पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । स वीर्यवान्कथं सीतां हृतां समनुमन्यसे || वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपमः ॥ ६॥ एष चूडामणिर्दिव्यो मया सुपेरिरक्षितः ॥ एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघं ॥ ७ ॥ एष निर्यातितः श्रीमान्मया ते वारिसंभवः ॥ अतः परं न शक्ष्यामि जीवितुं शोकलालसा ॥ ८ ॥ असह्यानि च दुःखानि वाचश्च हृदयच्छिदः ॥ राक्षसीनां सुघोराणां त्वत्कृते मर्पयाम्यहम् ॥ ९ ॥ धारयिष्यामि मासं तु जीवितं शत्रुसूदन | मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज ॥ १० ॥ घोरो राक्षसराजोयं दृष्टिश्च न सुखा मयि ॥ त्वां च श्रुत्वा विषज्जन्तं न जीवेयमेहं क्षणम् ||११|| वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम् ॥ तैथाऽब्रवीन्महातेजा हनुमान्मारुतात्मजः ॥ १२ ॥ त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ॥ रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते ॥ १३ ॥ कथंचिद्भवती दृष्टा न कालः पेरिशोचितुम् || इमं मुहूर्त दुःखानामन्तं द्रक्ष्यसि भामिनि ॥ १४॥ तावुभौ पुरुषव्याघ्रौ राजपुत्रांवरिन्दमौ ॥ त्वदर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ॥ १५ ॥ हैत्वा तु समरे क्रूर रावणं सहबान्धवम् || रोंघवौ त्वां विशालाक्षि स्वां पुरीं प्रौपयिष्यतः ||१६|| यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ॥ प्रीतिसंजननं तस्य भूयस्त्वं दातुमर्हसि ॥ १७ ॥ साब्रवीद्दत्तमेवेति मयाभिज्ञानमुत्तमम् ॥ एतदेव हि रामस्य दृष्ट्वा मँत्केशभूषणम् || श्रद्धेयं हनुमन्वाक्यं तव वीर भविष्यति ॥ १८ ॥ १५१ स तं मणिवरं गृह्य श्रीमान्लवसत्तमः ॥ प्रणम्य शिरसा देवीं गमनायोपचक्रमे ।। १९ ।। तमुत्पातकृतोत्साहमवेक्ष्य हरिपुङ्गवम् ॥ वर्धमानं महावेगमुवाच जनकात्मजा ॥ अश्रुपूर्णमुखी दीना बाँष्पगद्गदया गिरा ॥ २० ॥ हनुमान्सिहसंकाशौ भ्रातरौ रामलक्ष्मणौ ॥ सुग्रीवं च सहामात्यं सर्वाच्या नामयम् ॥ २१ ॥ यथा च स महाबाहुर्मी तारयति राघवः ॥ असा दुःखांबुसंरोधात्वं समाधातुमर्हसि ॥ २२ ॥ इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ॥ ब्रूयास्तु रामस्य गतः समीप शिवश्च तेऽध्वाऽस्तु हरिप्रवीर ॥ २३ ॥ ६ ॥ प्रहृष्यामीति । अस्य चूडामणेस्त्वया बहुशो | मासात्परं ॥ ८-१० | विषज्जन्तं विलम्बमानं लालितत्वेन त्वत्स्मारकत्वादितिभावः ॥ ७ ॥ वारि ॥ ११-१३ ।। इमं मुहूर्त अस्मिन्मुहूर्ते ॥ १४- संभवः । रत्नं हि रत्नाकरे उत्पद्यते । अतःपरं | २२ ॥ शिवः अव्याहत इत्यर्थः ॥ २३ ॥ ॥ ५ ॥ ति० दिव्य एषचूडामणिः एतावत्कालंसुपरिरक्षितः । एतंव्यसनेत्वाविष्ष्यामि । एतत्संनिधानेरक्षोऽभिभवासंभ- वादितिभावः ॥ ७ ॥ ती० त्वत्कृते त्वत्प्राप्त्याशया ॥ ९ ॥ स० मासादूर्ध्वमित्युक्तिस्तु कालेधि केसत्यपितीत्रागमनाभिप्रायेणवा दिनेषुसत्स्वप्यात्मघाताभिप्रायेणवेतिज्ञातव्यं ॥ १० ॥ ति० यतोऽयंघोरस्तस्यदृष्टिश्च । चाद्बुद्धिः नसुखा अवधिकालादूर्ध्वकृतविना• शनिश्चया । अतस्तत्पूर्वमेवमरणौचित्यादवधिकालस्याधिकत्वेपिमासादूर्ध्वमेवनजीविष्यामि । किंचत्वां विषजन्तं विलम्बंकुर्वन्तं | यदिश्शृणुयां तदा तथाश्रुत्वामासादर्वांगेवक्षणमपिनजीवेय मित्युक्त मितिब्रूहीतिशेषः ॥ स० विषजन्तं असक्तमिवविद्यमानं ॥ ११ ॥ ति० त्वच्छोकविमुखः त्वत्स्थित्य परिज्ञानजशो केनत्वदुद्धारप्रवृत्तिविमुखः । नतुज्ञात्वेति सत्येनतेशपे ॥ १३ ॥ ति० त्वंसमाधातु- मित्यस्य तथेत्यादिः । समाधानं संविधानं | अथापिसमहाबाहुरितिपाठे यथेत्यपिपूरणीयमेव । यद्यपिश्रुतवृत्तान्तः स्वयमेवयतिष्य- [ पा० ] १ क. ख. घ. च. – ट. वरुणोपम. २ क. ङ. ट. संपरि. ३ ङ. झ. ट. राक्षसैस्सहसंवासं ४ घ. विपन्नंतु. ५ ङ. झ. ट. मपिक्षणं. ६ क. ख. ग. ङ. - ट. अथाब्रवीत्. घ. ततोऽब्रवीत्. ७ क. ग. —च. ज. झ ट शोकाभिभूते. ८ क. ग. ङ.―ट. दृष्टाकथंचिद्भवती ९ ङ. झ. ट. परिदेवितुं. १० घ. - ट. वनिन्दितौ ११ घ. छित्त्वातु. १२ क. म. घ. च. छ. ज. ञ. घोरं. ङ. झ ट रक्षो. १३ क. ङ. —ट. बान्धवैः १४ क. ग. च. छ. ज. ज. राघवस्त्वां. १५ ङ. झ. ट. प्रतिनेष्यतः क. च. छ. ज. अ. प्रतिनेष्यति. ग. प्रापयिष्यति. १६ ङ. झ. ट. यत्नेनभूषणं. १७ क. ग. च. ज. अ. बाष्पसंदिग्धया १८ क. ग. ञ. शोकंममतीव्रवेगं. १९ घ. शिवश्चपन्थास्तु.