पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 $ सर्ग: ३५ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । १२५ रक्षिता जीवलोकस्य स्वैजनस्याभिरक्षिता || रक्षिता स्वस्थ वृत्तस्य धर्मस्य च परन्तपुः ॥ १० ॥ रामो भामिनि लोकॅस्य चातुर्वर्ण्यस्य रक्षिता || मर्यादानां च लोकस्य कर्ता कारयिता च सः ॥११॥ अर्चिष्मानर्चितोत्यर्थं ब्रह्मचर्यव्रते स्थितः ॥ साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम् ॥ १२ ॥ राजविद्याविनीतच ब्राह्मणानामुँपासिता || श्रुतवाञ्शीलसंपन्नो विनीतश्च परन्तपः ॥ १३ ॥ यजुर्वेदविनीतश्च वेर्दैविद्भिः सुपूजितः ॥ धनुर्वेदे च वेदेषु वेदाङ्गेषु च निष्ठितः ॥ १४ ॥ विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः ॥ गूढजत्रुः सुताम्राक्षो रोमो देवि जनै श्रुतः ॥ १५ ॥ दुन्दुभिखननिर्घोषः स्निग्धवर्णः प्रतापवान् || समः समविभक्ताङ्गो वर्ण श्यामं समाश्रितः ॥१६॥ त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः ॥ त्रिताम्रस्त्रिषु च स्त्रिग्धो गम्भीरस्त्रिषु नित्यशः ॥१७॥ त्रिवलीमांख्यवनत चतुर्व्यङ्गस्त्रिशीर्षवान् || चतुष्कलञ्चतुर्लेखश्चतुष्किकुतुस्समः ॥ १८ ॥ 66 - तेजसेत्यादिनां ॥ ९ – ११ ॥ ब्रह्मचर्यव्रते स्थितः | वचनात् । अन्यत्र तु । गृहस्थस्यास्य ब्रह्मचर्ये नाम ऋतोरन्यत्र स्त्रीसङ्गम- त्यागः । तदाह मनुः – “षोडशर्तुनिशाः स्त्रीणां तस्मिन्युग्मासु संविशेत् | ब्रह्मचार्येव पर्वाद्याश्चतस्रश्च विवर्जयेत् " ॥ प्रचारज्ञः प्रयोगज्ञः । ऐहिकामुष्मि- कानां कर्मणां । प्रचारं गतिं हेतुफलभावव्यवस्थां तत्त्वत्तो जानातीत्यर्थ इत्यप्याहुः ॥ १२ ॥ राजविद्याविनीतश्च चतस्रो राजविद्याः । “आन्वीक्षिकी त्रयी वार्ता दण्ड- नीतिश्च शाश्वती । एता विद्याश्चतस्रस्तु लोकसंस्थिति - हेतवः” इत्युक्ताः । तासु विनीतः शिक्षितः । श्रुतवान् अवधृतवान् । शीलसंपन्न: सदाचारसंपन्न: । पूर्व यज्ञादिकर्मानुष्ठातृत्वमुक्तमिति नपुनरुक्तिः ॥ १३ ॥ वेदेषु यजुर्व्यतिरिक्तवेदेषु । अनेन स्वस्य यजुर्वेदत्वं सूचितं ॥ १४ ॥ एवमात्मगुणानभिधाय विग्रहगुणा- नाशास्ते — विपुलांस इत्यादिना ॥ गूढजत्रु: अस्पष्ट भुजसन्ध्यस्थिः ॥ १५ ॥ समः अन्यूनातिरिक्तदेह प्रमाणः ॥ १६ ॥ त्रिस्थिर इति त्रिषु स्थानेषु स्थिरः । तथोक्तं सामुद्रिके–“ उरश्च मणिबन्धञ्च मुष्टिश्च नृपतेः स्थिराः ” इति । त्रिमलम्ब: त्रिषु प्रलम्ब: । 