पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३६ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । १३३ कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते || कच्चित्कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः ॥ १८ ॥ कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः || कच्चित्पुरुषकारं च दैवं च प्रतिपद्यते ॥ १९ ॥ कच्चिन्न विगतस्नेहः प्रसादान्मयि राघवः ॥ कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानर || २० || सुखानामुचितो नित्यमसुखानामनूचितः ॥ दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति ॥ २१ ॥ कौसल्यायास्तथा कञ्चित्सुमित्रायास्तथैव च ॥ अभीक्ष्णं श्रूयते कञ्चित्कुशलं भरतस्य च ॥ २२ ॥ मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः ॥ कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति ||२३|| कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः ॥ ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते ॥ २४ ॥ वानराधिपतिः श्रीमान्सुग्रीवः कच्चिदेष्यति ॥ मत्कृते हरिभिरैर्वृतो दन्तनखायुधैः ॥ २५ ॥ कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः || अस्त्रविच्छरजालेन राक्षसान्विधमिष्यति ॥ २६ ॥ रौद्रेण कच्चिदत्रेण ज्वलता निहतं रणे | द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम् ॥ २७ ॥ कञ्चिन्न तद्वेमसमानवर्ण तस्याननं पद्मसमानगन्धि | मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन ॥ २८ ॥ धमोपदेशात्र्यैजतश्च राज्यं मां चाप्यरण्यं नयतः पैदातिम् || नासीद्व्यथा यस्य न भीर्न शोकः कच्चिच्च धैर्य हृदये करोति ॥ २९ ॥ न चास्य माता न पिता चं नान्यः स्नेहाद्विशिष्टोस्ति मया समो वा ॥ तावत्वहं दूत जिजीविषेयं यावत्प्रवृत्तिं शृणुयां प्रियस्य ॥ ३० ॥ विजिगीषुस्सन् त्रिविधोपायं दानभेददण्डान् । सेवते | धर्मोद्देशार्थ | धर्ममुद्दिश्येत्यर्थः । यद्वा धर्मव्याजाद्धे- प्रयुते कञ्चित् । सुहृत्सु कदाचिदपि भेददण्डौ न तोः । राज्यत्यागाद्व्यथा नासीत् । अरण्यसञ्चाराद्भी- कार्यौ । शत्रुषु नसामेति भावः | योजनान्तरे विजि• र्नासीत् । मत्पादसञ्चाराच्छोको नासीत् । सः गीषुसुहृत्पदयोः प्रयोजनं मृग्यं ॥ १७ ॥ अभिगम्यते तादृशधैर्ययुक्तो रामो मद्विश्लेषेपि हृदये धैर्यं करोति लभ्यते । मित्रस्य कंचिदुपकारं कृत्वा स्वयमुपकारं कच्चित् ॥ २९ ॥ धैर्याकरणे हेतुमाह - न चास्येति ॥ मित्रादपेक्षते कच्चिदित्यर्थः । कल्याणमित्र: पुरस्कृत- प्रवृत्तिं मदानयनवार्ती । प्रणयरोषपक्षे किमेष पितृव- मित्र इत्यर्थः ॥ १८ ॥ आशास्ति आशास्ते । पुरुष- चनपरिपालनाय वनं प्राप्तः न । किन्तु ममैव हिंसायै कारं स्वबलं । एकैकस्यानर्थहेतुत्वादिति भावः इति भावः । रामस्यैव दोषः न ममेति सीतयोक्ते वय ।। १९-२० ॥ अनूचित इति दीर्घ आर्षः । उत्तरं मेव किं सम्यक् स्थितवन्तः रामविश्लेषानन्तरक्षणे उत्कृष्टं ।। २१–२२ ।। मन्निमित्तेन मया हेतुना । न तनुस्त्यक्ता हीत्येवं हनुमदाशयं ज्ञात्वाह - नचा- अन्यमनाः कार्यान्तरासक्तः ॥ २३ ॥ ध्वजिनीं सेनां स्थेति || रामस्य मात्रादयः अन्योबन्धुश्च स्नेहाद्विशिष्टा ॥ २४–२७ ॥ हेमशब्देन तद्वर्ण उच्यते । अभेदेन न भवन्ति । लोके कस्यचिन्माता पिता भ्रातेत्येवं हेमवत्स्पृहणीयमित्यर्थः । मया विनेति जलक्षयस्थानं । स्नेहो विसृत्वरो भवति । नचैवं रामस्य मात्रादिषु शोकदीनमित्यातपस्थानं ॥ २८ ॥ धर्मापदेशात् | संभावितः । सर्वोपि मय्येकमार्गः कृतः । यावत्प्र- साधनसाध्यकोटौनिवेशोनसमञ्जसइतित्रयाणांग्रहणं ॥ सुहृदिति मित्रपक्षे | इतरत्रविजिगीषुरिति ॥ १७ ॥ स० लभते स्वयं प्राप्नोति । कल्याण मित्रः कल्याणंगूढद्वेषर हितं मित्रंयस्यसतथा । मित्रैः स्वोपद्रवपरिहाराय चापीति धानुष्कचूडामणिरितिपुरस्कृतः ॥ १८ ॥ रामानु० अनुचितएवानौचितः । 'प्रज्ञादिभ्यश्च' इतिखार्थेऽप्रत्ययः । उत्तरं उत्कृष्टं ॥ स० अनूचितः अनुचितः । यद्वा अनुहीनं उचितं उचितवं | भावप्रधानोनिर्देशः । यस्येति । 'अनुहीने ' इतिविश्वः ॥ २१ ॥ स० कुशलं क्षेमवार्ता | कैकेय्याभरतसां- निध्यादप्रश्नः ॥ २२ ॥ स० अन्यमनाःत्र्यन्तरविवाहासक्तचित्तः ॥ २३ ॥ स० प्रवृत्ति पुनर्वार्ता ॥ ३० ॥ । [ पा० ] १ क. – ट. विवासान्मयि २ ग. ङ. – ट. राघवः ३ च. छ. मनौचितः ४ क. ख. ग. ङ. – ट. रामेण. ५ इ. झ. ट. त्यजतस्वराज्यं. ६ छ. झ ञ ट पदाते, ७ क. ग. ङ च छ. झ ञ ट नचान्य: ८ तावद्ध्यहं.