पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३७ ] त्वया हि सह रामस्य महानागमने गुणः ॥ ५९ ॥ मयि जीवितमायत्तं रांघवस्य महात्मनः ॥ भ्रातॄणां च महाबाहो तव राजकुलस्य च ॥ ६० ॥ तो निराशौ मदर्थ तु शोकसंतापकर्शितौ ॥ सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसंग्रहम् ॥ ६१ ॥ भर्तृभक्ति पुरस्कृत्य रामादन्यस्य वानर ॥ नै स्पृशामि शरीरं तु पुंसो वानरपुङ्गव ॥ ६२ ॥ यदहं गात्रसंस्पर्श रावणस्य बैलागता || अनीशा किं करिष्यामि विनाथा विवशा सती || ६३ || यदि रामो दशग्रीवमिह हत्वा सेवान्धवम् || मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत् ॥ ६४ ॥ श्रुता हि दृष्टाश्च मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः || न देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समा हि संयुगे ॥ ६५ ॥ समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम् || सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम् ॥ ६६ ।। सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम् || सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिमं शरार्चिषम् ।। ६७ ।। स मे हरिश्रेष्ठ सलक्ष्मणं पँति सयूथपं क्षिप्रमिहोपपादय ॥ चिराय रामं प्रति शोककर्शितां कुरुष्व मां वानरमुख्य हर्षिताम् ॥ ६८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तत्रिंशः सर्गः ॥ ३७॥ श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १३९ प्रदेशे ॥५८-५९॥ तवराजकुलस्य सुग्रीवराजकुल- | उत्तरोत्तरहर्षवतीमित्यर्थः । अनया भक्तिकया उपा | यान्तरं स्वरूपविरुद्धं भगवत्प्राप्तौ स एवोपाय दर्शितः ॥ ६८ ॥ इति श्रीगोविन्दराजविरचिते श्रीम- द्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्ड - व्याख्याने सप्तत्रिंशस्सर्गः ॥ ३७ ॥ स्य॥६०—६२॥ अनीशा स्वयं किंचित्कर्तुमसमर्था । विनाथा विगतस्वामिका | विवशा विचेष्टा ॥ ६३- ६४ ॥ प्रथमहिशब्दो गुणप्रसिद्धौ । द्वितीयो निस्स- मत्वप्रसिद्धौ ॥ ६५ - ६७ ॥ हर्षितां हर्षमासादितां । त्रवतिरामे | त्वयि त्वद्विषये | असंशयंयथातथा संदेहः परपुरुषेणस हैकाऽऽयातेतिसंदेहः ॥ ४८ ॥ ती० ननुरावणाङ्गसंस्पर्श: कथंस्यादित्यत आह — भर्तुरिति । यस्मात्कारणातभर्तुर्भक्तिपुरस्कृत्य भर्तुर्भक्त्यालक्ष्मणःप्रस्थापितः । तस्माद्रावणस्यगात्रसंस्पर्श- बलागतेतिसंबन्धः । हासीतेलक्ष्मणेतिमारीचवाक्यंश्रुत्वा रामानर्थशङ्कयाभर्तृभक्त्यालक्ष्मणप्रस्थापनात्प्राप्तोऽयमनर्थोकामकृतइति- भावः । अनीशा स्वयं किंचित्कर्तुमशक्नुवती । विवशा विचेष्टा । विनाथा विगतखामिका असंनिहितनाथेत्यर्थः ॥ ६२-६३ ॥ ति० तत्तस्यसदृशं स्वमहिम्न सगणशत्रुंहत्वामन्नयनं । सगणरावणवधार्थमेवावतारात् तस्यचमद्गमनेऽसंभवात् । एवंचख कार्या निष्पत्त्यागतायामपिक्रुद्ध्येदितिगूढं ॥ ६४ ॥ ति० तादृशबलंच तस्य मयासुविदित मित्याह - श्रुताश्चेति । विश्वामित्र यज्ञादौ कृताः वालिवधादयश्चश्रुताः । अन्येदृष्टाः ॥ स० रणावमर्दिनः रणेवैर्यवम | रणेअवन्तिरक्षयन्तिआगच्छन्तिखानितिवा रणावाः । तान्मदर्दीतिवा ॥ ६५ ॥ स० वासवतुल्यविक्रमं वासवोपितुल्यविक्रमः योग्यतानुसारिपराक्रमोयेनसतथा । इतरोर्थःस्फुटः ॥ ६६ ॥ स० सयूथपं ससुग्रीवं | कपिश्रेष्ठ वानरवीरेति प्रलापकालवा द्विरुक्तिः । यद्वा रामंप्रतिशोककर्शितां नरवीरेणरामेणह- र्षितां कुरुष्वेत्यर्थः ॥ ६८ ॥ इतिसप्तत्रिंशः सर्गः ॥ ३७ ॥ [ पा० ] १ ङ. --ट. राघवस्या मितौजसः . २ क. – घ. ज. - ट. भर्तुर्भक्ति. ३ ङ. झ. ट. नाहंस्प्रष्टुंखतोगात्र मिच्छेयं वानरोत्तम. च. छ. ज. ज. मयापुनः पुमानन्योनयुक्तःस्प्रष्टुमात्मना ४ ग. - ट. गताबलात्. ५ क. ख. घ. -ट. सराक्षसं. ६ ङ. झ. ट. प्रियं. ७ क. ज. ट. वानरवीर. Y