पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १२८ ॥ श्रीमद्भौविन्दराजीयव्याख्यासमलंकृतम् । ४७५ सर्वं ममैतद्विदितं तपसा धर्मवत्सल ॥[ संर्पतन्ति च मे शिष्याः प्रवृत्याख्याः पुरीमितः ॥१६॥] अहमप्यत्र ते दद्मि वरं शस्त्रभृतां वर ॥ अर्यमद्य गृहाणेदमयोध्यां श्वो गमिष्यसि ॥ १७ ॥ तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः ॥ बाढमित्येव संहृष्टो धीमान्वरमयाचत ॥ १८ ॥ अकाले फलिनो वृक्षाः सर्वे चापि मधुस्रवाः ॥ फलान्यमृतकल्पानि बहूनि विविधानि च । भवन्तु मार्गे भगवनयोध्यां प्रति गच्छतः ॥ १९ ॥ तथेति च प्रतिज्ञाते वचनात्समनन्तरम् ॥ अभवन्पादपास्तत्र खगंपादपसन्निभाः ॥ २० ॥ निष्फलाः फलिनश्चसन्विपुष्पाः पुष्पशालिनः॥ शुष्काः समग्रपत्रास्ते नगाश्चैव मधुस्रवाः ॥ सर्वतो योजना त्रीणि गच्छतामभवंस्तदा ॥ २१ ॥ ततः प्रहृष्टाः प्लवगर्षभास्ते बहूनि दिव्यानि फलानि चैव । कामादुपाश्नन्ति सहस्रशस्ते मुदान्विताः खगैजितो यूथैव ॥ २२॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तविंशत्युत्तरशततमः सर्गः ॥ १२७ ॥ अष्टाविंशत्युत्तरशततमः सर्गः ॥ १२८ ॥ भरद्वाजाश्रमस्थेनरामेण हनुमन्तंप्रति गुहेस्वागमन निवेदनचोदनयासह नन्दिग्रामगंभरतंप्रति स्वगमननिवेदनदिचो दना ॥ १ ॥ हनुमता गुहभरतयोः श्रीरामसंदेशनिवेदनम् ॥ २ ॥ अयोध्यां तु समालोक्य चिन्तयामास राघवः ॥ चिन्तयित्वा हनूमन्तमुवाच प्लवगोत्तमम् ॥ १ ॥ अतएव रक्षितुः खरादिवधमुखेन पालयितुः । तव | संबन्धः ।। १८–१९ । तथेति चेत्यादिसार्धश्लोक- भार्या हृता बभूवेति यत् तच्चेति योजना । हृता हर्तु- | इयमेकान्वयं । । योजना योजनानि । “सुपां सुळ्ळ्’ मीप्सिता । आशंसायां क्तः । अतो न सीतोन्मथन- | इत्यादिना पूर्वसवर्णादेशः । अत्यन्तसंयोगे द्वितीय । मित्यनेन पौनरुक्त्यं । वरः मृतवानरजीवनादिः | गच्छतां वानराणां फलिनश्चासन्निति क्रमेणान्वयः । ॥ १०-१६ । वरं दद्मि ददामि। अत्र आश्रमे । इदं चोत्तरदिनकार्यं सैौकर्याय त्रऋषिणा दर्शितं ।२० अद्य अध्ये पूजां । गृहाणेति संबन्धः ॥ १७ ॥ तस्ये -२१ ॥ ते प्रस्थिताः । स्वर्गजितो यथा स्वर्गिण इव त्यादिसार्धश्लोकद्वयमेकान्वयं । बाढमिति प्रतिगृह्य ॥ २२ ।। इति श्रीगोविन्दराजविरचिते श्रीमद्राम- तस्मिन् दिने तत्र पूजामङ्गीकृत्येत्यर्थः । धीमान् | यणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अद्यत्र स्थित्वा । भरतं प्रति दूतप्रेषणमुचितमिति । सप्तविंशत्युत्तरशततमः सर्गः ॥ १२७ ॥ ज्ञानवानित्यर्थः । मधूनि स्रवन्तीति मधुस्रवाः * गच्छतः ममेति शेषः । मयि गच्छति सतीत्यर्थः । अथ भरतं प्रति हनुमत्प्रेषणमष्टाविंशत्युत्तरशतत- भवन्तु । अत्रेतिकरणं बोध्यं । इति वरमयाचतेति । मे—अयोध्यां त्विति ।। अर्धमेकं वाक्यं । समालोक्य ति० इतः मदाश्रमात् । मेशिष्याः प्रवृत्याख्याः तवप्रवृत्तिमुदन्तं आचक्षते प्रवृत्त्याख्याः । तथाभूतःसन्तः तवपुरी अयोध्यां । संपतन्ति । अतस्त्रपुरीवृत्तान्तोपिज्ञायतइतिशेषः ॥ १६ ॥ इतिसप्तविंशत्युत्तरशततमस्सर्गः ॥ १२७ ॥ ति० पञ्चम्यांचतुर्दशवर्षस्यपूर्णत्वात्तद्दिनेभरद्वाजाश्रमेविलंबस्यप्राप्तचतुर्दशसमाप्तौ यदिखांनपश्यामितदाहुताशनंप्रवेक्ष्यामीति भरतोक्तेर्भरतस्यागमननिवेदनायहनूमस्प्रेषणकृतवानित्याह--अयोध्यांविति । समालोक्य भरद्वाजाश्रमे विमानादवतरणसमयइ [ पा० ] १ क. ख. ङ. --ट. पाठेष्विदमर्धदृश्यते. २ ख. ङ. च. छ. झ. ट. संहृष्टःश्रीमान्वर. ३ ग• ङ. --ट, योजना स्तिस्रो. ४ ख. ङ. च. छ. झ. ट. मुदेव. ५ अयश्लोकस्यस्थाने क, ख. ड. -ट. पाठेषु अयोध्यांतुसमालोक्यचिन्तयामास राघवः । प्रियकामःप्रियंरामस्ततस्वरितविक्रमः । चिन्तयित्वाततोद्यटिंवानरेषुन्यपातयत् । उवाचधीमांस्तेजस्वीहनूमन्तंप्लवंगमम् । अयोध्यांत्वरितोगत्वाशीघ्रप्लवगसत्तम। इयर्धपञ्चकंडश्यते.