पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० श्रीमद्वाल्मीकिरामायणम् । चुकोप बाणाभिहतो राक्षसस्य महाकपिः ॥ १३ ॥ ततः पार्श्वेतिविपुलां ददर्श महतीं शिलाम् || तरसा तां समुत्पाट्य चिक्षेप बैलवली ॥ तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ॥ १४ ॥ विपन्नं कर्म तद्दृष्ट्वा हनुमांचण्डविक्रमः || सालं विपुलमुत्पाट्य आमयामास वीर्यवान् ॥ १५ ॥ आमयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् || चिक्षेप सुबहून्बाणाञ्जम्बुमाली महाबलः ॥ १६ ॥ सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे ॥ उरस्येकेन बाणेन दशभिस्तु स्तनान्तरे ॥ १७ ॥ स शरैः पूरिततनुः क्रोधेन महता वृतः ॥ तमेव परिघं गृह्य भ्रामयामास वेगतः ॥ १८ ॥ अतिवेगोतिवेगेन भ्रामयित्वा बलोत्कटः ॥ परिघं पातयामास जम्बुमालेर्महोरसि ॥ १९ ॥ तस्य चैव शिरो नास्ति न बाहू न च जानुनी ॥ न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः ||२०|| स हतस्तरसा तेन जम्बुमाली महाबलः ॥ पैपांत निहतो भूमौ चूर्णिताङ्गविभूषणः ॥ २१ ॥ जम्बुमालिं च निहतं किंकरांश्च महाबलान् || चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः ॥ २२ ॥ स रोषसंवर्तितताम्रलोचनः प्रहस्तपुत्रे निहते महाबले ॥ अमात्यपुत्रान तिवीर्यविक्रमान्समादिदेशाशु निशाचरेश्वरः ॥ २३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ [ सुन्दरकाण्डम् ५ हनुमता रावणप्रेषितम त्रिपुत्रसप्तकहननम् ॥ १ ॥ ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः || निर्ययुर्भवनात्तस्मात्सप्त सप्तार्चिवर्चसः ॥ १॥ महाबलपरीवारा धनुष्मन्तो महाबलाः ॥ कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः ॥ २ ॥ रक्तचन्दनबिन्दुभिः॥ १२ ॥ चुकोपेत्य ॥ राक्षसस्य विरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने, राक्षसविषये ।। १३–१६ ॥ पञ्चभिर्भुज इत्यादौ सुन्दरकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ।। ४४ ।। विव्याधेत्यध्याहारः ॥ १७–१९ ॥ नाश्वा इति अश्वशब्देनात्र खरा उच्यन्ते । रथेन खरयुक्तेनेति पूर्वमुक्तत्वात् ॥ २० -२३ ॥ इति श्रीगोविन्दराज- ति० काञ्चनबिन्दुभिःरक्ताशोकपुष्परसबिन्दुभिः । सितंमहापद्मं महत्तरंरक्तपद्ममिवेत्यभूतोपमेयं ॥ “ अशोकः काञ्चनाह्वयः स० काञ्चनबिन्दुभिः सुवर्णरसबिन्दुभिः | अभूतोपमेयं ॥ १२ ॥ स० राक्षसस्यबाणाभिहतः । एकदेशान्वयः ससंबन्धिकत्वा युक्तः । यद्वा बाणाभिहतोराक्षसस्यचुकोपेत्यन्वयः | हनुमत्कोपसहनासुशकत्वाद्यप्रतीत्यप्रवृत्तेःषष्ठी | साचशैषिकीतिकर्मणि ॥१३॥ ति० ताडयामास बिभेद ॥१४॥ ति० विपन्नं व्यर्थीकृतं ॥ १५॥ स० जंबुमाले: रूढः इकारान्तोनकारान्तश्चेतिजंबुमालेरिति साधु ॥ १९ ॥ स० नाश्वाः अश्वभिन्नाः अश्वसदृशावाखराः । ते नादृश्यन्त | नञर्थस्यनशब्दस्यतद्भिन्नतत्सदृशार्थकता स्वपर- साधारण्येनदृष्टा । अथवा विभाषानुवृत्तेर्नलोपाभावान्नाश्वाइतिसंभवति । तेनखरयुक्तयानत्वमुक्तमुपपनं ॥ २०॥ स० चूर्णिताङ्गः चूर्णीकृतशाखः चूर्णीकृतावयवोराक्षसोपि ॥ २१॥ स० क्रोधसंरक्कलोचनः पूर्वेकिङ्करनाशात् । पुनर्जेबुमा लिनं निहतं श्रुत्वा पूर्वापेक्ष- याबहुकोपंकृतवानित्यर्थः ॥२२॥ स० वीर्ये वैरिपराक्रमः । तदतिक्रम्यपराक्रमोयेषांतान् ॥ २३ ॥ इतिचतुश्चत्वारिंशः सर्गः ॥४४॥ स० सप्तार्चाः प्रतिमारूपाः कालीकरालीइत्यायाः अस्यसन्तीतिसप्ताच वह्निः । तद्वद्वयेषांतेतथा । यद्वा इकारान्तोचिंश- ब्दोचिरशब्दपर्यायः । सप्तअर्चयोचींषि शिखाधस्यसोभिः । “ अर्चिर्मयूर शिखयोः " इतिविश्वः । “ इकारान्तोप्यस्ति ": अग्नेर्भ्राजन्तेअर्चयः' इतीतिभानुदीक्षितलेखात् ॥ १ ॥ स० परस्परजयैषिणः परस्परमुत्कर्षापेक्षाः ॥ २ ॥ भवनात्तस्मात् रावणभवनात् । सप्तार्चिवर्चसइत्यत्र सप्ताचति इकारान्तत्वमा ॥ १ ॥ कृतास्त्राः शिक्षि- "2" [ पाο ] १ ग. झ. जववद्वली, २ क. ग. शिरस्येकेन. ३ ख मारुतिः क. ङ. झ ञ ट वेगितः ४ क. ग. ङ. – ट. महारथः ५ ग. निपपातहतो. ६ ङ. -ट. चूर्णितामः ७ ख महारथानं क महाजवान ८ झ. ठ. क्रोधसंरक्त.