सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 सर्गः ३४ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १२३ अथवा नायमुन्मादो मोहोप्युन्मादलक्षणः || संबुध्ये चाहमात्मानमिमं चापि वनौकसम् ॥ २४ ॥ इत्येवं बहुधा सीता संप्रधार्य बलाबलम् ॥ रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम् ।। २५ ।। एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा || न प्रतिव्याजहाराथ वानरं जनकात्मजा ॥ २६ ॥ सीता याश्चिन्तितं बुद्ध्वा हनुमान्मारुतात्मजः || श्रोत्रानुकूलैर्वचनैस्तदा तां संग्रहर्षयत् ॥ २७ ॥ आदित्य इव तेजस्वी लोककान्तः शशी यथा ॥ राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा ||२८|| विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः || सत्यवादी मधुरवाग्देवो वाचस्पतिर्यथा ॥ २९ ॥ रूपवान्सुभगः श्रीमान्कन्दर्प इव मूर्तिमान् || स्थानक्रोधः प्रहर्ता च श्रेष्ठो लोके महारथः ॥३०॥ बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः ॥ ३१ ॥ अपकृष्याश्रमपदान्मृगरूपेण राघवम् || शून्ये येनापनीतासि तस्य द्रक्ष्यसि यंत्फलम् ॥ ३२ ॥ नैचिराद्रावणं संख्ये यो वधिष्यति वीर्यवान् ॥ रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः ॥ ३३ ॥ तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः ॥ त्वद्वियोगेन दुःखार्तः स त्वां कौशलमत्रवीत् ॥ ३४ ॥ लक्ष्मणश्च महातेजा: सुमित्रानन्दवर्धनः || अभिवाद्य महाबाहुः सं त्वां कौशलमब्रवीत् ॥ ३५ ॥ रामस्य च सखा देवि सुग्रीवो नाम वानरः ॥ राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् ॥ ३६॥ नित्यं स्मरति रामस्त्वां ससुग्रीवः सलक्ष्मणः || दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता ॥ ३७ ॥ भ्रमः । न्तासंततिपरिणतिविशेषरूपः कोपि मनसो विभ्रम | पलक्षणं कुत इत्यत आह - संबुध्य इति । अहं आत्मा- इत्यर्थः। असत्यश्चित्तसंकल्पो वा । वातगतिः उपवासा- नमिमं वनौकसं चापि संबुध्ये सम्यग्जानामि ॥ २४ ॥ दिप्रयुक्तधातुक्षोभजो वातविकाररूपो भ्रमः । तद्- बलाबलं मोहत्वादीनामबलत्वं रावणत्वस्य बलवत्त्वं ध्यारोपो वा यथा त्वरूपस्य वायो: पांसुपुञ्जरूपवि च ॥ २५-२६ ॥ संप्रहर्षयत् संप्राहर्षयत् ॥ २७ ॥ शेषोध्यारोपः । उन्मादजो विकारो वा | उन्मादो | राजेति । कुबेरस्य सर्वलोकराजत्वमुक्तं । “ राजाधि- नाम विरहिणां कश्चिद॒वस्थाविशेषः । तज्जो विकारो राजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे " तृष्णका अन्यस्यान्यरूपेणावभासः । इति ॥ २८ ॥ सत्यमधुरवाक्त्वं बृहस्पतेर्वाचस्पति - चित्तमोहोन्मादावप्रकृतिस्थप्रतिभासविशेषौ । वातग- त्वादेव ||२९|| रूपवान् सौन्दर्यवान् । सुभगः रमणीयः । तिमृगतृष्णिके तु प्रकृतिस्थस्य ॥ २३ ॥ अनन्तरोक्त - श्रीमान् कान्तिमान् । स्थाने क्रोधस्थाने क्रोधः यस्यासौ चतुष्टयं निराकरोति — अथवेत्यादिना ॥ अथवा अयं स्थानक्रोधः । प्रहर्ता क्रोधविषयेप्रहर्ता । आदित्य वानरतद्भाषणादिप्रतिभासः | उन्मादो न | मोहोप्यु- इवेत्यादिनोक्तैर्विशेषणैर्विशिष्टो राम इतियोज्यं ॥ ३० ॥ न्मादलक्षण: उन्मादस्य लक्षणमिव लक्षणं यस्य स लोक: महात्मनो यस्य बाहुच्छायां अवष्टब्धः तथोक्तः । अतः उन्मादनिराकरणेनैव सोपि निराकृत- आश्रितः । तं मृगरूपेण प्रशस्तमृगेण हेतुना । आश्र- इत्यर्थः । अनयोर्निराकरणमितरपक्षद्वयनिराकरणस्यो- मपदादपकृष्य शून्ये येनापनीतासि तस्य रावणस्य तृष्णा । तद्वदयमपिकिंभ्रमविशेषइत्यर्थः ॥ २३ ॥ स० उन्मादस्यलक्षणमिवलक्षणंयस्यपिशाचस्यसतथा एतेन । नपुनरुक्तिर्नवा- तगतेरसंग्रहश्च । मोहोनेति उन्मादलक्षणोपिनेतितत्रावृत्तिः । संबुध्ये परीक्षयाजानामि ॥ २४ ॥ ती० बलाबलं बलं रक्षसां कामरूपधारणंबलं । अबलं रामदूतस्यापिवानरस्यात्रागमनासामर्थ्य अबलं संप्रघार्येत्यर्थः ॥ २५ ॥ ति० निश्चितं रावणत्वं निश्चयं । श्रोत्रानुकूलैर्वचनैः रामगुणकथनरूपैः । विश्वासार्थं 'गुणात्रामस्यकथय' इतिसी तोक्ते रितिभावः । संप्रहर्षयन् वक्ष्यमाणंवचः कथया- मासेतिशेषः ॥ २७ ॥ ति० स्थानक्रोधे उचितक्रोधविषये । क्रोधौचित्येप्रहर्तेतियावत् ॥ स० स्थानक्रोधी उचितस्थलेकोपी | प्रहर्ता वैरिहन्ता । स्थानक्रोधप्रहर्तेतिपाठे कोपयोग्यस्थानेशिक्षाकर्तेत्यर्थः ॥ ३० ॥ इतिचतुस्त्रिंशः सर्गः ॥ ३४ ॥ [ पा० ] १ ग. ङ.ट. सीतायानिश्चितं. २ ग. समहर्षयत् क. झ. ट, संप्रहर्षयन्. ३ झ. स्थानको ठं. स्थानक्रोधी. ४ ङ. झ. ट. तत्फलं. ५.ट. अचिरात् ६ क. ख. ग. सोपि. ७ ङ. -ट. तेरामः.