः ॥ ९ ॥ अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना || बाह्वोर्विव्याध नाराचैर्दशंभिस्तं कपीश्वरम् ॥ १० ॥ तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् || शरदीवाम्बुजं फुलं विद्धं भास्कररश्मिना ॥ ११ ॥ तत्तस्य रक्तं रक्तेन रञ्जितं शुशुभे मुखम् ॥ यथाऽऽकाशे महापद्मं सिक्तं चन्दनविन्दुभिः ॥ १२ ॥ ओघाख्यसंख्याफबलाः ।। २३ – २५ ॥ इति श्रीगो | स्समपूर्यत दिश: प्रदिशञ्च समपूर्यन्तेति विपरिणामे- विन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गार- नानुषङ्गः ॥ ६-८ ॥ तोरणविटङ्क तोरणस्य कपो- तिलकाख्याने सुन्दरकाण्डव्याख्याने त्रिचत्वारिंशः तपालिका | " कपोतपालिकायां तु. विटङ्कं पुन्नपुं- सर्गः ॥ ४३ ॥ सकं " इत्यमरः । स्तम्भोपरि तिर्यनिहितदार्वित्यर्थः ॥ ९ ॥ एकेनेत्येतदर्धचन्द्रस्यापि विशेषणं । अर्धच विवृत्तनयनः मण्डलीकृतनयनः ॥ २४ ॥ न्द्राकाराग्रशरेणेत्यर्थः । कर्णिना कर्णवच्छरेण ॥१०॥ रुचिरसायकं रुचिरसायकाहै | विस्फारयानः वि- अम्बुजं रक्तपद्मं । भास्कररश्मिना विद्धं अतएव स्फारयमाणः । ज्याकर्षणं कुर्वन्नित्यर्थ: । वज्राशनि- फुल्लमित्यर्थः ॥ ११ ॥ रक्तं स्वतएव रक्तं । रक्तेन समस्वनमिति विस्फारणक्रियाविशेषणं ॥ ५ ॥ नभ- | शोणितेन | महापद्मं रक्तोत्पलं । चन्दनबिन्दुभिः शि० नास्ति यतीत्यर्थः ॥ २५ ॥ इतित्रिचत्वारिंशः सर्गः ॥ ४३ ॥ स० स्रग्वी सुवर्णमालः । “ प्रहस्त पुत्र स्त्विहजंबुमाली प्राभञ्ज निंप्राप्य सुवर्णमाली " इति संग्रहरामायणोक्तेः ॥ २ ॥ ति० समपूर्यत । दिगादिसमुदायापेक्षमेकवचनं ॥ स० नभः आकाशं । दिशः प्रदिशश्चयदात्मिकास्तस्स मपूर्यत | " साक्षिसिद्धमेव गगनंतद्भागाएवदिशोनद्रव्यान्तरं " इतिसुधोक्तेः ॥ ६ ॥ ति० कर्णी अडशाकाराशरविशेषः ॥ १० ॥ [ पा० ] १ क. ङ. – ट. यस्यत्विक्ष्वाकुवीरेण. ४ ङ. श. ट. महातेजा विव्याध ५ घ. देशभिस्तुस्तनान्तरे ६ङ झ ञ ट काञ्चनबिन्दुभिः २ इदंश्लोकद्वयं क. पाठेदृश्यते. ३ इदमर्धत्रयं क. ग. पाठयोदृश्यतें.