पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ श्रीमद्वाल्मीकिरामायणम् । . दुःखं बतेदं मम दुःखिताया मासौ चिरायाधिगमिष्यतो द्वौ ॥ बद्धस्य वध्यस्य तथा निशान्ते राजापराधादिव तस्करस्य ॥ ७ ॥ हा राम हा लक्ष्मण हा सुमित्रे हा राममातः सह मे जैनन्या ॥ एषा विपद्याम्यहमल्पभाग्या महार्णवे नौरिव मैढवाता ॥ ८ ॥ तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेन्द्रपुत्रौ || नूनं विशस्तौ मम कारणात्तौ सिंहर्षभौ द्वाविव वैद्युतेन ॥ ९ ॥ नूनं स कालो मृगरूपधारी मामल्पभाग्यां लुलुभे तदानीम् ॥ यंत्रार्यपुत्रं विससर्ज मूढा रामानुजं लक्ष्मणपूर्वजं च ॥ १० ॥ हा. राम सत्यव्रतं दीर्घबाहो हा पूर्णचन्द्रप्रतिमानव ॥ हा जीवलोकस्य हितः प्रियच वयां न मां वेत्सि हि राक्षसानाम् ॥ ११ ॥ अनन्यदेवत्वमियं क्षमा च भूमौ च शय्या नियमच धर्मे ॥ पतिव्रतात्वं विफलं ममेदं कृतं कृतभेष्विव मानुषाणाम् ॥ १२ ॥ [ सुन्दरकाण्डम् ५ 66 नापितः ॥ ६॥ चिरायदुःखिताया मम द्वौ मासौ | प्राधान्येन सह पत्येति ह्युक्तं । नारायणमाराधयतो वधस्यावधिभूतौ अधिगमिष्यतः । इदं दुःखं बत । कस्य दुःखमिव । राजापराधात् बद्धस्य तथा निशान्ते वध्यस्य तस्करस्येव दुःखं । यथेति पाठे इवशब्दो वाक्यालंकारे ॥ ७ ॥ मूढो वात्यारूपो वातो यस्यास्सा मूढवाता । वात्याहतेत्यर्थः । “मूढस्तन्द्रितवात्ययोः” इतिविश्वः ।।८।। मृगस्य रूपं धारयता सत्त्वेन जन्तुना | मम कारणात् मन्निमित्तं । विशस्तौ हिंसितौ । द्वौ सिंहर्षभाविव द्वौ सिंहाविव द्वौ वृषभाविवेत्यर्थ: । वैद्युतेन अशनिना ||९|| लुलुभे प्रलोभयामास | यत्र यस्मिन्काले । विससर्जेति सृजेर्लिट्युत्तमपुरुषैकवचनं । रामानुजं लक्ष्मणपूर्वजं च । परस्परस्य सहशावि- त्युक्तपरस्परसादृश्यात् । बाल्यात्प्रभृति सुस्निग्धतया च परस्परनिरूपकभूतौ ॥ १०-११ ॥ अनन्यदे- वत्वं आश्रयणीया देवतान्यास्ति सा रक्षिष्यतीति बुद्धि नास्ति । रामस्यपरिचारिकास्मीत्यर्थः । इयं क्षमा च | रावण- परुषाक्षराणि राक्षसीनां तर्जनभर्त्सनादीनि राममधु- |रालापश्रवणकुतूहलेन ह्यहं क्षान्तवती । भूमौ च शय्या | तवाङ्के समुपाविशमित्येवंविधभोगःकदाचि- दपि किं सेत्स्यतीत्याशया हि मया भूमौ शयनं क्रियते । नियमञ्च धर्मे । रक्षकत्वधर्मोपि तस्मिन्नेवेति मनीषया हि मया स्थितं । न त्वां कुर्मि दशग्रीव भस्म भस्मार्ह तेजसा " इत्युक्तिरपि तं दृष्ट्दैव । पतिव्रतात्वं एतद्व्रतं ममेत्युक्तं व्रतं विना मम किञ्चि- द्रुतं नास्तीत्यर्थः । पत्युव्रतमेव व्रतं यस्यास्सा पतिव्रता तस्या भावः पतिव्रतात्वं । विफलं ममेद अमोघमपि मोघमासीत् । कस्येवेति चेत्तत्राह- कृत कृतघ्नेष्विव मानुषाणां । " आत्मानं मानुषं मन्ये " इत्युक्तरीत्या मानुषत्वं रामस्याप्यस्ति । अतस्तदितरमानुषाणां मध्ये 16 33 नारायणमुपागमत् इत्यत्राप्य - | कृतघ्नेषु कृतं कार्यमिव । अस्य किं मूल मिति चेत् कीत्याह — तस्मिन्निति । अनागच्छत्येववध प्रसक्तिर्नान्यथेतिभावः । अनागमनपक्षेत्राप्त विशसनेदृष्टान्तः गर्भस्येति ॥ ६ ॥ ति० चिरायभर्तृवियोगदुःखितायामेइदं विशसनदुःखमपिबतागमिष्यति । यतोद्वौमासौविशसनावधिभूतौकतिपयदिनावधि कावप्यभिग- मिष्यतः शीघ्रंगमिष्यतः किल । तत्रवधप्राप्तौदृष्टान्तः बद्धस्येति । तस्करस्यवधइवेतिशेषः । स० दुःखितायामम । द्वौ मासौ यद्यपि चिरायबहुव्यवधानरूपौ । तथापि ममदुर्दैववशात्तावभिगमिष्यतः शीघ्रमागमिष्यतः ॥ ७ ॥ स० मूढाऽहं विसस र्जेत्यन्वयः । प्रलापकालवाल्लिट्संभवति 'सुप्तोऽहंकिलविललाप' 'बहुजगदपुरस्तात्तस्यमत्ताकिलाऽहं' इत्यादिवत् अहंविससार्ज अपरोक्ष- पिचित्तविक्षेपादिनापारोक्ष्यमारोप्यलिट् ॥ १० ॥ ति० हारामेत्यादौ हेराममांहा अहंशोचेइत्यर्थः । हाजीवममप्राणीप | हितो हितकरः प्रियश्चेत्यस्य त्वमितिशेषः ॥ ११ ॥ ति० घर्मोरक्षतीतिसर्वाविवाद सिद्धमपिमांप्रतिनिष्फलमित्याह-अनन्यदेवल- मिति । पत्येकदेवत्वमित्यर्थः । इयंक्षमा शापेनसंहारशक्तावप्येवंपीडासहनरूपा । पत्यतिरिक्त कामासक्तिराहित्यं पतिव्रतास्त्वं । कृतं [ पा० ] १ क. घ. च. – ट. यथा. २ ङ. झ. ट. जनन्यः ३ च. छ. मन्दवाता. ४ ङ. झ. न. ट . यत्रार्यपुत्रो. 7.