पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7 & सर्ग: २७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १०५ प्रियां बहुमतां भार्या वनवासमनुव्रताम् || भसितां तर्जितां वाऽपि नानुमंस्यति राघवः ॥ ५१ ॥ तदलं क्रूरवाक्यैर्वः सान्त्वमेवाभिधीयताम् || अभियाचाम वैदेहीमेतद्धि मम रोचते ॥ ५२ ॥ यस्यामेवंविधः स्वप्नो दुःखितायां प्रदृश्यते ॥ सा दुःखैर्विविधैर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम् ॥ ५३ ।। भसितामपि याचध्वं राक्षस्यः किं विवक्षया || राघवाद्धि भयं घोरं राक्षसानामुपस्थितम् ॥ ५४ ॥ प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा | अलमेषा परित्रातुं राक्षस्यो महतो भयात् ॥ ५५ ॥ अपि चास्या विशालाक्ष्या न किंचिदुपलक्षये || विरूपमपि चाङ्गेषु सुसूक्ष्ममपि लक्षणम् ।। ५६ ॥ छायावैगुण्यमात्रं तु शङ्के दुःखमुपस्थितम् || अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम् ।। ५७ ।। अर्थसिद्धिं तु वैदेयाः पश्याम्यहमुपस्थिताम् ॥ राक्षसेन्द्रविनाशं च विजयं राघवस्य च ॥ ५८ ॥ निमित्तभूतमेतत्तु श्रोतुमस्या महत्प्रियम् || दृश्यते च स्फुरञ्चक्षुः पद्मपत्रमिवायतम् ॥ ५९ ॥ ईषञ्च हॅषितो वास्या दक्षिणाया ह्यदक्षिणः || अकस्मादेव वैदेद्या बाहुरेकः प्रकम्पते ॥ ६० ॥ करेणुहस्तप्रतिमः सव्यथोरुरनुत्तमः || वेर्षंमानः सूचयति राघवं पुरतः स्थितम् ॥ ६१ ॥ पक्षी च शाखानिलयः प्रहृष्टः पुनः पुनश्चोत्तमसान्त्ववादी || सुखागतां वाचमुदीरयानः पुनः पुनश्चोदयतीव हृष्टः ॥ ६२ ॥ । सीतामा सीतामचिरेणाप्स्यतीत्यर्थः । | क्षणलक्षिताया अपि छायावैगुण्यमेतावद्दु:खकरमासी- सर्वैः राक्षसैस्सार्धं घातयेत् । व इति सिद्धं । अपग- दिति भावः ॥ ५७-५८ ॥ इदानीं रामवार्ताश्रवण- च्छत नश्यध्वमित्युक्तेः । रावणमित्यध्याहारो वा सूचकमाह - निमित्तभूतमिति ॥ चक्षुरिति अदक्षिण- ॥ ५० ॥ नानुमंस्यति न सहिष्यत इत्यर्थः ॥ ५१ ॥ मित्येतदत्राप्यनुषज्यते । हृषितो वा हृष्ट इव पुलकित अभियाचाम अभयमिति शेषः ॥ ५२-५३ ॥ किं इव | पद्मपत्रमित्यनेन रोगादिदृष्टहेत्वन्तरराहित्यमुक्तं । विवक्षया अस्माभिस्तदा भर्त्सिता कथं प्रसन्ना अकस्मात् दृष्टहे त्वन्तरं विना ॥ ५९-६१ ॥ एवं भविष्यतीति वक्तुमिच्छया किं । शङ्का न कर्तव्ये- देहनिमित्तमुक्त्वा शाकुनमप्याह-पक्षीति ॥ पक्षी त्यर्थः ॥ ५४ ॥ कुत इत्यत आह - प्रणिपातप्रसन्ना पिङ्गलिका । शाखानिलयः प्रहृष्टः । पुनःपुनश्चोत्त- हीति ॥ ५५ ॥ स्वप्नदर्शनकथनेन सीतायाः शोभनं मसान्त्ववादी भूयोभूयो मधुरवादी । उत्तरोत्तरमु भावीत्यभिधाय शरीरलक्षणप्रदर्शनेनापि शुभं भावी |त्तमसान्त्वस्वरवादी वा । सुस्वागतां शोभनबन्ध्वागम- त्याह --अपिचेति ॥ लक्षणं दुःखप्राप्तिहेतुभूतं रेखो- नमिति यावत् । “बन्धुस्वस्वजनास्समाः " इत्यमरः । वाचं स्वरमुदीरयानः चोदयतीव रामागमनं कथय- तीव । यद्वा पूर्वोक्तराघव एव कर्म । राघवमुपपादय- तीवेत्यर्थः । आचार्यास्तु पक्षावस्य स्त इति पक्षी गरुत्मान् | भूम्नि प्रशंसायां च मत्वर्थीयः । तदुक्तम् ||५६ ॥ तर्हि कुतस्तादृशदुःखानुभव इत्याह —छायेति ॥ छायावैगुण्यमात्रं उपलक्षय इत्यनुषज्यते । वैहायसं विमानं । उपस्थितां प्राप्तां । दिव्यभोगार्हामिति यावत् । अन्वयस्तु छायावैगुण्य- मात्रं तूपलक्षये अतः अदुःखार्हो दिव्यभोगार्हामिमां – “भूमनिन्दाप्रशंसासु नित्ययोगेतिशायने । संस- दुःखं उपस्थितमिति शङ्क इति । अत्र छायावैगुण्यं नाम गैस्तिविवक्षायां भवन्ति मतुबादयः " इति ॥ कान्तिवैकल्यं । " छायात्वनातपेकान्तौ " इत्यमरः । तथाच पक्षौ विस्तार्य प्रदक्षिणं सञ्चरन् । शाखानि- यद्वा छायात्राऽनातपः तद्वैगुण्यं तस्य विषमत्वं । सर्वल- लय: कुसुमितपल्लवितशाखायां दृढतरं स्थितः । । ति० किविवक्षया कुत्सितभर्त्सनादिवचनेच्छया । अलमितिशेषः । तत्रहेतुः राघवादिति ॥ ५४ ॥ ति० सुखागतां शोभनय गतंत्राप्तिर्यस्यां तादृशींवाचं | चोदयतीव शोभनप्राप्तिसूचयतीव ॥ ६२ ॥ इतिसप्तविंशः सर्गः ॥ २७ ॥ [] पाο] ] १ ङ. झ. ट. वाक्यैश्च २ क. ग. च. ज.-ट. यस्याह्येवंविधः घ. यस्यास्त्वेवंविधः ३ क. ग. च. झ. ज. ट. दुःखितायाः. ४ क॰—ट. दुःखैर्बहुभिः ५ घ. च. छ. ज. हृषितोबाहुः ६ ङ. झ ट . वेपन्कथयतीवास्याः, ७ क. ख. ग. ङ. ट. शाखानिलयंप्रविष्टः, बा. रा. १६२