पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ राक्षसानां विशेषश्च पुरी चेयमवेक्षिता || राक्षसाधिपतेरस्य प्रभावो रावणस्य च ॥ ५ ॥ युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः || समाश्वासयितुं भार्या पतिदर्शनकाङ्क्षिणीम् ॥ ६॥ अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् || अदृष्टदुःखां दुःखार्ता दुःखस्यान्तमगच्छतीम् ॥ ७ ॥ यद्यप्यहमिमां देवीं शोकोपहतचेतनाम् || अनाश्वास्य गमिष्यामि दोषवद्गमनं भवेत् ॥ ८ ॥ गते हि मयि तत्रेयं राजपुत्री यशस्विनी || परित्राणमँविन्दन्ती जानकी जीवितं त्यजेत् ॥ ९ ॥ मैंया च स महाबाहुः पूर्णचन्द्रनिभाननः ॥ समाश्वासयितुं न्याय्यः सीतादर्शनलालसः ॥ १० ॥ निशाचरीणां प्रत्यक्षमँनर्हे चापि भाषणम् || कथं नु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम् ॥ ११ ॥ अनेन रात्रिशेषेण यदि नाश्वास्यते मया || सर्वथा नास्ति संदेहः परित्यक्ष्यति जीवितम् ॥ १२ ॥ रामश्च यदि पृच्छेन्मां किं मां सीताऽब्रवीद्वचः ॥ किमहं तं प्रतिव्यामसंभाग्य सुमध्यमाम् ॥ १३ ॥ सीतासंदेशरहितं मामितस्त्वरया गतम् || निर्दहेदपि काकुत्स्थः क्रुद्धस्तीत्रेण चक्षुषा ॥ १४ ॥ यदि चोद्योजयिष्यामि भंतीरं रामकारणात् ॥ व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ॥ १५ ॥ अन्तरं त्वहमासाद्य राक्षसीनामिंहं स्थितः ॥ शनैराश्वासयिष्यामि सन्तापबहुलामिमाम् ॥ १६ ॥ अहं त्वैतितनुश्चैव वानरश्च विशेषतः ॥ वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ॥ १७ ॥ यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् || रावणं मन्यमाना मां सीता भीता भविष्यति ॥ चानरस्य विशेषेण कथं स्यादभिभाषणम् ॥ १८ ॥ अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् ॥ मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता ॥ १९ ॥ ॥ ४–५ ॥ समाश्वासयितुं युक्तं न्याय्यं || ६ || | व्यर्थ अनाश्वास्य गमने तदागमनपर्यन्तं देव्याः आश्वासयामि “ वर्तमानसामीप्ये वर्तमानवद्वा " प्राणानवस्थानादिति भावः ॥१५॥ राक्षसीनां अन्तरं इति लट् ॥ ७–८ ॥ दोषवत्त्वमुपपादयति — गते अवकाशं विच्छेदं वा राक्षस्यसन्निधानसमयमित्यर्थः हीति ॥ ९ ॥ समाश्वासयितुं न्याय्य : सीतासंदेशक- ॥ १६ ॥ अतितनुः अतिसूक्ष्मतनुः । संस्कृतां थनेनेति शेषः ।। १०-१२ ॥ सीताब्रवीद्वच इत्यत्रे- प्रयोगसौष्ठवलक्षणसंस्कारयुक्तां ॥ १७ ॥ गीर्वाणभा- तिकरणं द्रष्टव्यं ।। १३ – १४ ।। भर्तारं सुग्रीवं । षया व्यवहारे दोषमाह - यदीति ॥ १८ ॥ अथमानु- ॥ २॥ ति० राक्षसानांविशेषः तारतम्य मैश्वर्यादिकृतं ॥५॥ ति० अप्रमेयस्य अपरिच्छेद्यस्वरूपस्यापरिच्छेद्यगुणस्यच " स० सर्व- सत्वदयावतइति । सर्वेअरिहिंसाविषयेसत्ववान् बलवांश्चासौदयावांश्चतस्य । सर्वबलवान्सर्वदयावांस्तस्येतिवा सर्व प्राणिषुदयावां- स्तस्येतिवा। समाश्वासयितुं मयायुक्तमितिशेषः ॥६॥ स० आश्वासयामीतिवर्तमानसामीप्याल्लडर्थेलट् । अथवा किसाप्रबन्धेलडि. त्युफ़ेर्धात्वर्थमात्रेलडवन्योग्येऽर्थेऌडर्थेभविष्यतीति लटउपपत्तेः । अन्तं पारं । नाधिगच्छन्ती । यद्वा दुःखस्य कर्मयोषष्ठी। दुःखं नयन्तंबघ्नन्तं क्षणेक्षणेदुः खनूतनयन्तमितियावत् । तंरावणं प्रकारंवा । अधिगच्छंतीं प्राप्नुवन्तीं । रामाश्वासनपरत तयाशेषेणचा- र्थापयतस्तीर्थस्योत्तरश्लोकइव इतरेषांतदुत्तर श्लोकः साधकइत्युभयव्याकरणे समूले इतिज्ञेयं ॥ ७ ॥ स० यद्यपिरावणमरणेनदेव- ताप्रयोजनंभविष्यतीति नसर्वात्मनावैयर्थ्यो । तथापि सीतावाप्तिरूपैहिकफलालाभाद्वैयर्थ्यमेवेतिभावः ॥१५॥ ति० मानुष मनु- घ्यशरीरसायां । संस्कृतां व्याकरणसंस्कारवर्ती ॥ स० वाचंचोदाहर्तव्यांविकल्प्यैकां निश्चिनोति -- अहंहीति । मानुषीसंस्कृतांवा वाचं । संस्कृतायाविकल्पको टौप्रथम तो निर्देशस्यमुख्यत्वेनन्याय्यत्वेपि मानुष्याएवभाषायाः सीतयासहभाष्यत्वेना निर्धार्यमाण- त्वात् तस्याएवादौनिवेशोयुक्तइतिनानौचिती ॥ १७ ॥ स० सीताभीतेति | रावणस्यविश्रवस्सुतत्वेनगीर्वाणवाणीततमः संभा- [ पा० ] १ ङ. झ. ट. चेयंनिरीक्षिता. ३ झ. दुःखस्यनयन्तमधिगच्छत ४ङ. श. ट. यदिश्यहंसतीमेनां. क. घ. च. छ. ज.ब. यदिह्यहमिमामेवं. ५ ङ. – ट. मपश्यन्ती. क. ग. मजानन्ती ६ ङ. झ.. यथाव ७ क. ग. घ. च. छ. ज. ज. मक्षमंचापि ङ. झ. ट. मक्षमंचाभिभाषितं. ८ ङ. झ. ट. क्रोधतीव्रेण. च. ज. नं. कुपितस्तीक्ष्णचक्षुषा ९ ड. झ. न. ट. वोद्योजयिष्यामि . १० क. ग. घ. सुग्रीवं. ११ झ. द. मवस्थितः १२३९. झ. ट. राश्वासयाम्यद्य १३ क. ख. ग. ड.ट. त्यतितनुः १४ ञ ट प्रवक्ष्यामि . २ ङ. झ. ट. यथा. . 1 (