पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ नचिराद्रक्ष्यसे रामं लक्ष्मणं च महाबलम् || मध्ये वानरकोटीनां सुग्रीवं चामितौजसम् ॥ ३८ ॥ अहं सुग्रीवसचिवो हनुमान्नाम वानरः ॥ प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम् ॥ ३९ ॥ कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः ॥ त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम् ॥ ४० ॥ नाहमस्मि तथा देवि यथा मामवगच्छसि ॥ विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम ॥ ४१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४ ॥ १२४ पञ्चत्रिंशः सर्गः ॥ ३५ ॥ सीतया रामसुग्रीव सख्य प्रकारंरामलक्ष्मणलक्षणंचपृष्टेनहनुमता तदङ्गलक्षणनिरूपणेनसह सविस्तरंरामसुग्रीवसख्यप्रभृ- तिस्वीय सीतादर्शनान्तवृत्तवृत्तान्तकथनपूर्वकं प्रभञ्जनादञ्जनायांस्वजननादिप्रतिपादनम् ॥ १ ॥ तां तु रामकथां श्रुत्वा वैदेही वानरर्षभात् ॥ उवाच वचनं सान्त्वमिदं मधुरया गिरा ॥ १ ॥ क ते रामेण संसर्गः कथं जानासि लक्ष्मणम् ॥ वानराणां नराणां च कथमासीत्समागमः ॥ २ ॥ यानि रामस्य लिँङ्गानि लक्ष्मणस्य च वानर ॥ तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् ॥३॥ कीदृशं तस्य संस्थानं रूपं रॉमस्य कीदृशम् ॥ कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे ॥ ४ ॥ एवमुक्तस्तु वैदेह्या हनुमान्मारुतात्मजः ॥ ततो रामं यथातत्वमाख्यातुमुपचक्रमे ॥ ५ ॥ जानन्ती त दिष्ट्या मां वैदेहि परिपृच्छसि ॥ भर्तुः कमलपत्राक्षि संस्थानं लक्ष्मणस्य च ॥ ६ ॥ यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै ॥ लक्षितानि विशालाक्षि वदतः शृणु तानि मे ॥७॥ रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः ॥ रूपदाक्षिण्यसंपन्नः प्रसूतो जनकात्मजे ॥ ८ ॥ तेजसाऽऽदित्यसंकाशः क्षमया पृथिवीसमः ॥ वृहस्पतिसमो बुद्ध्या यशसा वासवोपमः ॥ ९ ॥ - यत्फलं मरणरूपं तत् द्रक्ष्यसीति योजना । यद्वा रामः सर्वाङ्गसुन्दरः । कमलपत्राक्षः कान्तिप्रवाहे बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः असावा- आवर्त इव अत्यन्तमाकर्षकनयनशोभः | तादृशनय- दित्य इव तेजस्वीत्येवं योजना ॥ ३१–४० ॥ वञ्च नसौन्दर्यसीमाभूमिमाह - सर्वसत्त्वमनोहरः । तिर्य- न परिगृहीतवेष इति मां यथावगच्छसि तथा ग्जातितया विटपाद्विटपं लवतो ममापि चित्तापहारकः नास्मीत्यर्थः ॥ ४१ ॥ इति श्रीगोविन्दराजविरचिते | अविशेषज्ञस्यापि मनोहर इत्यर्थः । रूपदाक्षिण्यसंपन्नः श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरका रूपमित्येतद्विग्रहगुणानामुपलक्षणं दाक्षिण्यमित्यात्मगु- ण्डव्याख्याने चतुस्त्रिंशः सर्गः ॥ ३४ ॥ लिङ्गानि चिह्नानि ॥ ३ ॥ संस्थानं अवयवसंनि - वेशः । रूपं आकारः वर्णः कान्तिर्वा ॥४–५॥ बतेत्या- मन्त्रणे । जानन्ती त्वं दिष्ट्या मां परिपृच्छसीति संबन्धः ॥ ६ ॥ लक्षितानि त्वया दृष्टानि । मे मत्तः ॥ ७ ॥ |णानामुपलक्षणं देहगुणैरामगुणैञ्चान्यून इत्यर्थः । संपन्न: प्रसूतः । इदं सर्वे नागन्तुकं किंतु औत्पत्ति- कमित्यर्थः । अत्युत्कटं वदसि किमेवंविधोपरोप्यस्ति न वेत्यपेक्षायामाह – जनकात्मजे इति । भवती च तादृशीत्यर्थः ॥ ८ ॥ संग्रहेणोक्तान्गुणान्विवृणोति तनि० गुरुकुलवासायोग्यानांवानराणांवसिष्ठशिष्याणांचईदृशसमागमः कथंजातः । शास्त्रवश्यानामेवगुरुकुलवासयोग्यत्वात् । रमयतीतिरमन्तेयोगिनइतिचरामः | रामत्वमेवाह - कमलपत्राक्षइति । सर्वसत्वमनोहरइति । तत्रवानरजातीय मच्चि- त्तापकर्षणमेवप्रमाणमितिध्वन्यते । तह्येवंविधः पुमान्विद्यते कि मि तिचेन्नेत्याह - जनकात्मजइति । तुल्यशील " इत्यादिना ३ च. मातंर्यथा. ज. भूयस्त्वमाचक्ष्व. ७ ङ. – ट तस्यच. ८ ख. "" २ ग. च. छ. ज. ज. सुग्रीवममितौजसं. [ पा० ] १ क. ग. घ. च. छ. झ. ञ. ट. महारथं. ४ घ. सौम्यमिदं. ५ क. ख. घ. ङ. झट. चिह्नानि ६ ग. घ. ङ. यदिदिष्ट्या. ९ ङ. —ट पूर्णचन्द्रनिभाननः ख ग घ. सर्वभूतमनोहर:. क. सर्वभूतहितेरतः. J ॐ