१३२ श्रीमद्वाल्मीकि रामायणम् । [ सुन्दरकाण्डम् ५ विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम || येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ॥ ७ ॥ शतयोजन विस्तीर्णः सागरो मकरालयः || विक्रम श्लाघनीयेन क्रमता गोष्पदीकृतः ॥ ८ ॥ न हि त्वां प्राकृतं मन्ये वानरं वानरर्षभ || यस्य ते नास्ति संत्रासो रावणान्नापि संभ्रमः ॥ ९ ॥ अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् || यद्यपि प्रेषितस्तेन रामेण विदितात्मना ॥ १० ॥ प्रेषयिष्यति दुर्धर्षो रामो न ह्यपरीक्षितम् || पराक्रममविज्ञाय मत्सकाशं विशेषतः ॥ ११ ॥ दिष्ट्या च कुशली रामो धर्मात्मा सत्यसङ्गरः ॥ लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ॥ १२॥ कुशली यदि काकुत्स्थः किंनु सागरमेखलाम् ॥ महीं दहति कोपेन युगान्ताग्निरिवोत्थितः ||१३|| अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे || ममैव तु न दुःखानामस्ति मन्ये विपर्ययः । १४ ।। कञ्चिन्न व्यँथितो रामः कञ्चिन्न परितप्यते || उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः ॥ १५ ॥ कच्चिन्न दीनः संभ्रान्तः कार्येषु च न मुह्यति ॥ कच्चित्पुरुषकार्याणि कुरुते नृपतेः सुतः ॥ १६ ॥ द्विविधं त्रिविधोपायमुपायमपि सेवते ॥ विजिगीषुः सुहृत्कञ्चिन्मित्रेषु च परन्तपः ॥ १७ ॥ ॥ ६ ॥ विक्रान्तइत्यादिपदत्रयेण तव्यत्क्रमेण ज्ञानश यद्वा स्वपत्नीं वा सुरक्षितपरिधानाङ्करोतीति भावः । क्तिबलान्युच्यन्ते । इदं राक्षसपदमिति प्रज्ञोक्ता । अनादिकृतमर्यादा मही कथं दग्धुं शक्येत्यत्राह- त्वयैकेनेति सामर्थ्य । प्रधर्षितमिति विक्रमः ॥ ७-- युगान्तेति । मही मर्यादा तन्नयनरागपर्यन्तैवेति भावः । ८ ॥ प्राकृतं क्षुद्रं | संभ्रमः व्यग्रता ॥ ९ ॥ यद्यपी- किं न सागरमेखलामित्यपि पाठः । काकुत्स्थ: कुशली तिनिपातसमुदायो यस्मादित्यर्थे । अव्ययानामनेका- यदि तदा महीं किं न दहति । शक्तश्चेद्दहत्येव । न दहति र्थत्वात् ।। १० - १२ ।। अथ प्रणयरोषेण दूतसन्निधौ | अतो नशक्त इत्यर्थः ॥ १३ ॥ पक्षान्तरमाह-अथवेति रामं गर्हते – कुशलीति || काकुत्स्थ: परपरिभवास- | ॥ १४ ॥ न व्यथितः न कृशः । उत्तराणि कार्याणि हक्कुलेजातः । अनेन परपरिभव एव परिहरणीयः न स्वीय इति नियमोस्ति किं । किंनु सागरमेखलां महीं दहति । अत्र काकुत्स्थ: दहति किंनु न दहती- त्यर्थः । सागरमेखलामिति विशेषणेन द्रवद्रव्यस्यैकेन कठिनद्रव्यस्यचैकेन बाणेन भवितव्यं किं । सागरं सलिलमेव तैलं कृत्वा महीं दग्धुं समर्थो न किमित्यर्थः । मत्प्राप्तिसाधकानि कञ्चित्कुरुते ॥ १५ ॥ न दीनः कञ्चित्संभ्रान्तः सन् कार्येषु न मुह्यति कञ्चिदित्यन्वयः । पुरुषकार्याणि पुरुषेण कर्तव्यानि ॥ १६ ॥ तान्येवाह – द्विविधमिति ॥ परन्तपो रामः मित्रेषु विषये सुहृत्सन् द्विविधं सामदानरूपमुपायमपि । सेवते कञ्चित् । चकारेणामित्रास्समुच्चीयन्ते । अमित्रेषु विषये मवावा ॥ ६ ॥ ति० विक्रान्तः शूरः | समर्थः देशकालोचितकृत्यचतुरः । प्राज्ञः धर्मार्थविषयक सर्वशास्त्रार्थतत्वज्ञः । पदं स्थानं ॥ ७ ॥ ति० संत्रासः समुद्रादितिशेषः । स० प्राकृतं साधारणं । यतः मेइतिशेषः । यतः मेसंभ्रमः भयं । तस्माद्रावणादपिनसं- त्रासः ॥ ९ ॥ ति० यदि यस्मात् ॥ ती० यद्यपीत्यवधारणे | मयासमभिभाषितुंअर्हसेयद्यपि अर्हस्येवेत्यर्थः । कुतः विदिता- तमनारामेण प्रेषितइतिसंबन्धः ॥ यद्वा अप्यवधारणे । यदि यस्मात् । विदितात्मनारामेणप्रेषितः । तस्मान्मयासमभिभाषितुं अर्हस्यवेतिसंबन्धः ॥ १० ॥ शि० कोपेन रावणापराधज्ञानजनितक्रोधेन | महीं लङ्काभूमिं । किंनुदहति ॥ १३ ॥ ति० ननु- केवलंम हीमेवे ति कि मुच्य ते इत्याशयेनपक्षान्तरं – अथवेति । तथाशक्तिमन्तौयदि तर्हिकिमितितूष्णींतिष्ठतः तत्राह - ममैवेति । दुःखानां दुःखहेतुपापानां । विपर्ययः नाशः | नाद्यापिसंवृत्तइत्यर्थः ॥ १४ ॥ ति० ममदुःखक्षयः ईषत्करः अपितु तस्यसुखाव- स्थानमेत्रमृग्यमित्याशयेताह - कञ्चिदिति । उत्तराणिकार्याणि मद्विमोचनफलानि ॥१५॥ ति० द्विविधं सौम्यासौम्यरूपप्रका• रद्वयवत् ॥ त्रिविधोपायं धर्मार्थकामलक्षणत्रिविधपुरुषार्थानां प्राप्युपायभूतमुपायं सामायुपायमपिसेवतेकञ्चित् । तथा मित्रेषुच विजिगीषुसुहृत्कञ्चित् । विजिगीषुसुहृदिति बहुव्रीहिस्तत्पुरुषश्चेतिकतकः । सुहृत्परंतपोरामोविजिगीषुःसन् त्रिविधोपायं सामदानभे- दरूपमुपायंदण्डोपायंच | मित्रेषुच चादमित्रेषुच द्विविधंयथाभवतितथा सेवतेकच्चित् | मित्रेषुसामदाने अमित्रेषुमेददण्डौ चेत्येव विभज्यप्रयुतेकञ्चिदित्यर्थ इतितीर्थः ॥ स० त्रिविधोपायं धर्मार्थकामसाधनरूपं | तज्ज्ञानरूपासाधारणकारणकस्य मोक्षस्यसाधारण+ [ पा० ] १ क. ग. ङ. - ट. रावणादपि. २ क. ङ. झ. ट. यद्यसि. च. छ. ज. ज. यदसि. ३ क. ग. च. ज. झ ञ. दिष्ट्यास ४ क. धर्मवत्सलः, ख, ग, ञ, सत्यवत्सलः ५ क. -ट, व्यथते. ६झ विजिगीषुसुहृत्क चित्. ७ झ. परंतप
पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१३६
दिखावट