पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ मनःपरिगृहीतां तां तव रक्षोगणेश्वर ॥ कः सीतामभिभाषेत यो न स्यात्यक्तजीवितः ॥ २१ ॥ राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः ॥ हुताग्निरिव जज्वाल कोपसंवर्तितेक्षणः ॥ २२ ॥ तस्य क्रुद्धस्य नेत्राभ्यां प्रापतनास्त्रविन्दवः ॥ दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ||२३॥ आत्मनः सदृशाञ्छ्ररान्किकरान्नाम राक्षसान् ॥ व्यादिदेश महातेजा निग्रहार्थं हनुमतः ॥ २४ ॥ तेषामशीतिसाहस्रं किंकराणां तरविनाम् ॥ २५ ॥ निर्ययुर्भवनात्तस्मात्कूटमुद्गरपाणयः || महोदस महादंष्ट्रा घोररूपा महाबलाः ॥ युद्धाभिमनसः सर्वे हनुमद्रहणोन्मुखाः ॥ २६ ॥ ते केपीन्द्रं समासाद्य तोरणस्थमवस्थितम् || अभिपेतुर्महावेगा: पतङ्गा इव पावकम् ॥ २७ ॥ ते गदाभिर्विचित्राभिः परिघैः काञ्चना: ॥ आजघ्नुर्वानरश्रेष्ठं शरैश्चादित्यसन्निभैः ॥ २८ ॥ मुद्रैः पट्टिशैः शूलैः प्रासतोमरशक्तिभिः || परिवार्य हनूमन्तं सहसा तस्थुरग्रतः ॥ २९ ॥ हनुमानपि तेजस्वी श्रीमान्पर्वत सन्निभः || क्षितावाविध्य लाङ्गूलं ननाद च महाखनम् ॥ ३० ॥ स भूत्वा सुमहाकायो हनुमान्मारुतात्मजः ॥ धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ॥ ३१ ॥ तस्यास्फोटितशब्देन महता सानुनादिना || पेतुर्विहङ्गा गगनार्दुच्चैश्चेदमघोषयत् ॥ ३२ ॥ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ॥ राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ ३३ ॥ दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः || हनुमाञ्शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥ ३४ ॥ न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् || शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥ ३५ ॥ अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् ॥ समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥ ३६॥ तस्य सन्नादशब्देन तेऽभवन्भयशङ्किताः ॥ दहशुश्र हनूमन्तं संध्या मेघमिवोन्नतम् ॥ ३७ ॥ .१५६ -- २१|| संवर्तितेक्षणः परिवर्तितेक्षणः ||२२ - २३॥ नाम प्रसिद्धौ । किंकर इति प्रसिद्धानित्यर्थः ॥ २४ ॥ किंकराणां संख्यां निर्दिशति – तेषामिति ॥ २५ ॥ सर्व इति विशेष्यं । कूटो नाम अयस्कारकूटसदृश आयुधविशेषः । मुद्गरः घणः ॥ २६ ॥ ॥ ३१ ॥ सानुनादिना सप्रतिध्वनिना । यद्वा अनु नादिनः पर्वतगुहादयः तत्सहितेन । यद्वा सानुषु प्रतिध्वनिकुर्वता । उच्चैश्चेदमघोषयदिति । स हनुमान इदं वक्ष्यमाणं वचनमुञ्चैरघोषयत् ॥ ३२ ॥ घोषण- अवस्थितं युद्धाय सन्नद्धमित्यर्थः ॥ २७ ॥ परिघैः परिघपा- वचनमाह - जयतीत्यादि ॥ अभिपालितः वालिंवधेन तनैः । काञ्चनाङ्गदैः काञ्चनपढैः ॥ २८ ॥ पट्टिशो ||३३|| अष्टिकर्मण इत्यनेन स्वदास्यं न कर्मकृतं किंतु माम लोहदण्डः तीक्ष्णधारः क्षुरोपमआयुधविशेषः । स्वरूपप्रयुक्तमित्युच्यते ||३४|| प्रतिबलं समानबलं । अत्रेत्थंभूतलक्षणे तृतीया | प्रासः कुन्तः | तोमर : प्रहरत: राक्षसानितिशेष: । प्रहारमात्रेणवा हनुम- आयुधविशेषः ॥ २९ ॥ श्रीमानिति तात्कालिकहर्ष- द्विशेषणं ॥ ३५ ॥ मिषतां पश्यतां | अनादरे षष्ठी कृतक्रान्तिरुच्यते ॥ ३० ॥ धृष्टमिति क्रियाविशेषणं || ३६ || संध्यामेघमिवेति रक्तवर्णत्वात् || ३७ ॥ ती० सीतयासहसंभाषणस्यापराधलं साधयन्ति - मनःपरिगृहीतामिति । राजपरिग्रहसंभाषणपुंसोपराधइतिभावः । ति व्यक्तजीवितः त्यक्तजीविताशः ॥ २१ ॥ स० आत्मनः सदृशान् स्वदूतत्वयोग्यान् ॥ २४ ॥ तेषांसंख्या अशीतिसाहस्रमित्य- न्वयः । शि० तेषामिति । किङ्कराणांमध्ये अशीतिसाहस्रंकिङ्करास्तस्माद्भवनान्निर्ययुः ॥ २५ ॥ ति० क्षितावाविध्यलाङ्गूल मिति स्वभावोक्तिरलङ्कारः ॥ ३० ॥ [ पा० ] १ घ. ङ. झ. ट. सदृशान्वीरान. २ क. ङ, झ, ञ, ट. कर्पितं. ३ ख. ग. ङ. झ ट शरैरादित्य. च. छ. ज. ञ. शरैरशनि. ४ क. ख. ग. ङ. च. ज. ट. तोमरपाणयः ५ ङ. झ. ट. पुच्छमास्फोट, ६ क. ख. च. छ. ज, ञ. दुच्चैर्घोषमघोषयत्. ७ क. राघवेणानु. ८ ट, दहशुस्ते.