पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ रावणश्च मया दृष्टः क्षितौ तैलसमुक्षितः || रक्तवासाः पिबन्मत्तः करवीरकृतस्रजः ॥ ३४ ॥ विमानात्पुष्पकादद्य रावणः पैतितो भुवि ॥ कृष्यमाणः स्त्रिया दृष्टो मुण्ड: कृष्णाम्बरः पुनः ||३५|| रथेन खरयुक्तेन रक्तमाल्यानुलेपनः ॥ पिवंस्तैलं हसन्नृत्यन्भ्रान्तचित्ताकुलेन्द्रियः || गर्दन ययौ शीघ्रं दक्षिणां दिशमस्थितः || ३६ ॥ पुनरेव मया दृष्टो रावणो राक्षसेश्वरः || पतितोऽवाक्छिरा भूमौ गर्दभाद्भयमोहितः ॥ ३७ ॥ सहसोत्थाय संभ्रान्तो भयार्तो मदविह्वलः | उन्मत्त इव दिग्वासा दुर्वाक्यं प्रलपन्बहु ॥ ३८ ॥ दुर्गन्धं दुःसहं घोरं तिमिरं नरकोपमम् || मलपङ्कं प्रविश्याशु मनस्तत्र स रावणः ॥ • प्रस्थितो दक्षिणामाशां प्रविष्टः कर्दमदम् ] ॥ ३९ ॥ कण्ठे बच्चा दशग्रीवं प्रमदा रक्तवासिनी ॥ काली कर्दमलिताङ्गी दिशं याम्यां प्रकर्षति ॥ ४० ॥ एवं तत्र मया दृष्ट: कुम्भकर्णो निशाचरः ॥ रावणस्य सुताः सर्वे दृष्टास्तैलसमुक्षिताः ॥ ४१ ॥ वराहेण दशग्रीवः शिंशुमारेण चेन्द्रजित् || उष्ण कुम्भकर्णश्च #यातो दक्षिणां दिशम् ॥ ४२ ॥ एकस्तत्र मया दृष्टः श्वेतच्छत्रो विभीषणः ॥ शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः || शङ्खदुन्दुभिनिर्घोषैर्नृतगीतैरलङ्कृतः ॥ ४३ ॥ आरुह्य शैलसंकाशं मेघस्तनितनिस्स्वनम् ॥ चतुर्दन्तं गजं दिव्यमास्ते तत्र विभीषणः || चतुर्भि: सचिवैः सार्धं वैहायसमुपस्थितः ॥ ४४ ॥ समाजश्र मँया दृष्टो गीतवादित्रनिःस्वनः ॥ पिवतां रक्तमाल्यानां रक्षसां रक्तवाससाम् ॥ ४५ ॥ लङ्का चेयं पुरी रम्या सवाजिरथकुञ्जरा || सागरे पतिता दृष्टा भग्नगोपुरतोरणा ॥ ४६ ॥ लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता || दग्धा रामस्य दूतेन वानरेण तरस्त्रिना ॥ ४७ ॥ पीत्वा तैलं ॲनृत्ताश्च प्रहसन्त्यो महावनाः ॥ लङ्कायां भँमरूक्षायां प्रविष्टा राक्षसस्त्रियः ॥ ४८ ॥ कुम्भकर्णादयश्चेमे सर्वे राक्षसपुङ्गवाः ॥ रक्तं निवसनं गृह्य प्रविष्टा गोमयदे ॥ ४९ ॥ अपमच्छत नैश्यध्वं सीतामाप स राघवः ॥ घातयेत्परमामर्षी सर्वैः सार्धं हि राक्षसैः ॥ [ रॉवणं राघवो घोरे भार्याहर्तारमाहवे ] ॥ ५० ॥ ॥ १८–३३॥ पिबन्निति । तैलसमुक्षित इत्यनेन | नाशसूचकमुक्त्वा विभीषणस्य राज्यप्राप्तिसूचकमाह तैलमित्युपस्थाप्यते । करवीरकृतस्रज इत्याकारान्तत्व- - एकस्तत्र मया दृष्टः श्वेतच्छत्र इत्यादिना ॥ ४३ ॥ मार्ष | हलन्ताद्वा इत्यापो विधानात् सक्छब्दस्याब- वैहायसं विमानं ॥ ४४–४९ ॥ न्तत्वेन वा निर्वाहः ॥ ३४-४२ ॥ एवं रावणवि- | अपसरत | नश्यध्वं अदर्शनं प्राप्नुत । आत्मनेपद - अपगच्छत स० करवीरकृतस्रजइतिरावणविशेषणं । करवीरैः रक्तकरवीरपुष्पैः कृतास्रजामालायस्यसतथा । " टापंचैव "इत्याद्युक्तेः । विमानविशेषणत्वेतु पृथक्साक्षादपशकुनत्वाप्रतीत्यस्वारस्यं । नचनागोजिभट्टेन टापंचैवेत्यादेःशब्देन्दुशेखरेऽनङ्गीकृत त्वेन कथमेत - दितिवाच्यं । बहुप्रयोगविलवापत्तेःसाहसमात्रंत दित्यवधेयं । रक्तमाल्यानुलेपन इत्युत्तरग्रन्थानुगुण्याच्च ॥ ३४ ॥ १० स्त्रियासह मुण्डस्तया कृष्यमाणइत्यन्वयः । सुवासिनीकर्षणस्यहर्षहेतुत्वात् । अतउभयत्रतथाविधतायुक्ता | अपशकुनान्तरलाभाच्च । अथवा स्त्रियानीलवासोदन्तादिमत्या ॥ ३५ ॥ [ पा० ] १ ङ. झ ञ ट. मुण्डस्तैल. कृष्णांबरावृतः ५ ङ. च. ज. – ट. माश्रितः महाबलः ९ क. ग. – ट. मुण्डास्तैल. २ ङ. झ. ट. पतितःक्षितौ ३ झ. ट. मुण्डोदृष्टः. ४ क. च छ ज.म. ६ ङ. झ. ट. उन्मत्तरूपो. ७ इदमर्धे क. ङ. ट. पाठेषुदृश्यते. ङ. झ. ट. १० क. घ. च. छ. जं. ट. प्रयातादक्षिणां. ११ घं. ङ. च. ज. ल. दोघसंकाशं. १२ क. राघवंसमुपस्थितः १३ झ ञ ट महान्वृत्तो. १४ घ. नर्दतां. १५ क. ङ. छ. – ट. प्रमत्ताच. ग. घ. घनृत्यन्ति १६ घ. भस्मदिग्धायां. १७ क. ग. - ट. सर्वाराक्षसयोषितः १८ क. घ. ङ. झ. ट. गोमयहदं. १९ क. घ.. पश्यध्वं. २० ङ. झ. ट. सीतामाप्नोति. ग. सीतांसंप्राप्य २१ झ ट युष्मान्सा. २२ इदम क. पाठेदृश्यते.