66 दीर्घभ्रुबाहुमुष्कस्तु चिरजीवी धनी नरः ” इति सुभगोपपन्ना स्निग्धा सुमांसोपचिता सुवृत्ता | न त्रयश्च यस्य विद्यन्ते अलम्बा मेढबाहवः " इति । त्रिसमः त्रिषु समः । " केशामं वृषणं जानु समा यस्य स भूपतिः ” इति वचनात् | त्रिषु चोन्नतः । तदाहवराहमिहिर:- “ उन्नतकुक्षिः क्षितिपः परिमण्डलोन्नतनाभयः क्षितिपाः | हृदयं न वेपनं पृथु समोन्नतं मांसलं च नृपतीनां ” इति ॥ त्रिताम्रः त्रिषु ताम्रः । “श्लिष्ठा- ङ्गुलीरुचिरताम्रनखौ सुपाणी पादौ करावपि सुरक्त- नखात्मरेखौ " इति वचनात् । " नेत्रान्तनखपाण्य- घितलैस्ताम्रै खिमिस्सुखी " इति च । त्रिषु स्निग्ध: । " स्निग्धा भवन्ति वै येषां पादरेखाः शिरोरुहाः । तथा लिङ्गमणिस्तेषां महाभाग्यं विनि- दिशेत् ” इति सामुद्रिकवचनात् । त्रिषु गम्भीरः । अत्र वररुचिः – “ स्वरः सत्त्वं च नाभिश्च गम्भीरः शस्यते बुधैः ” इति । ब्राह्मे तु – “स्वरे गतौ च नाभौ च गम्भीरत्रिषु शस्यते " इति । नित्यश इति सर्वत्र विशेषणीयं । तेन रोगाद्युपाधिकृतरागादिनि- वृत्तिः || १७ || त्रिवलीमान् उदरे वलित्रयवान् । कण्ठवलित्रयवान्वा । अत्र गर्गः – “ स्थिरा त्रिरेखा " - भवत्येवप्रसिद्धा नपुमान्कचिदितिभावः ॥ ती० प्रसूतइत्यनेन गुणानामुत्पत्तिविशिष्टत्वमवगम्यते ॥ ८ ॥ ति० लोकस्य सर्वस्य- कर्ता हर्ताभर्ताचेतिशेषः । अनेनसृष्टिस्थितिसंहारकर्तृत्वरूपंब्रह्मलक्षणंरामस्योतंगूढं । एवंज्ञानंतत्क्षणंभगवतैवस्वमायातिरस्करिणी- निरासादितिबोध्यं । लोकस्यमर्यादानां वर्णाश्रममर्यादानांकर्ता | भगवदवतारत्वात् । कारयिता कालात्मना अवतीर्णरूपेणचातुर्व- र्ण्यरक्षिताच ॥ स० चातुर्वर्ण्यस्य स्वार्थेष्यञ् ॥ ११ ॥ ति० अर्चिष्मान् आदित्यरूपः सन्नर्चितः । त्रैवर्णिकैरितिशेषः । ब्रह्मच- र्यव्रते गृहस्थोचितपर्वादिवर्जनपूर्वक मृतुगमनलक्षणेस्थितः । वस्तुतस्तु गार्हस्थ्येप्यस्खलित रेताः । मनस्संकल्पेनैवदेव्यारतिप्रीतेःसं- तानस्यचसंपादन मितिभावः ॥ स० यद्वा स्वरतत्वाद्भोगार्थमनपेक्षित स्त्रीसङ्गादिरितिब्रह्मचर्यव्रतंवा ॥ १२ ॥ स० विशिष्ययजु- [ पा० ] १ क. घ. – ट. खजनस्यचरक्षिता २ क. धर्मस्यवृत्तस्यच. ३ ख. लोकेऽस्मिंश्चातुर्वर्ण्यस्य ४ ख. घ. नर्चितो नियं. ५ ङ. -ट राजनीत्यांविनीतश्च ६ ङ. ज. झ. ट. मुपासकः ७ क. च. छ. ज. ञ ट ज्ञानवाञ्शीलसंपन्नः, ८ क. ज. वेदविद्भिश्च ९ ङ. ट. रामोनाम. ख. देविरामो. १० घ ङ. झ. ट. समश्वसुविभक्ताङ्गः.