पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ११९ रोदनादतिनिश्वासाद्भूमिसंस्पर्शनादपि ॥ न त्वां देवीमहं मन्ये राज्ञः संज्ञावधारणात् ॥ ११ ॥ व्यंञ्जनानि च ते यानि लक्षणानि च लक्षये ॥ महिषी भूमिपालस्य राजकन्याऽसि मे मता ॥ १२ ॥ रावणेन जनस्थानाद्वैलादपहृता यदि || सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः ॥ १३ ॥ यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम् || तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम् ||१४|| सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता || उवाच वाक्यं वैदेही हनुमन्तं द्रुमाश्रितम् ॥ १५ ॥ पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः || सुपा दशरथस्याहं शत्रुसैन्यप्रतापिनः ॥ १६ ॥ दुहिता जनकस्याहं वैदेहस्य महात्मनः ॥ सीता च नाम नाम्नाऽहं भार्या रामस्य धीमतः ॥ १७ ॥ समा द्वादश तत्राहं राघवस्य निवेशने || भुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी ॥ १८ ॥ तंत्र त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम् || अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे ॥ १९ ॥ तस्मिन्संभ्रियमाणे तु राघवस्याभिषेचने ॥ कैकेयी नाम भर्तारं देवी वचनमब्रवीत् ॥ २० ॥ न पिवेयं न खादेयं प्रत्यहं मम भोजनम् ॥ एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥ २१ ॥ यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम ॥ तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः ॥ २२ ॥ त्वमनुशोचसि । तस्यास्ते को वा पुत्रादिरिति योजना | अत्यन्तसंयोगे द्वितीया | तेनाविच्छिन्नैकरूपभोगभो- ॥ १० ॥ देवीं देवस्त्रियं । संज्ञावधारणात् संज्ञायते क्तृत्वमुच्यते । मानुषानित्यनेन नामनो मानुषत्वं अति संज्ञा लक्षणं । राजलक्षणनिश्चयादित्यर्थ: स्वाभाविकमिति सूच्यते । भोगान् भुजाना अनुभ- ॥११॥ व्यञ्जनानि स्तनजघनादीनि । “व्यञ्जनं तेमने वन्ती । काम्यन्त इति कामाः भोगोपकरणानि स्रकू- चिह्ने श्मश्रुण्यवयवेपि च " इति विश्व: | लक्षणानि चन्दनादीनि । तेषां समृद्धं समृद्धि: । भावे निष्ठा । शुभावर्तरेखादिसामुद्रिकलक्षणानि ॥ १२ – १३ ॥ तदस्यास्तीति सर्वकामसमृद्धिनी । “ अत इनिठनौ ” यथा यादृशं ॥ १४ ॥ द्रुमाश्रितं द्रुममूलाश्रितं । इति इनिप्रत्ययः । अभवमिति शेषः ॥ १८-१९ ॥ सोवतीर्येति मावतरणस्य पूर्वमुक्तत्वात् । यद्वा संभ्रियमाणे संभारान् संपादयति सति राघवस्याभि- पूर्वमप्रादवतरणमुक्तमिति ज्ञेयं ॥ १५ ॥ शत्रुसैन्यप्र- षेचने रामाभिषेकनिमित्तं । देवी महिषी ।। २० ।। तापिन: शत्रुषु जीवत्सु न मे श्वशुरो जीवितवान् । स चेदिदानीं वर्तेत कथमहमेतादृशीमवस्थां प्राप्नुया- भुज्यत इति भोजनं खाद्यं पेयं च । रामो यद्यभिषि- मिति भावः ॥ १६ ॥ सीता च नामेत्यत्र नामशब्दः च्यते तदा मम संबन्धियत् भोजनं तन्न पिबेयं नं प्रसिद्धौ ॥ १७ ॥ अहं एतादृशावस्था अहं । तत्र खादेयं । एषः अयमभिषेक: । जीवित मम श्वशुरगृहे । द्वादश समा: द्वादश संवत्सरान् | | |॥ २१ ॥ तत्पूर्वोक्तं यद्वरदानरूपं वाक्यं तन्न वितथं शब्दस्तदवयवपरः । अतएवामाश्रितइतिवक्ष्यति ॥ १ ॥ ति० रोदनादिति | अश्रुसंबन्धोभूस्पर्शोदेवानांनास्तीतिश्रुतं । तद्वत्त्वा- त्त्वांनमन्ये | किंचराज्ञोरामस्य संज्ञावधारणात् नामग्रहणात् ॥ ११ ॥ ती० व्यञ्जनानि संस्थान विशेष विशिष्टतयोत्तमस्त्रीत्वव्यञ्ज- कानिस्तनजघनादीनि ॥ १२ ॥ अनुत्तेपित्वत्स्वरूपनिश्चयोममास्तीतिप्रौढ्याह – यथाहीति ॥ १४ ॥ स० द्रुमाश्रितं द्रुमशब्देन तच्छायाग्राह्या | अथवा यः पूर्वममाश्रितस्तंप्रत्युवाचेति ॥ १५ ॥ स० अमानुषान् देवभोगसमान् ॥ १८ ॥ स० सोपा - ध्यायः सपुरोहितः ॥ १९ ॥ स० अभिषेचनं अभिषेकसाधनं तस्मिन् ॥ २० ॥ स० अहं प्रत्यहं निरन्तरं । ममभोजनंभो- ज्यंयद्वर्तते तन्नपिबेयं नखादेयं । कुतएतदित्यत आह - एषइति । एषइतिबुद्ध्याविवेकेनाभिषेकेऽन्वेति । अथवा एषमेजीवित- स्यान्तः एतच्चममभोजनं पालनं । तत्किमित्युक्ते यदिरामोऽभिषिच्यते तर्ह्येष: अभिषेक: मेजीवितस्यान्तः । यदिनाभिषि- च्यते तर्हि एतत् ममभोजनं पालनमिति । यदि नाभिषिच्यत इतिपदानामावृत्त्याऽन्वयः | " भुजपालनाभ्यवहारयोः " इति [ पा० ] १ ख. व्यञ्जनानीह, क. ग. घ. च. छ. झ ञ ट व्यञ्जनानिहि. २ क. ङ. च. ज. – ट. द्वलात्प्रमथिता. ३ क. रामसत्कथयाश्रितं. ४ घ. राजसिंहस्य. ५ ङ. झ ट प्रणाशिनः क ख. घ. प्रमाथिनः ६ ङ. झ. ट. सीतेतिनाम्नांचोक्ताहं. ७ङ. द. ततस्त्रयोदशे, ८ क. रामं. ९ ङ. झ ट भर्तारमिदं.