सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ श्रीमद्वाल्मीकिरामायणम् । नमोस्तु वाचस्पतये सवज्रिणे स्वयंभुवे चैव हुताशनाय च ॥ अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथाऽस्तु नान्यथा ॥ १५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥ [ सुन्दरकाण्डम् ५ त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ जानतापिहनुमता तन्मुखाच्छ्रवणेच्छया सीतांप्रति सुरस्त्रीत्वादिनानाविकल्पैः प्रश्नपूर्वक मनेकहेतुभिः सीतात्व निर्धारणो- क्तिः ॥ १ ॥ सीतयाहनुमन्तंप्रति रावणकर्तृक स्वापहरणान्तनिखिलवृत्तान्त कथनपूर्वकं रावणसंकेतितस्वजीवनकालेमास- द्वयस्यावशिष्टत्वोत्तया तदनन्तरंस्वेनैव स्वजीवितत्यागप्रतिज्ञानम् ॥ २ ॥ सोवतीर्य द्रुमात्तस्माद्विद्रुमप्रतिमाननः ॥ विनीतवेषः कृपणः प्रणिपत्योपसृत्य च ॥ १॥ तामब्रवीन्महातेजा हनूमान्मारुतात्मजः || शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा ॥ २ ॥ को नु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि ॥ द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते ॥ ३ ॥ किमर्थं तष नेत्राभ्यां वारि स्रवति शोकजम् ॥ पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम् ॥ ४ ॥ सुराणामंसुराणां वा नागगन्धर्वरक्षसाम् ॥ यक्षाणां किन्नराणां वा का त्वं भवसि शोभने ॥ ५ ॥ का त्वं भवसि रुद्राणां मरुतां वा वरानने ॥ वसूनां वा वरारोहे देवता प्रतिभासि मे ॥ ६ ॥ किंतु चन्द्रमसा हीना पतिता विबुधालयात् || रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठसर्वगुणान्विता ॥ ७ ॥ का त्वं भवसि कल्याणि त्वमनिन्दितलोचने ॥ ८ ॥ कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणे ॥ वसिष्ठं कोपयित्वा त्वं नासि कल्याण्यरुन्धती ॥ ९ ॥ को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे || अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि ॥१०॥ ॥ १४ ॥ अनेनोक्तं सत्यमस्त्विति देवताः प्रार्थयते - | किं चेतसि कृत्वा । पुण्डरीकेत्यादि हन्तैतत्सौन्दर्य नम इति ॥ हुताशनाय च अग्नये च ॥ १५ ॥ इति प्रणयिना रामेण दृष्टमासीदिति भावः ॥ ४ ॥ सुरा- श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गा- णामित्यादिषु निर्धारणे षष्ठी | का त्वं कस्य संबन्धि- रतिलकाख्याने सुन्दरकाण्डव्याख्याने द्वात्रिंशः नीत्यर्थः ॥ ५–७ ॥ हे कल्याणि त्वं का | अनिन्दि- सर्गः ॥ ३२ ॥ तलोचने त्वं का भवसीति योजना ॥ ८ ॥ वसिष्ठं कोपयित्वेत्यत्रापि पतिता विबुधालयादित्यनुषज्यते । स: राक्षसीषु सुप्तासु लब्धावसर इत्यर्थः । कृपणः नासीत्यत्र काकुरनुसंधेया ॥ ९ ॥ अमुं लोकं गतं । सीतादौस्थ्यदर्शनेन दीन: | जानन्नपि वैदेयैव वाच - | यमिति शेषः । परलोकं गतं यं पुत्रं पितरं भ्रातरं यितुमब्रवीत् ॥ १-३ ॥ तव नेत्राभ्यां आनन्दानु- भर्तारं वानुशोचसि स क इत्यर्थः । गता त्वमित्यपि योगार्हाभ्यां । किमर्थं कस्य कुलच्छेदाय | यद्वा किमर्थं | पाठः । तस्मात् स्वर्गादमुं मनुष्यलोकं गता या स्वप्नंमला स्वस्तिप्रार्थयते । जनकस्य तद्वेश्यस्य ॥ १० ॥ ति० एवंहनुमद्वचसोऽवास्तव त्वंनिर्णायानाप्तप्रणीतत्वेन स्मिथ्यार्थकत्व- स्य।पिसंभवात्तव्यावृत्तयेदेवान्प्रणमति – नमोस्त्विति | वाचस्पतित्वेनवाचस्सत्यत्वसंपादनयोग्यता । वज्रिणोपि वृहस्पतितःसत्य- वाग्रूपशब्दपारायणग्रन्थरूपमन्त्रलाभात्तदुपासक त्वेनवाचःसत्यत्वसंपादनयोग्यता | स्वयंभुवे सत्यादिरूपब्रह्मणे । वागभिष्ठातृदेवता- लाच्चाग्नयेनतिः ॥ १५ ॥ इतिद्वात्रिंशः सर्गः ॥ ती० कृपणः दीनः । सीतादैन्यात्स्वयंकृपणइत्यर्थः । अत्रराक्षसीनांनिद्राजाड्यात्रिजटास्वमश्रवणजन्यभयानन्तरमात्मत्रा- णायसीतैकशरणत्वेनोपेक्षणाच्चदैवानुग्रहाच्चसीताहनुमतोरयमप्रत्यूहःसंल्ला पइत्यनुसन्धेयं ॥ अस्यार्थस्याष्टपञ्चाशत्सर्गेअङ्गदाप्रेह- नुमतैव " ततस्ताःसहिताः सर्वाः " इत्यादिनावक्ष्यमाणत्वादिति ॥ ति० अत्यूर्ध्वशाखातःसीतासंमुखशाखायामवतीर्य । द्रुम- [ पा० ] १ ग. पद्मपत्रविशालाक्षि. घ. कालंपद्म. ज. का सिपद्म, २ क. ख. ङ. ट. मसुराणांच. ३ ङ. झ. ट. गुणाधिका.