पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

इति संजल्पमानां तां रामार्थे शोककर्शिताम् || अश्रुसंपूर्णनयनामुवाच वचनं कपिः ॥ १९ ॥ कृत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः ॥ चमूं प्रकर्षन्महतीं हयृक्षगणसंकुलाम् ॥ २० ॥ अथवा मोचयिष्यामि त्वामद्यैव वैरानने || असादु : खादुपारोह मम पृष्ठमनिन्दिते ॥ २१ ॥ त्वां तु पृष्ठगतां कृत्वा संतरिष्यामि सागरम् ॥ शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् ||२२|| अहं प्रस्रवणस्थाय राघवायाद्य मैथिलि ॥ प्रापयिष्यामि शक्राय हॅव्यं हुतमिवानलः ॥ २३ ॥ : द्रक्ष्यस्यद्यैव वैदेहि राघवं सहलक्ष्मणम् || व्यवसायसमायुक्तं विष्णुं दैत्यवधे यथा ॥ २४ ॥ त्वदर्शनकृतोत्साहमाश्रमस्थं महाबलम् || पुरन्दरमिवासीनं नाकराजस्य सूर्धनि ॥ २५ ॥ पृष्ठमारोह मे देवि मा विकास शोभने || योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी ॥ २६ ॥ कथयँन्तीव चन्द्रेण सूर्येण च महार्चिषा ॥ मत्पृष्ठमधिरुह्य त्वं तैराकाशमहार्णवौ ॥ २७ ॥ न हि मे संप्रयातस्य त्वामितो नयतोङ्गने || अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः ॥ २८ ॥ यथैवाहमिह प्राप्तस्तथैवाहमँसंशयः || यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम् ॥ २९ ॥ मैथिली तु हरिश्रेष्ठाच्छ्रुत्वा वचनमद्भुतम् || हेर्षविस्मित सर्वाङ्गी हनुमन्तमथाब्रवीत् ॥ ३० ॥ हनुमन्दूरमध्वानं कथं माँ वोदुमिच्छसि ॥ तदेव खलु ते मन्ये कपित्वं हरियूथप ॥ ३१ ॥ कथं वाऽल्पशरीरस्त्वं मामितो नेतुमिच्छसि | सकाशं मानवेन्द्रस्य भर्तुर्मे लवगर्षभ ॥ ३२ ॥ सीताया वचनं श्रुत्वा हनुमान्मारुतात्मजः || चिन्तयामास लक्ष्मीवान्नवं परिभवं कृतम् ॥ ३३ ॥ न मे जानाति सत्त्वं वा प्रभाव वासितेक्षणा ॥ तस्मात्पश्यतु वैदेही यद्रूपं मम कामतः ॥ ३४ ॥ इति संचिन्त्य हनुमांस्तदा प्लवगसत्तमः || दर्शयामास वैदेह्या: स्वरूपमरिमर्दनः ॥ ३५ ॥ स तस्मात्पादपाद्धीमानाप्लुत्य प्लवर्षभः ॥ ततो वर्धितुमारेभे सीताप्रत्ययकारणात् ॥ ३६॥ मेरुमन्दरसंकाशो बभौ दीप्तानलप्रभः ॥ अग्रतो व्यवतस्थे च सीताया वानरोत्तमः ॥ ३७ ॥ २४ ॥ नाकराजस्य मूर्धनि । नाकपृष्ठसंज्ञस्य | इति पाठ: । अन्यथा पाठे वक्ष्यमाणेन विरोधः स्यात् मूर्धनि । नगराजस्येति पाठे मेरोरित्यर्थः ॥ २५ ॥ ॥ ३४ ॥ स्वरूपं स्वस्थ शरीरं ॥ ३५ ॥ एतदेवाह- मा विकाङ्क्षस्व मोपेक्षिष्ठाः ॥ २६ ॥ चन्द्रेण कथय- न्तीव चन्द्रेण भाषमाणेव तरेत्यन्वयः ॥ २७ – २९॥ | स तस्मादिति ॥ अयं लोको वर्धनार्थ वृक्षादवरोहणं हर्षबिस्मितसर्वाङ्गी हर्षेण पुलकितसर्वाङ्गी ॥ ३० दर्शयति स्म । अनेन सोवतीर्य द्रुमादिति पूर्व दुमा- – ३३ ॥ न मे जानाति सत्त्वं वा प्रभावं वासिते- ग्रात्सीतासमीपस्थशाखायामवतरणमुक्तं । अत्र भूमा- क्षणा । तस्मात्पश्यतु वैदेही यद्रूपं मम कामतः ॥ विति बोध्यं ॥ ३६ || अप्रतोव्यवतस्थे । संभाषणाय ति० नगराजस्य श्रेष्ठस्य प्रस्रवणगिरेरित्यर्थः ॥२५॥ ति० कथयन्तीव संगतव्योरामइतिवचनंकथयन्तीव | शशिनारोहिणीवसंग• मिष्यसीत्यन्वयः । एतद्वचनसमकालमेवरामसमीपंप्रापयिष्यामीत्यर्थः । यथातद्वचने नप्रयासः एवमनाया सेनत्वांनयामीत्यर्थोवा । स० त्वत्पृष्ठारोहणेकिंफलमित्यतआह - कथयन्तीति । वमत्पृष्ठारोहिणीति रोहिणी अतिसुखात्मकत्वाच्छशीरामः । यद्वा शशी. रामः‘नक्षत्राणामहंशशी’इतिश्रीभगवदुक्तेः । कथयन्तीवसंगमिष्यसि । रामेणसंगतव्यमित्यालापनसमय एवसंगमिष्यसि । अनेना- तिवराद्योयते ॥ २७ ॥ ती० पादपात् पादपमूलात् । आहुत्य शरीरवर्धन वेगकृतशाखाभङ्गध्वनिनाराक्षस्योज्ञास्यन्तीतिमखा [ पा० ] १ ग. - ट. संपूर्णवदनां. २ ङ. झ ट . श्रुत्वैवच. क. घ. च. छ. ज. ञ. श्रुत्वैवतु. ३ ङ. च. छ. झ ञ ट सराक्षसात्. क. ख. हिराक्षसात्. घ. ज. सरावणात ४ घ. हुतंहव्यं. ५ क. क्षिप्रंद्रक्ष्यसि ६ ख. ग. ङ. च. छ. झ. अ. ट. नगराजस्य. ७ क. ग. घ. च. छ. ज. अ. ट. पौलोमीवमहेन्द्रेणसूर्येणेवसुवर्चला. ङ. झ. कथयन्तीवशशिनासंग मिष्यसिरो- हिणी. ८ ङ.—ट. मधिरोहत्वं. ९ ग. घ. ङ. झ. ट. तराकाशंमहार्णवं. १० ग. ङ. – ट. मसंशयं. ११ ख. घ. विहायसा १२ घ. सासीतास्मितपूर्वेहि. १३ ङ. झ ट मानेतुं. १४ घ ङ. झ. ट. सीतायास्तुवचः १५ क. काहृतः वा. रा. १६६