पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ संप्रभृष्य च दुधर्ष चैत्यप्रासाद मुत्तमम् || हनुमान्प्रज्वलक्ष्म्या पारियात्रोपमोऽभवत् ॥ ५ ॥ स भूत्वा सुमहाकाय: प्रभावान्मारुतात्मजः || धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ॥ ६ ॥ तस्यास्फोटितशब्देन महता श्रोत्रघातिना || पेतुर्विहङ्गमास्तत्र चैत्यपालाच मोहिताः ॥ ७ ॥ अस्त्रविज्जयतां रामो लक्ष्मणच महाबलः ॥ राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ ८ ॥ दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ॥ हनुमाञ्शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥ ९ ॥ न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् || शिलाभिस्तु प्रहरतः पादपैच सहस्रशः ॥ १० ॥ अंर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् ॥ समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥ ११॥ एवमुक्त्वा विमानस्थ चैत्य स्थान्हरियूथपः || ननाद भीमनिदो रक्षसां जनयन्भयम् ॥ १२ ॥ तेन शब्देन महता चैत्यपालाः शतं ययुः ॥ गृहीत्वा विविधानखान्प्रासान्खङ्गान्परश्वधान् ॥ विसृजन्तो महाकाया मारुतिं पर्यवारयन् ॥ १३ ॥ ते गदाभिर्विचित्राभिः परिषैः काञ्चना: ॥ आजघुर्वानरश्रेष्ठं बाणैधादित्य सन्निभैः ॥ १४ ॥ आवर्त इव गङ्गायास्तोयस्य विपुलो महान् ॥ परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः ॥ १५ ॥ ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः ॥ १६ ॥ प्रासादस्य महान्तस्य स्तम्भं हेमपरिष्कृतम् || उत्पाटयित्वा वेगेन हनुमान्यवनात्मजः ॥ ततस्तं भ्रामयामास शतधारं महाबलः १७ ॥ तत्र चाग्भिः समभवत्प्रासादचाप्यात ॥ १८ ॥ दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः || स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान् ॥ अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ॥ १९ ॥ माध्शानां सहस्राणि विसृष्टानि महात्मनाम् || बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् ॥ २० ॥ अटन्ति वसुधां कृत्स्त्रां वयमन्ये च वानराः ॥ २१ ॥ दशनागबलाः केचित्केचिद्दशगुणोत्तराः ॥ केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ॥ २२ ॥ सन्ति चौघबलाः केचित्केचिद्वायुबलोपमाः ॥ अप्रमेयवँलाश्चान्ये तत्रासन्हरियूथपाः ॥ २३ ॥ ईदृग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः ॥ शतैः शतसहस्रैश्च कोटीभिरयुतैरपि ॥ आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः ॥ २४ ॥ ॥ ४ ॥ संप्रवृष्य आक्रम्य | पारियात्रोनाम कुल- | अरमिति च्छेदः । अरं शीघ्रं ॥ १७ ॥ अग्भिः सम- पर्वतः ।। ५–११ ।। चैत्यस्थान् चैत्यपालान् ॥ १२ - भवत् । भ्रामितस्तम्भैः स्तम्भान्तरसंघट्टनादिति भावः १६ ॥ पवनात्मजः भ्रामयामासेत्यन्वयः । शतधारं ॥ १८-१९ ॥ राक्षसानामुत्साहभङ्गं कारयितु- धारा कोदिः । वज्रवत्स्थितमित्यर्थः । यद्वा शतधा माह – मादृशानामित्यादि || २०-२२ || ओघबला: स० शतं बहवः ॥ १३ ॥ ति० परिक्षिप्येत्यंशे तोयस्मावर्तइवेतिदृष्टान्तः ॥ १५ ॥ रामानु० महान्तस्य महाग्रस्य । अत्युन्नतशिखरस्येत्यर्थः । महार्हस्येतिवापाठः ॥ १७ ॥ अग्निःप्रासादस्तंभान्तरसंघर्षाद्वा नुकरपरिभ्रमणरूपमथनतो वाग्निःसमभवद्वितिभावः । समयत समग्रग्रामदाहस्यभाविनइयनान्दीतिभावः ॥ १८ ॥ ती० ओघबलाः ओघसंख्यासंख्या- तगजबलाः ॥ २३ ॥ ४ क. [पा० ] १ ङ. श. ट. घर्षयित्वा. २ ग. ङ. - ट. महाकायश्चैत्यस्थो हरिपुङ्गवः. ३ ङ. झ. ट. नादेन. पालाश्चते. ५ च. ज ञ समाश्रितः ६ ग. घ. ङ. झ. ट. केचित्सन्तिवायुबलोपमाः क. केचिच्छतगुणोत्तराः वैनतेय- बलाः केचित्केचिद्वायुबलोपमाः ७ क, ङ. च, ज, उ, बलाः केचित त्रासन, ८ ग. घ. कोदिभिर्बहुभिर्वृतः, ङ, झ ञ ट कोटिभिश्चायुतैरपि, de A