पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३९ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १४९ तदसिन्कार्यनिर्योगे वीरैवं दुरितक्रमे || किं पश्यसि समाधानं त्वं हि कार्यविदां वरः ॥ २७ ॥ काममस्य त्वमेवैकः कार्यस्य परिसाधने || पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः ॥ २८ ॥ बलैः समग्रैर्यदि मां रावणं जित्य संयुगे ॥ विजयी खैपुरीं यायात्तत्तु मे स्याद्यशस्करम् ॥ २९ ॥ शेरैस्तु संकुलां कृत्वा लङ्कां परवलार्दनः ॥ मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ ३० ॥ तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ॥ भवेदाहवशूरस्य तथा त्वमुपपाद ॥ ३१ ॥ तदर्थोपहितं वाक्यं सहितं हेतुसंहितम् || निशम्य हनुमाञ्शेषं वाक्यमुत्तरमब्रवीत् ॥ ३२ ॥ देवि हरृक्षसैन्यानामीश्वरः लवतां वरः ॥ सुग्रीवः सत्त्वसंपन्नस्तवार्थे कृतनिश्रयः ॥ ३३ ॥ स वानरसहस्राणां कोटीभिरभिसंवृतः ॥ क्षिप्रमेष्यति वैदेहि राक्षसानां निवर्हणः ॥ ३४ ॥ तस्य विक्रम संपन्नास्सत्त्ववन्तो महाबलाः ॥ मनःसंकल्पसंपाता निदेशे हरयः स्थिताः ॥ ३५ ॥ येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः ॥ न च कर्मसु सीदन्ति महत्स्वमिततेजसः || ३६ ।। असकृत्तैर्महोत्साहैः ससागरधराधरा || प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ॥ ३७ ॥ मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः || मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ॥ ३८ ॥ अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ॥ न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ॥ ३९ ॥ तदलं परितापेन देवि शोको व्यपैतु ते ॥ एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ॥ ४० ॥ मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ॥ त्वत्सकाशं महासत्वौ नृसिंहावागमिष्यतः ॥ ४१ ॥ तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ || आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः ॥ ४२ ॥ सगणं रावणं हत्वा राघवो रघुनन्दनः ॥ त्वामादाय वरारोहे स्वपुरं प्रतियास्यति ॥ ४३ ॥ तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी ॥ नचिराद्रक्ष्य से रामं प्रज्वलन्तमिवानलम् ॥ ४४ ॥ निहते रौंक्षसेन्द्रेऽस्मिन्सपुत्रामात्यबान्धवे ॥ त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी ॥ ४५ ॥ " क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि || रावणं चैव रामेण निहतं द्रक्ष्यसेऽचिरात् ॥४६॥ ॥२४–२६॥ समाधानं परिहारं ॥ २७ ॥ अहमेव | संहितं युक्तियुक्तं । शेषं पूर्वमनुतं | उत्तरं वाक्यमत्र- साधयिष्यामीत्याशङ्क्याह — काममिति ॥ हे परवीरघ्न वीत् ॥३२-३४|| मनःसंकल्पसंपाता: मनोव्यापार- त्वं अस्य कार्यस्य सर्वराक्षसवधपूर्वक प्राणरूपस्य | तुल्यगमनाः ॥ ३५ ॥ न सज्जते न विलंवेत परिसाधने कामं पर्याप्तः शक्तः । एवं चेत्फलोदयः ॥ ३६-३७ ॥ प्रत्यवरः हीन: । पूर्व चतुर्णामेवात्र शक्तिसमृद्धिः । ते यशस्यः तव यशस्करः । नतु ममेति गतिरिति विचारप्रकारमात्रमुक्तं । अत्र तु परमार्थः । भावः ।। २८ ।। तर्हि तव किं यशस्यमित्याकाङ्क्षाया- यद्यपि बले हनुमानधिकः तथापि वेगे सुग्रीवसन्नि माह - बलैरिति ॥ जित्य जित्वा । मां गृहीत्वेति शेषः । हिता नीलादयः सर्वे तुल्या एवेति नानृतोक्तिः यायात् राम इतिच शेषः ॥ २९ ॥ एतन्नकेवलंम | ॥३८ – ३९|| एकोत्पातेन एकयत्नेन ॥ ४०-४१ ।। रामस्यापीत्याह—शरैरिति ॥ ३० ॥ तस्य अनुरूपं विधमिष्यतः दहिष्यतः ॥४२–४३॥ कालकाङ्क्षिणी विक्रान्तं यथा भवेत्तथा उपपादय कुरु ॥ ३१ ॥ | भव दिवसगणनायां तत्परा भवेत्यर्थः । नचिरात् अर्थोपहितं अर्थयुक्तं । सहितं परस्परसंगतं । हेतु- अचिरात् ॥ ४४–४६ ॥ पुनरब्रवीदिति । ननुभवत्वेवंहरीणामागमनं । राघवयोः कथंतत्राह-ममेति । महासंघौ महासमुदाययुक्तौ ॥४१॥ इत्येकोनचत्वारिंशः सर्गः ॥३९॥ [ पा० ] १ ख. घ. त्वमस्मिन् क. एतस्मिन्. २ ङ. झ. ज. ट. सममैयुधि. ३ घ ङ. झ. ट. स्वपुरं. क. खांपुरीं. ग. पुरं. ४ ग. ङ. झ. ट. तत्तस्यसदृशंभवेत् ५ क. ख. ग. ङ. झ. ट. बलैस्तु. ६ ङ. – ट. प्रश्रितं. ७ ख. हनुमाञ्श्रेष्ठं ८ क. संपन्नाः. ९ ङ. छ. –ञ. खपुरीं. घ. च. ट. खांपुरी. ख. पुरं. १० क. - ट. ग्रसिन्द्रेचसंपुत्रा. ११ च. छ. ज. ञ॰ क्षिप्रमेष्यसिशोकस्यपरंपारंचमैथिलि. १२ङ, झ. ट. द्रक्ष्यसिमैथिलि. १३ ङ. झट. द्रक्ष्यसेनिहतंबलात्. ख, विहतं. -