सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । सप्तत्रिंशः सर्गः ॥ ३७ ॥ स्ववियोग हेतुकरामशोकातिरेक श्रवणखिन्नयासीतया सत्वरंरामसमानयनंचोदितेनहनुमता सीताशोकासहने नताप्रति तस्याः स्वपृष्ठारोपणेनरामसमीपप्रापणोक्तिः ॥ १ ॥ सीतया हनुमतोऽणुरूपतया स्वप्रापणासंभावनाशङ्कयोपहासे हनुमतां तस्याः प्रत्ययजननाय मेरुतुल्य परिमाणकपृथुतरशरीग्परिग्रहणम् ॥ २ ॥ सीतयातंप्रति बहुहेतूपन्यासेनतेनसहगमनस्यानौ- चित्यप्रतिपादन पूर्वकं सत्वरंरामस्यैवसमानयनचोदना ॥ ३ ॥ १३६ [ सुन्दरकाण्डम् ५ 11 सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना || हनूमन्तमुवाचेदं धर्मार्थसहितं वचः || अमृतं विषैसंसृष्टं त्वया वानर भाषितम् || यच नान्यमना रामो यच्च शोकपरायणः ॥ २ ॥ ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे || रज्वेव पुरुष वा कृतान्तः परिकर्षति ॥ ३ ॥ विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तम ॥ सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् ॥ ४ ॥ शोकॅस्यास्य केंदा पारं राघवोऽधिगमिष्यति ॥ लवमान: पेरिश्रान्तो हतनौः सागरे यथा ॥ ५ ॥ राक्षसानां बँधं कृत्वा सूदयित्वा च रावणम् ॥ लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः॥६॥ स वाच्यः संत्वरखेति यावदेव न पूर्यते ॥ अयं संवत्सरः कालस्तावद्धि मम जीवितम् ॥ ७ ॥ वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम || रावणेन नृशंसेन समयो यः कृतो मम ॥ ८ ॥ विभीषणेन च भ्रात्रा मम निर्यातनं प्रति ॥ अनुनीतः प्रयत्नेन न च तत्कुरुते मंतिम् ॥ ९ ॥ मम प्रतिप्रदानं हि रावणस्य न रोचते || रावणं मार्गते सङ्ख्ये मृत्युः कालवशं गतम् ॥ १० ॥ ज्येष्ठा कन्याऽनला नाम विभीषणसुता कपे ॥ तया मैंमेदमाख्यातं मांत्रा प्रहितया स्वयम् ॥ ११ ॥ [ ॲविन्ध्यो नाम मेधावी विद्वान्राक्षसपुङ्गवः | युतिमाञ्शीलवान्वृद्धो रावणस्य सुसंमतः ॥ रामक्षयमनुप्राप्तं रक्षसां प्रत्यचोदयत् ॥ न च तस्य स दुष्टात्मा शृणोति वचनं हितम् ॥ १३ ॥ ] असंशयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः ॥ अन्तरात्मा हि में शुद्धस्तसिंश्च बहवो गुणाः ||१४|| उत्साह: पौरुषं सत्त्वमानृशंसं कृतज्ञता || विक्रमच प्रभावश्च सन्ति वानर राघवे ॥ १५ ॥ चतुर्दश सहस्राणि राक्षसानां जघान यः ॥ जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् ॥१६॥ न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः ॥ अहं त प्रभावज्ञा शक्रस्येव पुलोमजा ॥ १७ ॥ शरजालांशुमाञ्छ्ररः कपे रामदिवाकरः || शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति ॥ १८ ॥ ॥ यच्च नान्यमना इत्यमृतत्वे हेतुः । यच्छोकपरायण | प्रत्यर्पणं ॥ ९ - १४ || लोकोत्तरेषु कार्येषु स्थेयान् इति विषसंसृष्टत्वे ॥ २ ॥ रामवियोगो न स्वबुद्धि- प्रयत्न उत्साहः । पौरुषं तादृक्कार्यकरणं । सत्त्वं कृंत इत्याह — ऐश्वर्य इति ॥ कृतान्तः दैवं ॥ ३ ॥ बलं | आनृशंस्यं अक्रूरत्वं । कृतज्ञता उपका- विधिः दैवं । असंहार्यः अनिवार्यः ॥ ४–७ ॥ रज्ञत्वं । विक्रमः शौर्य । प्रभावः शक्तिः दशमोमासः दशममासान्तः ॥ ८ ॥ निर्यातनं ॥ १५ - १६ ॥ तुलयितुं चालयितुं ॥ १७- शि० ऐश्वर्येव्यसनेवाविद्यमानंपुरुषं रज्ज्वाबदेवकृतान्तःकालः परिकर्षति । एतेन रावण विध्वंसोऽवश्यंभवितेतिसूचितं ॥ ३ ॥ ति० कन्या अजातपुरुषसंबन्धा । एतत् विभीषणानुनयनं | इदमेवा रामश्रुतं विभीषणस्यनिश्शङ्कपरिग्रहाभिषेकयोबजं ॥११॥ ति०व्यसनैः व्यसनदातृभीराक्षसैः । तुलयितुं उपमितुं । तस्यतत्वंचममप्रत्यक्षमेवेत्याह — अहंतस्येति । तद्रूपत्वादितिगूढं ॥१७॥ [ पा० ] १ क. ग. ङ. च. छ. झ ञ ट सासीतावचनं. घ. सीताचवचनं २ ङ. च. छ. झ. अ. ट. विषसंपृक्तं. ख. घ. विषसंस्पृष्टं. ३ च. छ. ञ. शोकस्यच. ४ ङ. झ. ट. कथं. ५ ङ. च. छ. झ ञ ट परिक्रान्तो. ६ क - घ. क्षयं. ७ ङ. झ. ट. मुन्मथितां. ८ घ. मनः ९ ङ. झ ञ कन्याकला. १० झ. ममैतदाख्यातं. ११ च. छ. ट. मात्राऽभिहितया १२ इदंश्लोकद्वयं डट. पाठेषुदृश्यते. १३ क. घ. झ. ट. आशंसेयं. १४ ग. ङ. च. छ. झ ञ ट तस्यानुभावज्ञा.