पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ स राजा सत्यवाग्देव्या वरदानमनुसरन् || मुमोह वचनं श्रुत्वा कैकेय्या: क्रूरमप्रियम् ॥ २३ ॥ तंतस्तु स्थविरो राजा सेत्ये धर्मे व्यवस्थितः ॥ ज्येष्ठं यशस्विनं पुत्रं रुदन्राज्यमयाचत ॥ २४ ॥ स पितुर्वचनं श्रीमानभिषेकात्परं प्रियम् || मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् ॥ २५ ॥ दद्यान प्रतिगृह्णीयान्न ब्रूयात्किंचिदप्रियम् ॥ अपि जीवितहे तोर्वा रामः सत्यपराक्रमः ॥ २६ ॥ स विहायोत्तरीयाणि महार्हाणि महायशाः || विसृज्य मनसा राज्यं जनन्यै मां समादिशत् ||२७|| साऽहं तस्याग्रतस्तूर्ण प्रस्थिता वनचारिणी ॥ न हि मे तेन हीनाया वासः स्वर्गेपि रोचते ॥ २८ ॥ प्रागेव तु महाभागः सौमित्रिमिंत्रनन्दनः ॥ पूर्वजस्यानुयात्रार्थे द्रुमचीरैरलङ्कृतः ॥ २९ ॥ ते वयं भर्तुरादेशं बहुमान्य दृढव्रताः || प्रविष्टाः स पुराऽदृष्टं वनं गम्भीरदर्शनम् ॥ ३० ॥ वसतो दण्डकारण्ये तस्याहममितौजसः || रक्षसाऽपहृता भार्या रावणेन दुरात्मना ॥ ३१ ॥ द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः ॥ • ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम् ॥ ३२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ कार्य चेत्तदा रामो वनं गच्छतु || २२ || देव्यास्सं - | स्त्वं वनवासायेत्युक्तवत्याः गर्भे संजातः । मित्रनन्दनः बन्धि स्वकृतं वरदानं स्मृत्वा कैकेय्याः वचनं श्रुत्वा मुमोह ॥ २३–२४ ॥ अभिषेकात्परं प्रियं पितुर्व- चनं विवासयाचनारूपं पूर्व मनसा आसाद्य अङ्गी कृत्य | अथ वाचा प्रतिगृहीतवान् । मनःपूर्वकमङ्गी- कृतवानित्यर्थः ॥ २५ – २६ ॥ उत्तरीयाणि वासांसि । जनन्यै कौसल्यायै । मां समादिशत् तन्निकटे त्वया स्थातव्यमित्युक्तवानित्यर्थः ॥ २७ ॥ अग्रतः प्रस्थाने हेतुमाह — न हीति ॥ २८ ॥ प्रागेव यद्यपि रामान - न्तरमेव लक्ष्मणेन द्रुमचीरादिस्वीकारः तथापि तस्य स लक्ष्मणः सर्वविधकैङ्कर्यकर्तेत्यनुकूलैरभिनन्दनीयः पूर्वजस्येत्यादि । रामकैङ्कर्यानुरूपत्वेन द्रुमचीरादीना- मलंकरणत्वमित्यर्थः ॥ २९ ॥ पुरादृष्टं पूर्वमदृष्टं । अत्र गम्भीरशब्देन दुष्प्रवेशत्वं | दर्शनशब्देन स्वरूपमप्युच्यते ॥ ३०-३१ ॥ द्वौ मासौ द्विमास- रूपः कालः | मे जीवितानुग्रहः जीवितानुग्राहकः जीवितधारणानुकूलः कृतः । त्यक्ष्यामि स्वयमेवेति भावः ॥ ३२ ॥ इति श्रीगोविन्दराजविरचिते श्रीम- त्वरातिशयव्यञ्जनाय तथोक्ति: । महाभागः अहं द्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्ड- सर्व करिष्यामीति प्रतिज्ञानुसारेण सर्वविधकैङ्कर्यकर- व्याख्याने त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ णोचिताभिषेकविघ्नहेतुभाग्यसंपन्न: । सौमित्रिः सृष्ट- धातुव्याख्यानात् ॥ २१ ॥ स० अभिषेकात्परं प्रियं रावणादिदुष्टनिग्रह शिष्टपरिपालनरूपावतारफलकारणत्वात् ॥ २५ ॥ ति० सीतारामंस्तौति – दद्यादिति ॥ २६ ॥ स० उत्तरीयाणि । उपलक्षणमेतत् । परिधानवस्त्राण्यपीत्यर्थः ॥ २७ ॥ स० भर्तुः दशरथस्य | पुरा अयोध्या निर्गमात्प्राक् | अदृष्टं ॥ ३० ॥ स० द्वौमासौ तत्परिमितःकालः । जीवितानुग्रहः जीवनार्थमनुग्रह- रूपः । ततः रावणात् ॥ ३२ ॥ इतित्रयस्त्रिंशः सर्गः ॥ ३३ ॥ [ पा० ] १ ख. झ ट ततस्तं. २ क. ग. ङ. च. छ. झ. ट. सत्यधर्मे. ख. घ. सत्यधर्मव्यवस्थितः ३ क. ग. ङ. ट. गृह्णीयात्सत्यंब्रूयान्नचानृतं. ४ क. —ट, हेतोर्हि. ५ च. ट. कुशचीरैः. ६ घ. दुराधर्षे.