पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १०१ किंनु॑ मे न गुणाः केचिकिवा भाग्यक्षयो मम ॥ याऽहं सीदामि रामेण हीना मुख्येन भामिनी ॥४४॥ मे जीविता विहीनाया महात्मनः ॥ रामादक्लिष्टचारित्राच्छ्रराच्छत्रुनिबर्हणात् ॥ ४५ ॥ अथवा न्यस्तशस्त्रौ तौ वने मूलफलाशिनौ ॥ भ्रातरौ हि नरश्रेष्ठौ संवृत्तौ वनगोचरौ ॥ ४६ ॥ अथवा राक्षसेन्द्रेण रावणेन दुरात्मना || छद्मना साँदितौ शूरौ भ्रातरौ रामलक्ष्मणौ ॥ ४७ ॥ साऽहमेवं गते काले मर्तुमिच्छामि सर्वथा ॥ न च मे विहितो मृत्युरस्सिन्दुःखेऽपि वर्तति ॥४८॥ धन्याः खलु महात्मानो मुनयस्त्यक्त किल्बिषाः ॥ जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये ४९ प्रियान्न संभवेद्दुःखमप्रियाधिकं भैयम् || ताभ्यां हि " ये वियुज्यन्ते नमस्तेषां महात्मनाम् ॥ ५० ॥ साऽहं त्यक्ता " प्रियेणेह रामेण विदितात्मना ॥ प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम् ॥५१॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षड्विंशः सर्गः ॥ २६ ॥ १३ सप्तविंशः सर्गः ॥ २७ ॥ सीतांसंतर्जयन्तीराक्षसीः प्रति स्वापात्प्रबुद्ध्यात्रिजटाख्ययाराक्षस्या स्वेनसीताराघवयोः स्वबन्धोरावणस्यच क्रमेणाभ्यु दयानभ्युदयसूचकाद्भुतस्त्र प्रदर्शन निवेदनेन सभर्त्सनंसीतातर्जनप्रतिषेधनपूर्वकं दूरेतासामपसारणम् ॥ १ ॥ तथा तासां प्रार्थनया ताः प्रति स्वस्य स्वाप्निकार्थदर्शन प्रकारनिरूपणपूर्वकं सीतायाविजयाशंसकशुभशकुन प्रदर्शनम् ॥ २ ॥ इत्युक्ता: सीतया घोरों राक्षस्यः क्रोधमूच्छिताः ॥ काँचिज्जग्मुस्तदाख्यातुं रावणस्य तैरखिनः ॥१॥ ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः ॥ पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन् ॥ २ ॥ ॥ ५१ ॥ इति श्री गोविन्दराजविरचिते श्रीमद्रामायण- भूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षड्विंशः सर्गः॥ २६ ॥ ॥ ४३ ॥ नगुणाः दुष्कृतानि ॥४४॥ मर्तुमिति | प्रियाप्रियाभ्यां । नमस्तेषां त एव सर्वोत्तमा इत्यर्थः भावार्थे तुमुन् । मरणमित्यर्थः । महात्मनः रामाद्वि- ॥ ५० ॥ साहं तद्विलक्षणाहं । केवलप्रियपरेत्यर्थः । हीनाया: महात्मना रामेण हीनायाः । तृतीयार्थे | प्रियेण त्यक्ता अप्रियं प्राप्ता । प्राणांस्त्यक्ष्यामीत्यर्थः पञ्चमी ||४५|| न्यस्तशस्त्रौ संवृत्तौ किमिति संबन्धः ।। ४६ ।। सादितौ हतौ ।। ४७ ॥ वर्ततिवर्तमाने ॥ ४८ ॥ महात्मानः महाधैर्याः। त्यक्तकिल्बिषाः त्यक्तपापा: । जितात्मानाः जितान्तःकरणाः । महाभागाः महा- भाग्याः ॥४९॥ प्रियान्न संभवे दुःखं किंतु सुखमेव भवेदित्यर्थः । प्रियात् अनुकूलवस्तुनः | अप्रियात् प्रतिकूलवस्तुनः । अधिकं भयं अधिकं दुःखं । ताभ्यां । ति-मतदुपेक्षाहेतवः केचनअगुणाः दोषाः स्युः । अयमपिपक्षोनयुक्तः । स्वापरिज्ञातस्वापचाराभावात् । तस्मात्प्राग्भवी- यदुष्कर्म भाग्यक्षय एवहेतुरित्याह – किंवेति ॥४४॥ ति० भाग्यक्षय निश्चयस्य कर्तुमशक्यत्वात्पक्षान्तरं – अथवेति ॥ ४६ ॥ ति० इदमप्यसंभावितं | रक्षोभिःकृतवैरेणक्षत्रियेणतत्त्यागायोगात् । अतःपक्षान्तरं – अथवेति ॥४७॥ इतिषशःसर्गः॥२६॥ स० तवत् सीताव्यवसितमरणं ॥ १ ॥ स० एकार्थं रावणसंगमरूपैकाभिधेययुक्तं । अनर्थः राक्षसविनाशरूपः अर्थः प्रयो- [फर्क ] १ ङ. झ ञ ट. किंवामय्यगुणाः. २ क. ग. – ट. क्षयोहिमे. क. ग. घ. ङ. झ ञ ट याहिसीतावरार्हे- णहीनारामेणभामिनी. ३ क. श्रेयोहि ४ ख. घ. च. ज. झ. महात्मना. ५ क. ग. - ट. चरन्तौ. घातितो. ७ क. घ. वीरौ ८ ङ. ट. मेवंविधे. ९ ङ. झ ञ ट दुःखेऽतिवर्तति. १० क. ग. ट. मुनयः सत्यसंमताः ११. महात्मानो. १२ ड. - ट. भवेत् १३ झ. तेवियुज्यन्ते १४ ङ. झ. ट. प्रियेणैव १५ ग. ङ. झ. ट. घोरं. १६ घ स्थिताःकाश्चिद्गताःकाश्चिद्रावणायनिवेदितुं. १७ ङ. झ ञ ट दुरात्मनः ६ ख. ग. ङ. ट. तत् मरणाध्यवसायं ॥ ॥ एकार्थे पूर्वोक्तवचनै- रेकाभिधेयं । अनर्थार्थी अनर्थफलकं । एकाक्ष्यादयः पूर्वोक्तार्थमेव परुषवचनं पुनरब्रुवन्नित्यर्थः ॥ २ ॥