पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ५१ पुत्रप्रवादेन तु रावणस्य त्वमिन्द्रजिन्मित्रमुखोसि शत्रुः॥ यस्येदृशं राघवतो विनाशं निशम्य मोहादनुमन्यसे त्वम् ॥ १० ॥ त्वमेव वध्यश्च सुदुर्मतिश्च स चापि वध्यो य इहानयत्वम् । बालं दृढं साहसिकं च योऽद्य प्रावेशयन्मत्रकृतां समीपम् ॥ ११ ॥ गूढः प्रगल्भोऽविनयोपपन्नस्तीक्ष्णखभावोऽल्पमतिर्द्धरात्मा । मूर्वंस्वमत्यन्तसुदुर्मतिश्च त्वमिन्द्रजिद्वालतया ब्रवीषि ॥ १२ ॥ को ब्रह्मदण्डप्रतिमप्रकाशानर्चिष्मतः कालनिकाशरूपान् ॥ सहेत बाणान्यमदण्डकल्पान्समक्षमुक्तान्युधि राघवेण ॥ १३ ॥ धनानि रत्नानि विंभूषणानि वासांसि दिव्यानि मणींश्च चित्रान् ॥ सीतां च रामाय निवेद्य देवीं वसेम राजन्निह वीतशोकाः ॥ १४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चदशः सर्गः ॥ १५ ॥ नास्तीत्याह-अद्यापीति । अविपकवुद्धिः अपरिणत- | पपन्नः अशिक्षित इत्यर्थः। तीक्ष्णस्वभावःकूरप्रकृतिः। बुद्धिः । निश्चयाभावं दर्शयति-तस्मादिति । विप्रलप्तं । दुरामा दुष्टान्तःकरणः । मूर्घः अविमृश्यकारी । विप्रलपितं ।। ९ ॥ न केवलं स्वाज्ञानस्य स्वविनाश | अत्यन्तसुदुर्मतिः । प्रहस्त दुर्मतिः महापाद्यादिः एव फलं किंतु पितृविनाशोपीत्याह-पुत्रेति । हे | सुदुर्मतिः त्वमत्यन्तसुदुर्मतिरित्यर्थः । त्वमेवंभूतोसि इन्द्रजित् त्वं पुत्रप्रवादेन पुत्रप्रसिद्ध्या । इत्थंभावे | अतस्त्वं बालतया ब्रवीषि इति संबन्धः ।। १२ ॥ तृतीया। मित्रस्य मुखमिव मुखं यस्य स तथोक्तः । | दुर्मतित्वे हेतुमाह--क इति । ब्रह्मदण्डप्रतिमप्रका- मित्रवद्भासमान इत्यर्थः। शत्रुरसि । शत्रुत्वमेवोपपा- | शान् ब्रह्मदण्डसदृशप्रभान् । ब्रह्मदण्डो नाम युगा यति—यस्येति । त्वं यस्य रावणस्य ईदृशं पुत्रमित्र" | न्तसमुत्थितोन्निवणं धूमकेतुरित्येके । ब्रह्मशाप विनाशपर्यन्तं । राघवतो रामात् । विनाशं निशम्य | इत्यन्ये । आर्चष्मतः ज्वाळावतः । “‘अर्चिर्हतिः शिखा मन्मुखाच्छुत्वा। मोहादनुमन्यसे तस्य रावणस्य त्वं | स्त्रियां” इत्यमरः । कालनिकाशरूपान् अन्तकसदृश शत्रुरसीत्यर्थः। मोहादित्यनेन मित्रमुखत्वमुपपादितं । रूपान्। समक्षमुक्तान् समीपे मुक्तान् ॥ १३ । कृत अनुमन्यस इत्यनेन शत्रुवं ।। १० ॥ एवमनुमोदनस्य | स्याकृत्यस्य प्रायश्चित्तं राजानं प्रत्याह-धनानीति । दण्डमाह-त्वमेवेति । त्वमेव वध्यः दण्ड्यः किमि- | रत्नानि श्रेष्ठवस्तूनि । ‘‘रत्नं स्वजातिश्रेष्ठे पि”’ इत्यमरः ।

त्यर्थः। किंतु यस्त्वां इह सभायां। अनयत् प्रावेशयच्च । | धनानि द्रव्याणि ।। १४ ॥ । इति श्रीगोविन्दराजविर- स एव वध्यः ॥ ११ ॥ सुदुर्मतिश्चेति चशब्ददार्शतान् | चिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धका दोषानाह--मूढः इति । मूढः कृत्याकृत्यविवेकशून्यः। पञ्चदशः सर्गः । ॥ ण्डव्याख्याने १५ प्रगल्भः पृष्टः पण्डितंमन्य इति यावत् । अविनयो- । स० ब्रह्मदण्डप्रतिमः ब्राह्मणशापसदृशःप्रकाशस्तेजोयेषांते तान् । कालः कालाभिमानीयममृत्यः । नितरांकाशतइतिनिकाशो ऽग्निः । तद्वद्पंयेषांतान् । समीक्ष्य लक्षीकृत्य ॥ १३ ॥ स० रत्नानिधनानिः श्रेष्ठधनानि । “ रत्नश्रेष्ठमणावपि ” इतिविश्वः मणीन् हीरादीन् ॥ १४ ॥ इतिपञ्चदशःसर्गः ॥ १५ ॥ [ पा० ] १ ज• मन्यार्थसुदुर्मतिश्च. २३ ख.-ङ, झ. सुभूषणानि-