सर्ग: ३० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ११३ सेयमालोक्य मे रूपं जानकी भाषितं तथा ॥ रक्षोभित्रासिता पूर्व भूयस्त्रासं गमिष्यति ॥ २० ॥ ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी || जीनमाना विशालाक्षी रावणं कामरूपिणम् ॥ २१ ॥ सीतया च कृते शब्दे सहसा राक्षसीगणः ॥ नानाप्रहरणो घोरः समेयादन्तकोपमः ॥ २२ ॥ ततो मां संपरिक्षिप्य सर्वतो विकृताननाः ॥ वधे च ग्रहणे चैव कुर्युर्यतं यथाबलम् || २३ ॥ गृघ शाखा: प्रशाखाश्च स्कन्धांथोत्तमशाखिनाम् ॥ दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः ॥२४॥ मम रूपं च संप्रेक्ष्य वने विचरतो महत् || राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः ॥ २५ ॥ ततः कुर्युः समाहानं राक्षस्यो रक्षसामपि ॥ राक्षसेन्द्रनियुक्तानां राक्षसेन्द्र निवेशने ॥ २६ ॥ ते शूलशक्ति निस्त्रिंशविविधायुधपाणयः ॥ आपतेयुर्विमर्देऽस्मिन् वेगेनोद्वियकारिणः ॥ २७ ॥ सरुस्तै: सुपरितो विधमत्रैक्षसां बलम् ॥ शक्नुयां न तु संप्राप्तं परं पारं महोदधे: मां वा गृह्णीयुरौप्य बहवः शीघ्रकारिणः || स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् ॥ २९ ॥ हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् || विपन्नं स्यात्ततः कार्य रामसुग्रीवयोरिदम् ॥ ३० ॥ उद्देशे नष्टमार्गेऽस्मिनाक्षसः परिवारिते ॥ सागरेण परिक्षिप्ते गुप्ते वसति जानकी ॥ ३१ ॥ विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे || नान्यं पश्यामि रामस्य साहाय्य कार्यसाधने ॥ ३२ ॥ विमृशंश्च न पश्यामि यो हते मयि वानरः ॥ शतयोजनविस्तीर्ण लङ्घयेत महोदधिम् ॥ ३३ ॥ कामं हन्तुं समर्थोस्मि सहस्राण्यपि रक्षसाम् ॥ न तु शैक्ष्यामि संप्राप्तुं परं पारं महोदधेः ॥ ३४ ॥ असत्यानि च युद्धानि संशयो मे न रोचते ॥ कश्च निस्संशयं कार्यं कुर्यात्प्राज्ञः ससंशयम् ॥३५॥ प्राणत्यागश्च वैदेद्या भवेदनभिभाषणे ॥ एष दोषो महान्हि स्यान्मम सीताभिभाषणे ॥ ३६ ॥ २८ ।। षभाषया व्यवहर्तव्यत्वं निश्चिनोति – अवश्यमिति || | अविदितरामसंदेशार्था ।। २९ - ३० || उद्देशे प्रदेशे । अत्र वाक्यस्य मानुषत्वं कोसलदेशवर्तिमनुष्यसंब- नष्टमार्गे अदृष्टमार्गे । उक्तविशेषणे उद्देशे वसतीत्य- न्धित्वं विवक्षितं । तादृग्वाक्यस्यैव देवीपरिचितत्वात् न्वयः ॥ ३१ ॥ सहाय एव साहाय्यः तं । कार्यसाधने ॥ १९ ॥ एवं मानुषभाषया व्यवहर्तव्यत्वं निश्चित्य सीतादर्शननिवेदनलक्षणकार्यसाधने ॥ ३२ ॥ यो संप्रति तयापि भाषयानेन वानररूपेण पुरः स्थित्वा- लङ्घयेत तं न पश्यामीत्यन्वयः ॥ ३३ – ३४ ॥ अस- भिभाषणे दोषोस्तीति विचारयति — सेयमिति यानि अनिश्चितजयापजयानि । क्लेशस्तु भू || २० || जानमाना जानाना । मुमागम आर्षः भावः । ततो नैतन्मम मतमित्याह-संशय इति । || २१ – २३ || प्रशाखा: उपशाखा: । विपरिधावन्तं संशयः संशयितार्थः । स च सङ्ग्राम: अथापि मामिति शेषः || २४ – २६ ॥ उद्विकारिणः तथाकरणे स एव कार्यहन्ता बुद्धिहीनो निन्दाभाजनं उद्वेगकारिणः ॥ २७ ॥ तैः परितः संरुद्धः । अतएव चेत्याशयेनाह–कश्चेति । प्राज्ञः कः ससंशयं कार्य रक्षसां बलं विधमन् प्रहरन् । अहं महोदधेः परं पारं निःसंशयं निर्विचारं कुर्यात् ॥ ३५ ॥ अनभिभाषणे प्राप्तुं न शक्नुयामित्यन्वयः ॥ २८ ॥ अगृहीतार्था रामसंदेशानिवेदने । एष दोषः पूर्वोक्तसीतासंत्रासा- वितइति तेन भीतिभवनंयुक्तमितिभावः ॥१८॥ ति० नतुशक्ष्यामि युद्धश्रान्त्येतिभावः ॥ शि० नशक्ष्यामि सीतामरणशङ्कयाक्षी- णशक्तिर्भविष्यामीतितात्पर्ये ||३४|| ति० किंचयुद्धेजयोपिसंदिग्धइत्याह - असत्यानीति ॥ स० असत्यानि अनिश्चितजयकानि । [ पा० ] १ ङ. झ. ट. खासमुपैष्यति. २ क. शङ्कमाना. ङ. – ट. जानानामां. ३ ङ. झ. ट. महाबलाः. ४ ख. ङ. झ. शा: ५ ङ. - ट. दृष्ट्वाच. क. दृष्ट्वामां. ६ ङ. झ. ट. भवेयुः परिशङ्किताः. वेयुर्भयशङ्किन:. घ. भवेच्छ ७ डट. विकृतखराः. ञ. ट. डितविह्वलः ८ ङ.ट. शूलशर, क. ग. घ. झूलाशनि. ९ झ ञ ट . वेंगेनोद्विग्नकारणात्. १० क. –ञ. संक्रुद्धस्तैस्तु. ११ क. च. ―ट. त्राक्षसं. १२ ङ. - ट रावृत्य १३ ख. घ. सहायं. १४ ङ. च. ज०-८० शक्ष्याम्यहंप्राप्तुं. वा. रा. १६३
पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/११७
दिखावट