सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1, i 4 सर्गः २८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । मोघो हि धर्मश्चरितो मयाऽयं तथैकपत्नीत्वमिदं निरर्थम् ॥ या त्वां न पश्यामि कृशा विवर्णा हीना त्वया संगमने निराशा ॥ १३ ॥ पितुर्निदेशं नियमेन कृत्वा वनान्निवृत्तवरितव्रतश्च ॥ स्त्रीभिस्तु मन्ये विपुलेक्षणाभिस्त्वं रंस्यसे वीतभयः कृतार्थः ॥ १४ ॥ अहं तु राम त्वयि जातकामा चिरं विनाशाय निबद्धभावा ॥ मोघं चरित्वाऽथ तपो व्रतं च त्यक्ष्यामि धिग्जीवित मैल्पभाग्या ॥ १५ ॥ सॉ जीवितं क्षिप्रमहं त्यजेयं विषेण शस्त्रेण शितेन वाऽपि ॥ विषस्य दाता न हि मेऽस्ति कश्चिच्छस्त्रस्य वा वेश्मनि राक्षसस्य ॥ १६ ॥ इतीव देवी बहुधा विलप्य सर्वात्मना राममनुस्मरन्ती ॥ प्रवेपमाना परिशुष्का नगोत्तमं पुष्पितमाससाद ॥ १७ ॥ शोकाभितप्ता बहुधा विचिन्त्य सीताऽथ वेण्युद्रथनं गृहीत्वा || उद्धध्य वेण्युद्धथनेन शीघ्रमहं गमिष्यामि यमस्य मूलम् ।। १८ ।। उपस्थिता सा मृदुसर्वगात्रा शाखां गृहीत्वाऽथ नगस्य तस्य ॥ १९ ॥ तस्यास्तु रामं प्रविचिन्तयन्त्या रामानुजं स्वं च कुलं शुभाड्याः || शोकांनिमित्तानि तथा बहूनि धैर्यार्जितानि प्रवराणि लोके ॥ प्रादुर्निमित्तानि तदा बभूवुः पुराऽपि सिद्धान्युपलक्षितानि ॥ २० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टाविंशः सर्गः ॥ २८ ॥ १०९ ममेदं तस्मिन्न काचिन्यूनता | ममैव दुष्कृतमत्र हेतुः | वेणीबन्धनं | यमस्य मूलं यमस्य समीपं । अत्रेतिक- ॥ १२ – १३ ।। पितुर्निदेशं आज्ञां नियमेन अवि- रणं बोध्यं । इति विचिन्त्य नगोत्तमां शिशुपामास- छेन कृत्वा चरिततः चरितवन्यवृत्तिव्रतः वना- साद | शिंशुपां तामुपागमदिति पूर्वमुक्तं । तस् निवृत्तश्च सन् । स्त्रीभिस्तु मत्तोपि विलक्षणाभि: सामीप्येन गमनमद्योच्यते । पुष्पितं शुभसूचनं । स्त्रीभिः त्वं र॑स्यसे । वीतभयः गतवनवासभयः । यद्वा पुष्पितमाससाद अभिप्रवेशं कुर्वन्तीवेत्यर्थः कृतार्थः निष्पन्नसर्वपुरुषार्थः। मद्विनाशेन पुनर्बह्वीरूवा ।। १७–१८ ।। उपस्थितेत्यर्धमेकं वाक्यं ॥ नगस्य स्यस इति भावः ॥ १४ ॥ त्वयि जातकामा अत- शाखां गृहीत्वा उपस्थिता ॥ १९ ॥ स्वं च कुलं एव त्वयि निबद्धभावा निबद्धहृदया । विनाशाय विचिन्तयन्त्या इत्यनेन दुर्मरणाद्वीतत्वं व्यज्यते । त्वयि निबद्धभावेति दुःखातिरेकोक्तिः । तपः अनशनं । शोकानिमित्तानि शुभसूचकानीत्यर्थः । धैर्यार्जितानि व्रतं नियमं | अल्पभाग्या जन्मान्तरसुकृतरहिता । अर्जितधैर्याणि । धैर्यकराणीत्यर्थः । लोके प्रवराणि इदानीमनुष्ठितानां तपोव्रतादीनां जन्मान्तरफल- लोके प्रसिद्धानीत्यर्थः । प्रवरं हि प्रसिद्धं भवति । दुत्वेन मोघत्वोक्तिः । अतएवाल्पभाग्येत्युक्तं ॥ १५ ॥ प्रादुर्बभूवुरित्यन्वयः । पुरापि सिद्धान्युपलक्षितानि वेश्मनि साक्षस॒स्य। एवं सम्यङ्मरणकारी क्रूरस्यास्य पूर्वमपि फलव्याप्तत्वेन दृष्टानि | तान्युत्तरसर्गे विव गृहे कथं लभ्येतेति भावः ॥ १६ ॥ वेण्युद्रथनं रिष्यति ॥ २० ॥ इति श्रीगोविन्दराजविरचिते उपकृतं ॥ १२ ॥ ति० वेश्मनिराक्षसस्येत्येतदनन्तरंइतीवदेवीत्यादिरेकः श्लोकःप्रक्षिप्तः ॥ १६ ॥ वि० शोकाभितप्तेत्यादिसार्ध- श्लोकमेक॑वाक्यं । शोकाभितप्तासीताबहुधाविचिन्त्यवेण्युद्रथनंगृहीत्वा वेण्युद्रथनेनउद्वध्य उद्धंधनं कृत्वायमस्यमूलंसमीपंगमिष्यामी- तिनगशाखांगृहीला उपस्थिताअवस्थितेतिसंबन्धः ॥१८॥ ति० विशोकानि विशोककराणि ॥ २० ॥ अष्टाविंशः सर्गः ॥ २८ ॥ [ पो० ] १ क. गं. ट. मोघंहि. २ ग. घ. ङ. झ. ट. निरर्थकं. ३ क. ङ. - ट. स्संरस्यसे. ४ ङ. झ. ट. मल्पभाग्यां. ५ ङ. झ. ट. संजीवितं. ६ क. ख. ग. सीता. ७ झ ट वेणीग्रथनं. ८ क. ख. ग. ङ. ट. सर्वगात्री.

  • ९ ङ. झ. न. ट. परिचिन्तयित्वा १० ङ. झ, तस्याविशोकानितदा. क. ग. शोकापनोदानितदा.