पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३५ सर्गः ३६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । न मांस राघवो भुङ्गे नै चापि मधु सेवते ॥ वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् ॥ ४१ ॥ नैव दंशान मशकान कीटान्न सरीसृपान् || राघवोपनयेद्भात्रात्त्वद्भतेनान्तरात्मना ॥ ४२ ॥ नित्यं ध्यानपरो रामो नित्यं शोकपरायणः ॥ नान्यच्चिन्तयते किंचित्स तु कामवशं गतः ॥४३॥ अनिद्रः सततं रामः सुप्तोपि च नरोत्तमः || सीतेति मधुरां वाणीं व्याहरन्प्रतिबुध्यते ॥ ४४ ॥ दृष्ट्वा फलं वा पुष्पं वा यैद्वाऽन्यत्सुमनोहरम् || बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते ॥ ४५ ॥ .स देवि नित्यं परितप्यमानस्त्वामेव सीतेत्यभिभाषमाणः ॥ दृढवतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः ॥ ४६ ॥ सा रामसंकीर्तनवीतशोका रामस्य शोकेन समानशोका || शरन्मुखे साम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव ॥ ४७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षट्त्रिंशः सर्गः ॥ ३६॥ । इन्द्रस्यासाधारणस्वर्गस्थानविशेषः ॥ ४० ॥ न मांस- | र्थानुसंधानाभाव उच्यते । नरोत्तमः अभिमतविश्लेषे मिति “दृङ्मनःसङ्गसङ्कल्पजागराः कृशताऽरतिः । तथावस्थानमेव हि पुरुषोत्तमत्वस्य लक्षणमिति हीत्यागोन्मादमूर्च्छान्ता इत्यनङ्गदशा दश " इति भावः । सीतेति अप्राकृतसौन्दर्याद्यनुसंधानेन वास- दशावस्थास्वरतिरनेनोच्यते । मांसाद्यभोजनं अरत्या नावशाद्विलपति । मधुरां वाणीं । वासनावशाद्विल ततः पूर्वं तद्भोजनोक्तेः । वन्यं वने भवं कन्दमूलादिकं । पत्यपिशब्दस्वभावाद्रसनाजलस्यन्दिनी भवतीत्यर्थः । सुविहितं वानप्रस्थयोग्यत्वेन विहितं । भक्तं अन्नं । प्रतिबुध्यते क्लेशहीनदशाविगमात्पुनरपि बाधकोद्दीप- पध्चमं प्रातःसङ्गवमध्याह्नापराहसायंरूपेषु कालेषु नसंदर्शनेन बाधाईः स्थित इत्यर्थः ॥ ४४–४६॥ पचमकालिकं शरीरधारणमात्रोपयुक्तं भुङ्ग इत्यर्थः रामसद्भावातिशङ्कया कश्चिच्छोकः सीतायाः रामवि- ॥ ४१ ॥ अथ मनःसङ्गावस्थामाह - नैवेति ॥ रहेण कश्चिच्छोकः । तत्राद्यो हनुमदुत्त्या निवृत्तः दंशास्तु वनमक्षिका : तान् | मशकांश्चेत्यनेन दंशम- द्वितीयस्तु वर्तत इत्याह – रामस्य शोकेन समानशोका शकापरिज्ञानमुक्तं । कीटसरीसृपोक्त्या उपरिशरीरं तद्विरहकृतत्वेन तत्तुल्यशोका । अधिकशोकस्तु निवृत्त चरतामनिवृत्तिरुच्यते । तत्र हेतु: त्वद्गतेनान्तरा- इति भावः । यद्वा रामसंकीर्तनेन वीतशोकापि नैव त्मना । परकायप्रविष्टस्य कथं त्यक्तशरीरविकृतिज्ञानं | दंशान्न मशकानित्यादिश्रवणेन रामतुल्यशोका प्रका- तत्र स्थितः खलु तत्रत्यपीडां ज्ञास्यतीति भावः शाप्रकाशशरन्मुख निशेवाभूदित्यर्थः ॥ ४७ ॥ इति ॥ ४२–४३ ।। तथास्य जागरावस्थामाह - अनिद्र श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गा- इति ॥ अनिद्रः सततं रामः निद्रया सर्वदा कालक्षे- रतिलकाख्याने सुन्दरकाण्डव्याख्याने षट्त्रिंशः पार्होपि संततमनिद्रोभूत् | सुप्तोपिचेत्यनेन परगता- | सर्गः ॥ ३६ ॥ ती० भक्तं अन्नं पञ्चमं पञ्चानामन्नानांपूरणं । वानप्रस्थाहिमूलफलादिकंपञ्चधाक्कृत्यादेवपित्रतिथिभूतेभ्यस्तद्भागान्दत्वा पञ्चमं स्वयंभुञ्जते । यद्वा षोडशारण्यवासिनइत्युक्तवानप्रस्थभोज्यस्यपञ्चमांशंभुङ्क्ते । अनेनरामस्याल्पाहारतोक्ता || ति० पञ्चमं कालं प्राप्येतिशेषः । यद्वा प्रातस्सायंसायंप्रातरितिकालचतुष्टयंत्यक्त्वा पञ्चमेप्रातः कालइत्यर्थः । दिनद्वयमतीत्यभुङ्गइत्यर्थः । शि० मांसं सुप्रीवसंसर्गेणवनेपि प्राप्तराज्यभोगं । नभुङ्गे नकरोति । वन्यं फलादिरूपंअन्नं पञ्चमं पूर्वभोज्यापेक्षयापञ्चमं ॥ ४१ ॥ ति० स्त्रीमनोहरं स्त्रीसंनिधानेमनोहरं । स्त्रीणांमनोहरंवा | श्वसन् दीर्घोच्छ्छ्रासंत्यजन् ॥ ४५ ॥ ती० नमांसंराघवोभुङ्गेइत्युक्तशो- केनहेतुना समानशोका ॥ ति० नमांसंराघवो भुङ्गेइत्युक्तेनरामशोकेन समानशोका । शरत् लुप्तषष्टीकं । शरदोनिशेव प्रकाशा- प्रकाशयुक्तशरन्निशे व हर्षशोकवतीबभूव ॥ ४७ ॥ इतिष त्रिंशः सर्गः ॥ ३६॥ [ पा० ] १ ङ. ज. झ. ट. नचैव. २ ख. देविसतु. ३ क. रात्रौ. ४ क. ग. घ. ङ. ज. झ. ट. यच्चान्यत्स्त्रीमनोहरं. च. छ. ञ. यद्वान्यत्स्त्रीमनोहरं. ५ क. शोचंस्त्वां ट. स्मरंस्त्वां ६ क. ङ. झ ट धृतव्रतो. ७ ङ. झ. शरन्मुखेनांबुद. च. छ. ञ. शरन्मुखेसाबुदचन्द्रशेवा.