पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । चतुत्रिंशः सर्गः ॥ ३४ ॥ हनुमता स्वप्रश्नस्य समुचितोत्तरदानेन सीतायाः स्वस्मिन्नाश्वाससंभावनया तांप्रति स्वस्थ रामदूतत्वनिवेदनपूर्वकं क्रमेण रामलक्ष्मणकर्तृककुशलप्रश्नाभिवादन निवेदनम् ॥ १ ॥ हनुमता समीपोपसर्पणेनाभिवादने सीतयातस्मिन्नावणस्वबुच्या गर्हणम् ॥ २ ॥ हनुमता पुनःसीतांप्रति रामगुणानुवर्णनादि पूर्वकं स्वस्यसुग्रीवसचिवत्वहनुमन्नामकत्वाद्युक्त्या स्वस्मिन्त्रावण- त्वशङ्कात्यागेन स्ववचनस्य श्रद्धेयत्वप्रार्थना ॥ ३ ॥ १२१ तस्यास्तद्वचनं श्रुत्वा हनुमान्हरियूथपः ॥ दुःखाद्दुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत् ॥ १ ॥ अहं रामस्य संदेशादेवि दूतस्तवागतः ॥ वैदेहि कुशली रोमस्त्वां च कौशलमब्रवीत् ॥ २ ॥ यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः ॥ स त्वां दाशरथी रामो देवि कौशलमत्रवीत् ॥ ३ ॥ लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः ॥ कृतवाञ्छोकसंतप्तः शिरसा तेऽभिवादनम् ॥ ४ ॥ सा तयोः कुशलं देवी निशम्य नरसिंहयोः ॥ प्रीतिसंहृष्टसर्वाङ्गी हनुमन्तमथाब्रवीत् ॥ ५ ॥ कल्याणी बत गाथेयं लौकिकी प्रतिभाँति मा || एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ ६ ॥ तया समागते तस्मिन्प्रीतिरुत्पादिताऽद्भुता || परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः ॥ ७ ॥ तस्यास्तद्वचनं श्रुत्वा हनुमान्हरियूथपः || सीतायाः शोकदीनाया: समीपमुपचक्रमे ॥ ८ ॥ यथा यथा समीपं स हनुमानुपसर्पति ॥ तथा तथा रावणं सा तं सीता परिशङ्कते ॥ ९ ॥ 1 दुःखात् दुःखाभिभूतायाः उत्तरोत्तरं दुःखं प्राप्तायाः | कल्याणी सत्यार्था | मा प्रतिभाति मां प्रतिभाति । ॥१॥ तव दूतः त्वां प्रति प्रेषितो दूतः ॥ २॥ वेद वेत्ति | वर्षशतादपीत्यन्ते इतिकरणं बोध्यम् ॥ ६ ॥ तया वेदविदां वेदार्थज्ञानवतां ।।३ - ४ || प्रीतिसंहृष्टसर्वाङ्गी सीतया । तस्मिन् हनुमति विषये | अद्भुता प्रीतिरु प्रीत्यापुलकितसर्वाङ्गी ॥५॥ दुःखबाहुल्येपि रामदर्श- त्पादिता । परस्परेणेत्यादिकं वक्ष्यमाणस्य सर्गस्य नप्रत्याशया कृच्छ्रेणजीवन्त्याः देव्याः जीवनफलस्य संग्रहः ॥ ७ ॥ उपचक्रमे गन्तुमिति शेषः । प्रापे- लब्धत्वात्तत्संवादिनीं गाथां स्तौति – कल्याणीति ॥ | तिवार्थः ॥ ८ ॥ रावणं परिशङ्कते रामकुशलकथनेन ति० दुःखाद्दुःखाभिभूतायाइत्यलुगार्षः । दुःखपरंपराखिन्नायाइत्यर्थः ॥ स० यद्वा दुःखेनातन्तीतिदुःखान्तास्तेषामिवयद्दुःखं तेनाभिभूतायाः । यद्वा दुःखात् सान्त्वमुत्तरमब्रवीदित्यन्वयः । दुश्चखंचतयोः समाहारः द्वन्द्वैकवद्भावोवा उत्तरपदलोपिसमासा- न्तंवा । तस्मात् सीताएवंक्लिश्यतीतिदुःखात् स्वागमनप्रयोजनंजातमितिखात् सुखात् । “ दुर्दुः खमितिसंप्रोक्तंखं सुखंचोच्यतेबुधैः इतिवचनाद्दुःखशब्दउभयवाची ॥ १ ॥ ती० तवागतः समीपमितिशेषः ॥ स० रामस्यसन्देशादागतइतितवदूतः ॥ २ ॥ ती० ब्राह्ममस्त्रंयोवेद । अनेनसर्वास्त्रपारगत्वमुक्तं । तदस्त्रदेवतायाब्रह्मणः सर्वजगत्समष्टित्ववत्तदस्त्र स्यापि सर्वास्त्रसमष्टित्वात् वेदांश्चेत्यनेन सर्वकर्ममार्गपरत्वं । वेदविदांवरइत्यनेन ज्ञानमार्गपरत्वमुक्तं ॥ स० योब्राह्ममस्त्रं वेदांश्च वेदेयन्वयः । यद्वा वेदवेदेतिद्विरभि- धानेन उभयोरपिमुख्यतामभिप्रैति । यद्वा वेदान् व्याख्येयानृगादीन् । वेदवेदान् भारतादीन्व्याख्यानरूपान्विदन्ति तेतथा । तेषु वरइति । “ इतिहासपुराणः पञ्चमोवेदानांवेदः " इत्युक्तेः ॥ ३ ॥ स० प्रीतिसंहृष्टसर्वाङ्गी अन्तःसंभृतस्तोषइतिसूचकरोमाञ्चि- तसर्वावयवा ॥ ५ ॥ स० जीवन्तंनरं आनन्दःवर्षशतादेतीतिलौकिकी लोकसिद्धागाथा या सेयं मा मांप्रति कल्याणी कल्याण- सूचिका प्रतिभाति । बत हर्षः विस्मयोवा | “ जीवन्नरोभद्रशतानिपश्यति " इत्युक्तेः । अस्यस्खविषयेसीतयोदाहृतवत्वाज्जीवन्तीं स्त्रियमितिवक्तव्यं । तथापि नरंजीवन्तमित्युक्तिः सर्वाअपियोषितः पुरुषेपरतन्त्राः । तत्राप्यहं सदातन्मात्रायत्तमङ्गलेतिसूचयितुमिति मन्तव्यं ॥ ६ ॥ ति० तस्मिन् तस्मिन्काले रामलक्ष्मणकुशलवचश्श्रवणकाले । तयोः रामलक्ष्मणयोः समागमकालइव | सीता- यास्तेनवचसा अद्भुता अचिन्त्यखरूपाप्रीतिरुत्पादिता | किंच तयोः सीताहनुमतोः । तस्मिन्समागमेपरस्परस्यअद्भुता प्रीतिरुत्पा- दिता । देवीदृष्टेतिहनुमतःप्रीतिः । रामदूतोदृष्टइतिदेव्याःप्रीतिः । अतस्तौ विश्वस्तौभूला परस्परेणालापंचक्रतुः ॥ ७ ॥ ति० तद्- [ पा० ] १ ङ. झ ट रामस्सलां. २ ङ. झ ट प्रतिसंहृष्ट ३ क. ख. ग. प्रतिभातिमे. ४ ग. ङ. - झ. तयोः समागमे. ५ ङ. झ ट शोकतप्तायाः ६ घ. हनूमान्ससमीपमुप. क. समीपंतां. वा. रा. १६४ "