पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ ७८ तस्य तद्वचनं श्रुत्वा रामो वचनमब्रवीत् ।। वचसा सान्त्वयित्वैनं लोचनाभ्यां पिबन्निव ॥ ६ ॥ आख्याहि मम तत्वेन राक्षसानां बलाबलम् ॥ ७ ॥ एवमुक्तं तदा रक्षो रामेणाक्लिष्टकर्मणा ॥ रावणस्य बलं सर्वमाख्यातुमुपचक्रमे ॥ ८ ॥ अवध्यः सर्वभूतानां गैन्धर्वासुररक्षसाम् । राजपुत्र दशग्रीवो वरदानात्खयंभुवः ॥ ९ ॥ रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् ॥ कुम्भकर्णं महातेजाः शक्रप्रतिबलो युधि ॥ १० ॥ राम सेनापतिस्तस्य प्रहस्तो यदि वा श्रुतः ॥ कैलासे येन संग्रामे माणिभद्रः पराजितः ॥ ११ ॥ बद्धगोधाङ्गुलित्राणस्त्ववध्यकवचो युधि । धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ॥ १२ ॥ संगमसमयव्यूहे तर्पयित्वा हुताशनम् । अन्तर्धानगतः शैथुनिन्द्रजिद्धन्ति राघव ॥ १३ ॥ महोदरमहापाश्च राक्षसश्चाप्यकम्पनः। अनीकस्थास्तु तस्यैते लोकपालसमा युधि ॥ १४ ॥ दशकोटिसहस्राणि रक्षसां कामरूपिणाम् । मांसशोणितभक्षाणलङ्कापुरनिवासिनाम् ॥ १५ ॥ स तैस्तु सहितो राजा लोकपालानयोधयत् ॥ १६ ॥ सह देवैस्तु ते भग्ना रावणेन चैहात्मना ॥ १७॥ वासस्थानं । मित्राणि सुहृदः । धनानि तद्दारा | स्वसाम्यप्रदंहि भगवदाश्रयणवैभवं ॥७- -८॥ सर्व- समागतानि सोपाधिकानि वस्तूनि प्राप्यान्तराणि | भूतानामित्येतत् गन्धर्वादिव्यतिरिक्तपरं । राजपुत्रेति त्यक्तानीत्यर्थः। भवद्भतं त्वदधीनं । राज्यमिति सर्व- | संबुद्ध्या मानुषवध्यत्वं द्योतयति ॥ ९ प्रतिबलः परिग्रहोपलक्षणं । जीवितमिति धारकपोषकभोग्यो- | समानबलः ॥ १० ॥ कैलासे वर्तमान इति शेषः ।। पॅलक्षणं । सुखानि ऐहिकामुष्मिकरूपाणि । इदं | माणिभद्रः कुबेरसेनापतिः यदिवा श्रुत इति । हनु सर्वे भवद्भतं भवस्कैङ्कर्यान्तर्गतं भवत्कैङ्कर्येविना | मत इति शेषः ॥ ११ ॥ बद्धेति । अङ्गुलीस्त्रायत अंन्यन्नाहमभ्यर्थयामीत्यर्थः । ५ ॥ तस्य सर्वपरिग्र- | इत्यङ्गुलित्राणं अङ्गलिकवचं । “ गोधा तलं ज्याघा- हत्यारापूवकं रासेन्यस्तभरस्य । तद्वचनं रामकैङ्कर्यमेव | तवारणे' इत्यमरः । अनेन निरन्तरशरसन्धायीति सकलभोग्यजातमिति वाक्यं। सान्त्वयित्वा शरणं | गम्यते । अवध्यकवचः अभेद्यकवचः। युधि अदृश्यो गंत इत्युक्तिसमय एव स्वीकार्योसि एतावत्पर्यन्तं | भवतीत्यन्वयः । हनुमद्राहकत्वेन प्रसिद्धत्वात्तस्य विलम्बः क्षन्तव्य इति सान्त्ववचनान्युक्त्वा ।लोचना- | रावणपुत्रत्वानुक्तिः । ११ ॥ कुतोस्यादृश्यत्वशक्तिः भ्यां पिबन्निव सान्त्ववचनेन तस्य हृदयमाद्धं कृत्वा | अदृश्यश्च किं करोतीत्याह-संग्रामेति ॥ संग्राम अत्यादरेण विलोकयन्नित्यर्थः । ६ ॥ एवं विभीषणेन | समयकृतव्यूहे । तर्पयित्वा होमैःप्रीणयित्वा ॥१३॥ कांयिककैङ्कर्यं प्रार्थिते कायिककैङ्कर्यं पश्चाद्भविष्यतीति | महोदर इत्यादि श्लोकद्वयं ।। अनीकस्थाः सेनापतयः। संप्रति वाचिककैङ्कर्यं कुर्विति दर्शयति-आख्याही- | एते महोदरादयः दशकोटिसहस्राणि सन्तीति शेषः ति । अत्र भवदीयानामित्यनुक्त्वा राक्षसानामित्यु- |॥ १४-१५ ॥ स तैरित्यर्ध ॥ १६ । न केवलं क्तेरयं राक्षसजातिर्न भवति किन्विक्ष्वाकुवंश्य इति | योधनं पराजिताश्च ते लोकपाला इत्याह-सह रामो मेने इतिगम्यते । भ्रमरकीटन्यायेन सद्यः | देवैरित्यर्धमेकं वाक्यं ॥ देवैः लोकपालभिन्नैः । ते धनानिच सालङ्कापरित्यक्तेतिवाऽन्वयः । मेराज्यं । जीवितं जीवनं । सुखानि ऐहलौकिकानि । पारलौकिकानिच । भवद्रुतानि पूर्वस्मात्परित्यक्तामयालदेंख्यावृत्तं सङ्गवङ्गतेति विपरिणतेनान्वेति । परित्यक्तः आमयोरोगरूपी प्राकाराद्ययङ्गभङ्गकारित्वाद्रावणः यया सालङ्क। भवङ्गता । एतेन एकांमूलनगरींस्थापयित्वा खस्यास्वितिरामेणगृहीत्वाराज्यप्रदानेनाभिप्रेतं विभीषणेनरामवदान्य ताज्ञेनेतिभावः ॥ ५ ॥ ति० दशकोटिसहस्राणि । इदंश्च प्रधानराक्षस विवक्षया ॥ १५ ॥ [ पा० ] १ ङ. झ. ट. गन्धर्वोरगपक्षिणां. २ झ. ज. यदिते. ३ ङ . झ. ट. समरे. ४ ख. घ. -ट. संग्रामेसुमहचूहे. ५ ड, झ. ट. श्रीमानिन्द्रः ६ छ, झ, अनीकपातु. ग. अतिकायास्तु. ७ क. घ.-ट, दुरात्मना।