पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ हरिः पर्वतसंकाशस्ताग्रवक्रो महाबलः ॥ वज्रदंष्ट्रनखो भीमो वैदेही मिदमब्रवीत् ॥ ३८ ॥ सपर्वतवनोद्देशां साप्राकारतोरणाम् || लङ्कामिमां सनाथां वा नयितुं शक्तिरस्ति मे ॥ ३९ ॥ तदवस्थाप्यतां बुद्धिरलं देवि विकासया || विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् ॥ ४० ॥ तं दृष्ट्वा भीमसंकाशमुवाच जनकात्मजा || पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम् ॥ ४१ ॥ तव सत्त्वं बलं चैव विजानामि महाकपे || वायोरिव गतिं चापि तेजश्याग्नेरिवाद्भुतम् ॥ ४२ ॥ प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति || उदघेरप्रमेयस्य पारं वानरपुङ्गव || ४३ || जानामि गमने शक्तिं नयने चापि ते मम || अवश्यं संप्रधार्याशु कार्यसिद्धिर्महात्मनः ॥ ४४ ॥ अयुक्तं तु कपिश्रेष्ठ मम गन्तुं त्वयाऽनघ || वायुवेगसवेगस्य वेगो मां मोहयेत्तव ॥ ४५ ॥ अहमाकाशमपन्ना ह्युपर्युपरि सागरम् || प्रपतेयं हि ते पृष्ठ|द्भयाँद्वेगेन गच्छतः ॥ ४६ ॥ पतिता सागरे चाहं तिमिनऋझषाकुले || भवेयमाशु विवशा यादसामन्त्रमुत्तमम् ॥ ४७ ।। नं च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन || कलत्रवति संदेहस्त्वय्यपि स्वादसंशयः ॥ ४८ ॥ हियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः ॥ अनुगच्छेयुरादिष्टा रावणेन दुरात्मना ॥ ४९ ॥ तैस्त्वं परिवृतः शूरैः शूलमुगरपाणिभिः || भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान् ॥ ५० ॥ सायुधा बहवो व्योनि राक्षसास्त्वं निरायुधः || कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् ॥५१॥ युध्यमानस्य रक्षोभिस्तव तैः क्रूरकर्मभिः ॥ प्रपतेयं हि ते पृष्ठाद्भयार्ता कपिसत्तम ॥ ५२ ॥ अथ रक्षांसि भीमानि महान्ति बलवन्ति च ॥ कथंचित्सांपराये त्वां जयेयुः कपिसत्तम ॥ ५३ ॥ अथवा युध्यमानस्य पतेयं विमुखस्य ते ॥ पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः ।। ५४ ॥ मां षा हरेथुस्त्वद्धस्ताद्विशसेयुरथापि वा || अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ ॥ ५५ ॥ अहं वाऽपि विपद्येयं रक्षोभिरभितर्जिता || त्वत्प्रयत्नो हरिश्रेष्ठ भवेन्निष्फल एव तु ॥ ५५ ॥ कामं त्वमसि पर्याप्तो निहन्तुं सर्वराक्षसान् || राघवस्य यशो हीयेचया शस्तैस्तु राक्षसैः ॥ ५७ ॥ अथवाऽऽदाय रक्षांसि न्यसेयुः संवृते हि माम् || यत्र ते नाभिजानीयुर्हरयो नापि रौघवो ॥ औरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः ॥ ५८ ॥ वृक्षमूलगतो बभूवेत्यर्थः ॥ ३७–३९ || अवस्थाप्यतां | रक्ष्यायां त्वयि विपत्संदेहः स्यादित्यर्थः ॥ ४८ ॥ निश्चलीक्रियतां । विकाङ्क्षया उपेक्षया ॥ ४०-४३ ॥ एतदेव प्रपञ्चयति - हियमाणामित्यादिना ॥ ४९ ॥ र्यावरण || ४४ || स्वप्रापणे प्रधानं त्वं तैः परिवृतो भवेः । कलत्रवान् रक्ष्यवान् । त्वं दोषं हृदि कृत्वा आपाततो दोषमाह - अयुक्तमिति |संशयं प्राप्तश्च भवेरिति योजना ॥ ५० ॥ संयातुं ॥ ४५ ॥ उपर्युपरि सागरमिति | “ उपर्यध्यधस- स्सामीप्ये " इति द्विवचनं । 'धिगुपर्यादिषु' इति सम्यग्योद्धुं ॥ ५१ ॥ पूर्वश्लोकोक्तं समर्थयति- द्वितीया || ४६ ॥ यादसां जलजन्तूनां ॥ ४७ ॥ युध्यमानस्येत्यादिना ॥ ५२ ॥ सांपराये युद्धे ॥ ५३॥ कलत्रपति रक्ष्यवति त्वयि संदेह: स्यात् । मयि विमुखस्य युद्धपरवशस्येत्यर्थः ॥५४-५७॥ संवृते गूढ- ऽन्यत्रापसृतवानित्यर्थः ॥ ३६॥ ति० कलत्रवति स्त्रियासहगन्तरि | संदेहः राक्षसानामितिशेषः । स० कलत्रवति मद्रूपकल [ पां० ] १ क. - ट. दृष्ट्वाचलसंकाशं. २ ङ. - झ. ट. गतिश्चापि. ३ ङ. झ. सिद्धिरिवात्मनः क. च. छ. ञ. सिद्धि- रिहात्मनः० ४ ग. ङ. —ट. मयागन्तुं. ५ ग. ङ. -ट, त्वयासह. ६ क. ग. ङ. – ट, मासक्ता. ७ ङ. —ट. द्भूयोवेगेन. ८ च. छ. ज. नाहंशक्ष्ये. ९ क. संयोद्धुं. १० क. ग. ङ. च. छ. झ. ज. ट. रक्षोभिस्ततस्तैः घ. रक्षोभिस्समस्तैः ११ ग च॰ छ. नयेयुः, १२ क॰. ख. ग. ङ. -ट. राघवः १३ क. प्रयत्नस्तुमदर्थाय.