१५० श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ एवमाश्वास्य वैदेहीं हनुमान्मारुतात्मजः ॥ गमनाय मतिं कृत्वा 'वैदेहीं पुनरब्रवीत् ॥ ४७ ॥ तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम् ॥ लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम् || [ सुग्रीवसहितं शरं वानरैः परिवारितम् ] ॥ ४८ ॥ नखदंष्ट्रायुधान्वीरान्सहशार्दूलविक्रमान् || वानरॉन्वारणेन्द्राभान्क्षिप्रं द्रक्ष्यसि संगतान् ॥ ४९ ॥ शैलाम्बुदनिकाशानां लङ्कामलयसानुषु ॥ नर्दतां कपिमुख्यानामायें यूथान्यनेकशः ॥ ५० ॥ स तु मर्मणि घोरेण ताडितो मन्मथेषुणा ॥ न शर्म लभते रामः सिंहार्दित इव द्विपः ॥ ५१ ॥ माँ रुदो देवि शोकेन मा भूत्ते मैंनसोप्रियम् || शंचीव पत्या शक्रेण भर्त्रा नाथवती ह्यसि ॥५२॥ रामाद्विशिष्ट : कोन्योस्ति कश्चित्सौमित्रिणा संमः ॥ अग्निमारुतकल्पौ तौ भ्रातरौ तंव संयौ ॥ ५३ ॥ नामिविरं वत्स्यसि देवि देशे रक्षोगणैरध्युषितेतिरौद्रे ॥ न ते चिरादागमनं प्रियस्य क्षमस्व मत्सङ्गमकालमात्रम् ॥ ५४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनचत्वारिंशस्सर्गः ॥ ३९ ॥ चत्वारिंशः सर्गः ॥ ४० ॥ सीतया हनुमन्तंप्रति श्रीरामे तेनस्वस्थमनश्शिलयातिलकरचनायाः प्रत्यभिज्ञानत्वेननिवेदनचोदनम् ॥ १ ॥ तथा स्व- 'वरणप्रणामपूर्वकंप्रयाणोद्यतंहनुमन्तंप्रति श्रीरामे स्वीयदुरवस्था निवेदनचोदन पूर्वकमाशीर्वचनेन गमनाभ्यनुज्ञानम् ॥ २ ॥ तुवचनं तस्य वायुसूनोर्महात्मनः ॥ उवाचात्महितं वाक्यं सीता सुरसुतोपमा ॥ १ ॥ त्वां दृष्ट्वा प्रियवक्तारं संप्रहृष्यामि वानर || अर्धसंजातसस्येव वृष्टि प्राप्यं वसुन्धरा ॥ २ ॥ यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकशितैः ॥ संस्पृशेयं सँकामाऽहं तथा कुरु दयां मयि ॥ ३ ॥ अभिज्ञानं च रामस्य देंद्या हरिगणोत्तम || क्षिप्तामिषीकां काकस्य कोपादेकाक्षिशातनीम् ॥ ४ ॥ मनश्शिलायास्तिलको गण्डपार्श्वे निवेशितः ॥ त्वया प्रनष्टे तिलके तैत्किल सर्तुमर्हसि ॥ ५ ॥ पुनरुक्तिः ।। ४७–४९॥ शैलाम्बुदेति द्रक्ष्यसीति | सस्या || २ – ३ || काकस्यैकाक्षिशातनीं क्षिप्तां शेषः ॥५०-५१॥ मा रुदः रोदनं मा कुरु ॥५२ - इषीकां इषीकतृणरूपमभिज्ञानं पूर्वोक्तं दद्याः । ५३॥ मत्सङ्गमकालमात्रं मम रामेण सङ्गमकालमात्रं अन्यच्च वक्ष्यामीति भावः । तदेवाह- - मन इति ॥ ॥ ५४॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण- तिलके पूर्वतिलके प्रनष्टे सति । गण्डपार्श्वे गण्डस्थले भूषण शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ | गण्डशैलपार्श्वे वा । मनश्शिलायास्तिलकः मनश्शिला- कृततिलकः । तत् मनश्शिलातिलक निर्माणं । स्मर्तुम- वेद ॥ १ ॥ अर्धसंजातसस्या अर्धोत्पन्न | र्हसि । इदमप्यभिज्ञानं दद्या इति योजना ॥ ४ - ति० अर्धसंजातानिअर्धवयः प्राप्तानि | ततः परंजलाभावादासन्नशोषाणिसस्यानियस्यास्सा | यथादैवात्संपन्नवृष्ट्यासंपन्नसस्या भवति तथाऽहमपि प्राप्तजीवितनाशा मृतोपमा त्वद्दर्शनाद्धृतजीवितेतिभावः ॥ २ ॥ ति० स्मर्तुमर्हसीति मयोक्तमितिब्रूहीतिशेषः [ पा० ] १ क. ख. च. छ. ज. ञ. मैथिलीं. २ ङ. झ. ट. मुपागतं. ३ इदमर्धे ग. पाठेदृश्यते. ४ क. च. छ. ज. न्वानरेन्द्रेणक्षिप्रं. ५ च. छ. ज. अ. मुख्यानामचिराच्छ्रोष्यसिध्वनिं ख. घ. मुख्यानांनचिराच्छ्रष्यसिस्वनं. ग. मुख्यानांमध्ये यूँथा. ६ ङ. छ. झ. ट. रुदमादेविशोकेन. क. ज. ब. अलंतेदेविशोकेन. ७ ङ. झ ट मनसोभयं. ज. -ट. शचीवभत्र ९ च. ज. ज. शकेणपत्या. ङ. झ. ट. शक्रेणसङ्गमेष्यसिशोभने १० क. च. छ. ज. ञ. रणसंश्रयौ. ११ ग. च. छ. ज. अ. रभ्युषितेहि १२ प पीडितै, १३ च. छ. ज. समासक्ता. १४ ख. घ. दत्तं १५ झ. तंकिल. ८ क. घ. ङ. च.
पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१५४
दिखावट