पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ श्रीमद्वास्मीकिरामायणम् । [सुन्दरकाण्डम् ५ १५ ॥ जीवन्तीं मां यथा रामः संभावयति कीर्तिमान् ॥ तैत्तथा हनुमन्वाच्यं वाचा धर्ममवाप्नुहि ॥ १० ॥ नित्यमुत्साहयुक्ताञ्च वाचः श्रुत्वा रिताः ॥ वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये ॥ ११ ॥ मत्संदेशयुता वाचस्त्वत्तः श्रुत्वैव राघवः ॥ पराक्रमविधिं वीरो विधिवत्संविधास्यति ॥ १२ ॥ सीताया वचनं श्रुत्वा हनुमान्मारुतात्मजः || शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् १३ ॥ क्षिप्रमेष्यति काकुत्स्थो हरृक्षप्रवरैर्वृतः ॥ यस्ते युधि विजित्यारीज्शोकं व्यपनयिष्यति ॥ १४ ॥ न हि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा || यस्तस्य क्षिपतो बाणान्स्थातुमुत्सहतेऽग्रतः अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम् ॥ स हि सोढुं रणे शक्तस्तव हेतोर्विशेषतः ॥ १६ ॥ सं हि सागरपर्यन्तां महीं शांसितुमीहते || त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि ।। १७ ।। तस्य तद्वचनं श्रुत्वा सम्यक्सत्यं सुभाषितम् || जानकी बहुमेनेऽथ वचनं चेदमब्रवीत् १८ ॥ ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ॥ भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत् ॥ १९ ॥ यदि वा मन्यसे वीर वसैकाहमरिन्दम || कस्मिंश्चित्संवृते देशे विश्रान्तः श्रो गमिष्यसि ॥ २० ॥ मम चेदैल्पभाग्यायाः सान्निध्यात्तव वानर || अस्य शोकस्य महतो मुहूर्त मोक्षणं भवेत् ॥ २१ ॥ गँते हि हरिशार्दूल पुनरागमनाय तु || माणानामपि संदेहो मम स्यान्नात्र संशयः ॥ २२ ॥ तवादर्शनजः शोको भूयो मां परितापयेत् || दुःखदुःखपरामृष्टां दीपयन्निव वानर ॥ २३ ॥ अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः ॥ सुमहांस्त्वत्सहायेषु हरृक्षेषु हॅरीश्वर ॥ २४ ॥ कथं नु खलु दुष्पारं 'तँरिष्यन्ति महोदधिम् ॥ तानि हरृक्षसैन्यानि तो वा नरवरात्मजौ ॥२५॥ त्रयाणामेव भूतानां सागरस्यास्य लङ्घने || शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ॥ २६ ॥ समाधातुं राममनुकूलयितुं ॥ ९ ॥ जीवन्तीं संभा- | चेदमब्रवीदित्युक्तं विवृणोति - ततस्त मिति ॥ भर्तृ- यति जीवन्तीं करोतीत्यर्थः । तत्तथा अव्ययमेतत् । स्नेहान्वितं आत्मनि यो भर्तुः स्नेहस्तेनान्वितं । वचनस्य प्रयोजनमाह - वाचेति । वाचाधर्म स्वविंषयभर्तृस्नेहप्रकाशकमिति यावत् । अनुमानयत् वाचिकधर्म ॥ १० ॥ तमेवधर्ममुपपाद्यति द्वाभ्यां – नित्यमित्यादि ॥ ११–१५ ।। पर्जन्य अन्वमानयत् । वक्ष्यमाणोक्तिरूपं संमानवचनमब्रवी- इन्द्रं । “ पर्जन्यौ रसद्ब्देन्द्रौ " इत्यमरः ॥ १६ ॥ दित्यर्थः ॥ १९ – २२ ॥ दुःखाद्दुःखपरामृष्टां पूर्वदुः- जयः भविष्यतीति शेषः ॥१७॥ सम्यकू सोपपत्तिकं । खाधिकेन दुःखेन स्पृष्टां | दीपयन्निव वर्धयन्निवेत्यर्थः सत्यं परमार्थं । सुभाषितं श्रुतिमधुरं ॥ १८ ॥ वचनं ॥ २३ ॥ अयं वक्ष्यमाणः | तिष्ठतीव मूर्तीभूतइत्यर्थ: त्मजत्वेपिसर्पादिवद्वानेतिसूचयितुंपदद्वयं । यद्वा नरेष्वात्मा धैर्ययस्यनरात्मा दशरथः | तस्माज्जायतइतिसतथा । तंरामं प्रतिग- न्तुमुपचक्रमेवे यन्वयः ॥ ६ ॥ ति० वमतः बाणान्विसृजतइत्यर्थः ॥ १५ ॥ ति० महींसाधितुमर्हति जेतुमुद्युतइत्यर्थः ॥१७॥ स० अल्पभाग्यायामम तवसांनिध्यादस्य महतःशोकस्यमोक्षणं त्यागः ॥ २१॥ स० पुनरागमनायसंदेहेसति मम प्राणानांसंदेहः स्यादित्यर्थः ॥ २२ ॥ ती० दुःखंदुःखपरामृष्टामितिपाठे दुःखमां दीपयन् ज्वलयन्निवपरितापये दितिसंबन्धः ॥ २३ ॥ ति० त्वत्सहायेष्विति । साक्षात्साधकस्यतवसहायभूतेषु मिलितेषुहृयृक्षेषुहरीश्वरः सुग्रीवः । कथमुधिंतरिष्यति । सैन्यानिकथंतरिष्यन्ति । तौवाकथंतरिष्यतइत्यर्थः ॥ २४-२५ ॥ [ पा० ] १ क. राघवः. २ क. ख. ग. ङ. च. झ. ट. तत्त्वया ३ ङ. झ. ट. युक्तस्य. मयेरिताः ५ क. झ ञ ट पराक्रमेमतिं. ङ. पराक्रमेगतिं. ६ ख ङ. झ ट सीतायास्तद्वचः. नासुध्वमरेषुवा. ग. घ, नामरेष्वसुरेषुच. साधितुमर्हति. १२ ङ. झ ट चैवाल्पभाग्यायाः च छ ज ञ वाल्पभाग्यायाः ११ क. ग. घ. छ. भर्तुःस्नेहान्वितं. १३ ङ. झ. ट. ततोहि. ख. ततस्तु १४ ग. पुनश्चागमनायतु. १५ झ. हरीश्वरः १६ क. ख. ग. छ. झ ञ तरिष्यति. १७ क. दशरथात्मजौ १८ ङ. - ट. सागरस्येह. ८ ङ. झ. ट. वमतो. ९ ख. ग. सतु. ४ क. ख. ग. ङ. ट. ७ क. ख. च. छ. ज. ञ. १० ग. शासितुमर्हति. ङ. झ. ट.