पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ श्रीमद्वाल्मीकिरामायणम् [ युद्धकाण्डम् ६ षोडशः सर्गः ॥ १६ ॥ रावणेनविभीषणंप्रतिसगर्हणीभ्रातृत्वाभावेवधार्हस्वोक्तिः ॥ १ ॥ विभीषणेनतदसहिष्णुतयागदपाणिनासतासचिवचतु- श्येनसहगगनोरपतनेनरावणंप्रतिशोचनपूर्वकंरमसमीपगमनम् ॥ २ ॥ सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम् ॥ अब्रवीत्परुषं वाक्यं रावणः कालचोदितः ॥ १ ॥ वसेत्सह सपत्नेन क्रुद्धेनाशीविषेण वा । न तु मित्रप्रवादेन संवसेच्छत्रुसे विना ॥ २ ॥ जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस ॥ हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा ॥ ३ ॥ प्रधानं साधनं वैधं धर्मशीलं च राक्षस । ज्ञतयो ह्यवमन्यन्ते शरं परिभवन्ति च ॥ ४ ॥ नित्यमन्योन्यसंहष्ट व्यसनेष्वाततायिनः । प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः ॥ ५ ॥ श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने कैचित् ॥ पाशहस्तानरान्दृष्ट्वा चूर्णी तान्गदतो मम ॥ ६ ॥ इत्थं हितमुक्तवन्तं विभीषणं प्रति रावणस्य परु - | प्याक्रन्दन्नित्यर्थः । कालचोदितः। भ्राता राम शरणं षभाषणं षोडशे-मुनिविष्टमिति । मुसन्निवेशं गच्छेत्युक्तवान् कालस्तन्न कर्तव्यमिति स्वयं द्विधा अर्थानुसंधानविरहेपि श्रवणमात्रेणात्यन्तप्रीतिजनकं। भज्येयमिति । अतः स्वप्रकृत्यनुगुणं कालमनुसृतवा- तेनार्थस्याननुकूलत्वेपि श्रवणस्यापरित्याज्यत्वमुक्तं । | नितिभावः ।। १ ॥ परुषमेवाह-वसेदिति ॥ सपत्नेन सुनिविष्टं उक्तवन्तमिति क्रियाविशेषणं वा । तेन | बाह्यशत्रुणा । मित्रप्रवादेन मित्रवदवभासमानेनेत्यर्थः। । मनस्यळनं चेदनादरणीयं वा स्यात् । मनसि सम्य- | शत्रुसेविना शत्रुपक्षपातिना । सहजशत्रुणेत्यर्थः । ग्लानं यथा भवति तथा उक्तवन्तं । हितं न केवलं | शत्रुसर्पसहवासादपि सहजशत्रुसहवासः सुदूरं परि- श्रवणश्रियं । अतिदुर्दशानिस्तरणोपायतया पथ्यं । हर्तव्य इति भावः । अतस्त्वग्रा अस्मान्नगरात् सद्यो श्रवणकटुत्वेपि पथ्यत्वपर्यालोचनया अपरित्याज्यं । गन्तव्यमितिद्योत्यते ।। २ ॥ अत्र शत्रुसेवित्वे हेतुं वाक्यं यावद्वक्तव्यार्थपूर्ण । उक्तवन्तं । “नासंवत्सर- | त्रिभिर्दर्शयति-जानामीत्यादिभिः । सर्वलोकेषु बासिने प्रब्रूयात्” इत्युक्तरीत्या गुरूपसदनयुक्तस्य | सर्वजनेषु मध्ये । शीलं स्वभावं। शीलमेवाह-हृष्य पादयोः पतितस्य वक्तव्यस्य दुरवस्थां दृष्ट्वोक्तवन्तं | न्तीति । अस्मव्यसनेन लब्धहर्षस्त्वमेवं गर्जसीति विभीषणं । अन्येन चेदुक्तं परित्याज्यं । साक्षादनुज- | भावः ।। ३ ॥ ज्ञातयः । प्रधानं स्वजातिश्रेष्ठं । तया प्रत्यासन्नेनोक्तं कथं त्याज्यं । परुषं वाक्यमत्र- | साधनं कार्यसाधकं । वैचं विद्वांसं । प्राधान्यादिष्वे- वीत् । श्रवणसमनन्तरं स्थितोस्मि गतसंदेह इति वा । कैकगुणयोगेपि ज्ञातयोवमन्यन्ते । न बहु मन्यन्ते वक्तव्यं । त्वया महोपकारः कृत इति स्तोत्रं वा | अवसरे परिभवन्ति चेत्यर्थः ॥ ४ ॥ एवं ज्ञातीनां कर्तव्यं । सदृशप्रत्युपकाराभावेनानुतापो वा कर्तव्यः। | ज्ञातिषु व्यसने हर्षः उत्कर्षेऽसूया चेति शीलद्वयमुक्तं तद्विहाय शनून्प्रति वक्तव्यमुक्तवान् । अत्रवीदित्यनेन | अथ भयावहत्वरूपं शीलान्तरमाह—नित्यमिति । यथा सुनिविष्टमुक्तं तथा मनसि सुलनं यथा भवति । प्रतिच्छन्नहृदयाः गूढाभिप्रायाः । अतएव नित्यम- तथा व्यक्तमुक्तवान् । एवमुक्तवन्तं प्रत्यपि परुषोक्तौ | न्योन्यसंहृष्टाः बहिःस्नेहवन्त इवस्थिताः । घोराः हेतुद्वयमाह-रावण इत्यादि । रावयति रोदयतीति राव | क्रूरकर्माणः। अतएव व्यसनेषु सत्सु आततायिनः णः परहिंसायां जगद्विदितः। रौतीति रवणः स एव | द्रोहकारिणः । अतस्त्वमस्मासु व्यसने प्रहर्तुमिच्छ- रावणः । स्वार्थप्रत्ययः । अस्थाने पदं दत्वा स्वयम- ) सीतिभावः ।। ५ ।। उक्तं ज्ञातीनां भयावहत्वं हस्ति- ती० सुनिविष्टं सुष्टुविनीति निष्टमितियावत् ॥ १ ॥ ति० सपत्नेनापिसहवसेत् । नतुमित्रप्रवादेन मित्रपदव्यवहार्येण । शत्रु सेविना शत्रुपक्षपातिना । वसेत् । सपत्नचित्तस्यद्वेषकोट्यैवप्रतिष्टा । मित्रप्रवादेतु हृष्यत्वेनस्निग्धत्वेनचेतिपरमदुःखमितितत्सह वासनिषेधः। शत्रुसेविनेत्यनेनास्यभगवद्भक्तत्वसूचितं ॥ २ ॥ ति० ज्ञातयः ज्ञातिरूपाः । आततायिनः “ अग्निदोगरदश्चैव [ पा०] १ ङ. ज. ~-ट. साधकं. घ• सुकृतं• २ ङ. झ. अ. ट. ज्ञातयोप्यव. ३ ङ. झ. पुरा. ४ ङ. छ. झ. अ. ट. शुणुष्वगदतो.