पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ ६ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ AAAAAAAAAAAAAAAAAA***~*~*~*~*~*~*~*~*~*~******

  • ~*~*

~*~*~*~**~*~*~*~*~*~*~*~*~*~*~*~*~*~~*~*~*~*~*~*~*~*~*~*~* अनेनादाय वैदेहीं लज्जमानां र्यशस्विनीम् । लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता ॥ १२ ॥ अब्रवीच्च विमानस्थः पूजयन्सर्ववानरान् । सुग्रीवं च महावीर्यं काकुत्स्थः सविभीषणम् ॥ १३ ॥ मित्रकार्यं कृतमिदं भवद्भिर्वानरोत्तमाः॥ अनुज्ञाता मया सर्वं यथेष्टं प्रतिगच्छत ॥ १४ ॥ यतु कार्यं वयस्येन सैहृदा वा परन्तप ॥ कृतं सुग्रीव तत्सर्वं भवताऽधर्मभीरुणा ॥ किष्किन्धां प्रतियाह्याशु खसैन्येनाभिसंवृतः॥ खराज्ये वस लङ्कायां मया दत्ते विभीषण । न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः॥१६॥ अयोध्यां प्रतियास्यामि राजधानीं पितुर्मम । अभ्यनुज्ञातुमिच्छामि सर्वाधामत्रयामि वः ॥१७ एवमुक्तास्तु रामेण वानरास्ते महाबलाः ॥ ऊचुः चूंजलयो रामं राक्षसश्च विभीषणः॥ १८ ॥ अयोध्यां गन्तुमिच्छामः सर्वानयतु नो भवान् ।। ॐद्युक्ता विचरिष्यामो वनानि नगराणि च ॥१९॥ दृष्ट्वा त्वामभिषेकार्दू कौसल्यामभिवाद्य च । अचिरेणागमिष्यामः स्खान्हनृपतेः सुत ॥ २० ॥ एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः॥ ऽब्रवीद्राघवः श्रीमान्ससुग्रीवविभीषणान् ॥ २१ ॥ प्रियाप्रियतरं लब्धं यदहं ससुहृज्जनः ॥ सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः ॥ २२ ॥ क्षिप्रमारोह सुग्रीव विमानं वानरैः सह ॥ स्वमध्यारोह सामात्यो राक्षसेन्द्र विभीषण ॥ २३ ॥ तैतस्तत्पुष्पकं दिव्यं सुग्रीवः सह सेनया ॥ अंध्यारोहवरञ्शीघ्र सामात्यश्च विभीषणः ॥ २४ ॥ तेषारूढेषु सर्वेषु कौबेरे परमासनम् ॥ राघवेणाभ्यनुज्ञातमुत्पपात विहायसम् ॥ २५ ॥ य्यौ तेन विमानेन हंसयुक्तेन भाव्रता ॥ अहङ्ध प्रतीतश्च बभौ रामः कुबेरवत् ॥ २६ ॥ ते सर्वे बैनरा हृष्टा राक्षसाश्च महाबलाः॥ यथासुखमसंबाधं दिव्ये तस्मिखुपाविशन् ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चविंशत्युत्तरशततमः सर्गः ॥ १२५ ॥ ऋज़मानां सदस्यह्नारोहणाय लज्जन्तीं । रामेणाङ्क- | १६-१८ ॥ उक्तः सावधानाः। जनपपी- रोपणं च स्त्रीसहयरहितत्वात् । धनुष्मता रामधनु- | डामकुर्वन्त इत्यर्थः । १९-२१ । प्रियाप्रियतर र्धारिणा ॥ ११-१३ । अब्रवीचेत्यत्र संग्रहेणोक्तं । मिति । सीतालाभः प्रियं । भरतदर्शनं प्रियाप्रियं । विवृणोति-मित्रेत्यादिना । वानरान्प्रत्याह-मित्रेति । भवद्भिः सह पुरप्रवेशः प्रियाप्रियतरमित्यर्थः ॥ १४ । सुग्रीवं प्रत्याह-यत्वित्यादिना । सुहृदा ।। २२-–२३ ॥ शीघ्र शीघ्रगमिति विमानविशेषणं । शोभनहृदयेन । वाशब्द एवकारार्थः । अधर्मभीरु- | त्वरन्निति सुग्रीवविशेषणात् ॥ २४ ॥ आसनं वाहनं णेति च्छेदः ॥ १५॥ विभीषणं प्रत्याह-स्वेति ॥ |॥ २५ ॥ हंसयुक्तेन प्रतिमारूपहंसयुक्तेन । प्रतीतः स्वराज्ये वस । न तु परकीयं रावणवदाक्रमितव्यं । | श्लाघितः ॥ २६ ॥ यथासुखमसंबाधमिति पदद्वयेन अतो जनस्थानरक्षिणः समानेतव्या इति भावः । दिव्यस्य पुष्पकस्य अपेक्षितावकाशप्रत्वं गम्यते स० अधर्मभीरुणा कृतप्रतिकरणाभावप्रत्यवायरूपधर्मभीरुणा ॥ १५ ॥ ति० मुद्युक्ताः हर्षयुक्ताः । १९ ॥ स ० खगतेन आकाशगतेन । हंसयुतेन वाहकवेननिर्मितहंसप्रतिमायुतेन । सुन्दरकाण्डेराक्षसपिशाचादीनांतद्वाहकखोक्तिस्तुलीलयारावर णनियुक्तराक्षसादीनपेक्ष्य । वस्तुतस्तु तद्विमानदेवस्यैवतादृशशक्तिमत्वेनस्खेच्छयैवान्यनिरपेक्षेणगतिरितिज्ञेयं । प्रतीतः प्रसिद्धः ॥ २६ ॥ इतिपञ्चविंशत्युत्तरशततमःसर्गः ॥ १२५॥ [ पा° ] १ ङ, झ. . ट. मनखिनीं. २ ङ. झ. ट. निग्धेनचहितेनच ३ ख. सेन्द्रस्सधैमरुद्रणाः, ४ ङ. झ. ट. प्राञ्जलयस्सर्वे• ख, च, छ. प्राञ्जलयोभूखा. ५ क. ङ. छ. झ. ज. ट. मुद्युक्तः६ ङ. झ. ज. ट. अचिरादागमिष्यामः ७ ङ. झ. ट. अब्रवीद्वानरान्नामस्ससुग्रीव. ८ ङ. झ. ट. ततस्सपुष्पकं. ९ ङ, झ, ठ, सहवानरैः. १० ङ, झ. ट. आरुरो- इमुदायुक्तः, ख, च, छ, ज, आरुरोहततःश्रीमान् ११ ङ, झ, द, खगतेनविमानेन १२ ख, ङ, च, छ, झ, च, , वानरश्नध