पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० श्रीमद्वाल्मीकि रामायणम् । [ सुन्दरकाण्डम् ५ तथाऽहं हेरिसैन्यस्य सागरं प्रेक्ष्य सीतः ॥ व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः ॥ ७० ॥ लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला || रावणश्च मया दृष्टस्त्वं च शोकॅपरिप्लुता ॥ ७१ ।। एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दिते || अभिभाषख मां देवि दूतो दाशरथेरहम् ॥ ७२ ॥ तं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम् || सुग्रीवसचिवं देवि बुध्यस्ख पवनात्मजम् ॥ ७३ ॥ कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः ॥ गुरोराराधने युक्तो लक्ष्मणच सुलक्षणः ॥ ७४ ॥ तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः | अहमेकस्तु संप्राप्तः सुग्रीववचनादिह ॥ ७५ ॥ मयेयमसहायेन चरता कामरूपिणा | दक्षिणा दिगनुकान्ता त्वन्मार्गविचयैषिणा ।। ७६ ॥ दिष्ट्याऽहं हरिसैन्यानां त्वन्नाशमनुशोचताम् || अपनेष्यामि संतापं तैवाभिगमशंसनात् ॥ ७७ ॥ दिष्टया हि मम न व्यर्थ देवि सागरलङ्घनम् ॥ प्राप्स्याम्यहमिदं दिष्ट्या त्वदर्शनकृतं यशः ॥ ७८ ॥ राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते ॥ समि॒ित्रैवान्धवं हत्वा रावणं राक्षसाधिपम् ।। ७९ ।। मौल्यवान्नाम वैदेहि गिरीणामुत्तमो गिरिः ॥ ततो गच्छति गोकर्णं पर्वतं केसरी हरिः ॥ ८० ॥ स च देवर्षिभिर्दिष्टः पिता मम महाकपिः ॥ तीर्थे नदीपतेः पुण्ये शंबसादनमुरत् ॥ ८१ ॥ तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि || हनुमानिति विख्यातो लोके स्वेनैव कर्मणा ||८२ || विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः ॥ अँचिराद्राघवो देवि त्वामितो नयिताऽनघे ॥ ८३ ॥ एवं विश्वासिता सीता हेतुभिः शोककर्शिता || उपपन्नैरभिज्ञानैर्दूतं तैमवगच्छति ॥ ८४ ॥ अतुलं च गता हर्षे प्रहर्षेण च जानकी | नेत्राभ्यां वक्रपक्ष्मभ्यां मुमोचानन्दजं जलम् ॥ ८५ ॥ चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् || अशोभत विशालाक्ष्या राहुमुक्त इवोराट् ॥ ८६ हनुमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा || अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम् ॥ ८७ ॥ एतत्ते सर्वमाख्यातं समाश्वसिहि मैथिलि || किं करोमि कथं वा ते रोचते प्रतियाम्यहम् ॥ ८८ ॥ ॥ पान्तं । " वेलाम्बुधेस्तीरवृद्ध्योः कालमर्यादयोर इति दर्पः ।। ६९–७२ ।। रामकृतोद्योगं रामकृतो- त्साहं ।। ७३ ।। गुरोः ज्येष्ठस्य | आराधने शुश्रूषणे । सः गोकर्णं गतः । देवर्षिभिः तत्रयैः । दिष्टः नियु- क्तः । शंबसादनं तीर्थोपद्रवकारिणमसुरं शंबसाद - नाख्यं । उद्धरत् उदहरत् । देवर्षिप्रार्थनया अवधीदि- रतः लक्ष्मणश्च कुशली ॥ ७४–७५ || विचयैषिणा त्यर्थः ॥ ८१ ॥ हरिणः हरेः केसरिणः । क्षेत्रे पत्यां अन्वेषणेच्छुना ।। ७६ || तवाभिगमशंसनात् त्वत्स- मीपप्राप्तिकथनात् ।। ७७–७९ ॥ बुध्यस्व पवना अञ्जनायां । जातः पितुर्देशान्तरगमनकाले जातः । मजमिति पवनात्मजत्वमुक्तं तत्कथं वानरस्येत्यपेक्षा- अनेनान्यक्षेत्रे कथमन्येनोत्पादनमिति शङ्का पराकृता यामाह - माल्यवानिति ॥ गच्छति अगच्छत् ।।८०॥ || ८२ ॥ नयिता नेता ॥ ८३ || अवगच्छति अवा ति० कामरूपिणा । अनेनरावणान्तःपुराद्यन्वेषणसामर्थ्य सूचितं ॥ ७६ ॥ ति० सर्वमुत्तरं सर्वप्रत्युत्तरमाख्यातमित्यन्वयः ॥ किंकरोमीति । वर्तमानसामीप्येलटौ । प्रतियामि प्रतियास्ये रामसमीपं । किंकरोमि किंकरिष्ये । कथंवारोचते चिकीर्षितमि- तिशेषः ॥ ८८ ॥ "" [ पा० ] १ क. ङ. झ. ट. अथाहं. २ क. च. ज. ज. हरिसैन्यानां. ३ क. च. छ. ज. ज. सीदतां. ४ ग. व्यवधु- यचसर्वास्तानू ५ ग. च. छ. ट. शोकनिपीडिता ६ ङ. ट. लक्ष्मणः शुभलक्षणः ७ ङ. झ. तवाधिगमशासनात् ८ ङ. च. ज. शं. ट. नममव्यर्थे ९ घ. सागरस्यचलङ्घनं. ङ. ट. सागरस्येहलङ्घनं. १० ङ. झ.ट. देवि . ११ ङ. झ. सपुत्रबान्धवं. १२ ख. छ. ज. कौरवोनाम. क. कुञ्जरोनाम १३ ग. देवर्षिनिर्दिष्ट: १४ क. च. ज. झ ट मुद्धरन्. १५ ङ. झ. ट यस्याहं. १६ ङ. झ. ट. अचिरात्त्वामितोदेविराघवोनयिताध्रुवं. १७ ग. ङ. ज. ट. तमधिगच्छति. १८ ग. पयः. १९ च. छ. ज. ज. सातस्य वचनं श्रुत्वता शुक्लाय तेक्षणा. अशोभतविशालाक्षी. क. चारुतच्चाननं देव्याः पुण्डरीकाय तेक्षणं.